अध्यायः 187

भरद्वाजंप्रति भृगुणा ब्राह्मणादिवर्णलक्षणकथनम् । वैराग्यस्य मुक्तिसाधनताकथनं च ॥ 1 ॥

भरद्वाज उवाच ।
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥
भृगुरुवाच ।
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसंपन्नः षट््सु कर्मस्ववस्थितः ॥
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥
सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥
क्षत्रजं सेवते कर्म देवाध्ययनसंगतः ।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥
कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः ।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः ॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः ॥
वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ ॥
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥
यस्य सर्वे समारम्भा निराशाबन्धना द्विज ।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान् ॥
अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत् । परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः ।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः ॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् ॥
निर्वेदादेव निर्वायान्न च किंचिद्विचिन्तयेत् ।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति ॥
शौचेन सततं युक्तः सदाचारसमन्वितः ।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

12-187-3 विघसं ब्राह्मणादिभुक्तशेषम् ॥ 12-187-5 क्षत्रं हिंसा तदर्थं जातं क्षत्रजं युद्धात्मकं कर्म । आदानं प्रजाभ्यः ॥ 12-187-6 वाणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः । इति झ. पाठः ॥ 12-187-8 एतत्सत्यादिसप्तकम् । द्विजे त्रैवर्णिके । धर्म एव वर्णविभागे कारणं न जातिरित्यर्थः ॥ 12-187-10 तौ क्रोधलोभौ ॥ 12-187-12 आशैव बन्धनं तद्वर्जिता निराशाबन्धनाः समारम्भाः सम्यगारभ्यन्त इति यज्ञादयः । हुतमघ्नौ ब्राह्मणे वा दत्तमग्निहोत्रनित्यश्राद्धादि । त्यागे फलत्यागनिमित्तम् । निराशीर्बन्धना द्विजेति घ. झ.ट. पाठः ॥ 12-187-13 मैत्रं मित्रभावस्तदेवायनं परं प्राप्यं स्थानं तत्र गतिर्यस्य सः । स्थानमात्मानमातिष्ठेत् आभिमुख्येन तिष्ठेत् । आत्मध्यानपरो भवेदित्यर्थः ॥ 12-187-14 सङ्गेषु ममेदमिति सङ्गहेतुषु पुत्रदारादिषु ॥ 12-187-17 निर्वेदादेव निर्वाणं न किंचिदपि इति घ.झ. पाठः । निर्वाणादेव निर्वायात् इति ड. पाठः ॥