अध्यायः 190

भृगुणा भरद्वाजंप्रति वानप्रस्थयत्याश्रमयोर्लक्षणकथनम् ॥ 1 ॥ तथा हिमवदुत्तरलोकस्य स्वर्गतुल्यत्वप्रतिपादनपूर्वकं सुकृंतिप्राप्यत्वकथनं च ॥ 2 ॥

भृगुरुवाच ।
वानप्रस्थाः खल्वृषिधर्ममनुवर्तन्ते पुण्यानि तीर्थानि नदीप्रस्रवणान्युचरन्ति सुविभक्तेष्यरण्येषु मृगमहिषवराहशार्दूलसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नकालबहिहोमानुष्ठायिनः समित्कुशकुसुमापहारार्चनसंमार्जनहोमान्तलब्धविश्रयाः शीतोष्ण [वर्ष]पवनविनिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्ठानहृत [परिशुष्क] मांसशोणितत्वगस्थिभूता धृतिपराः सत्वयोगाच्छरीराण्युद्वहन्ति ॥
भवति चात्र श्लोकः ।
यश्चैतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् ।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥
परिव्राजकानां पुनराचारः । तद्यथा विमुच्यधनकलत्रपरिबर्हणं सङ्गेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनानां तुल्यदर्शनाः स्थावरजङ्गमानां जरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्भनः कर्मभिरभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यननुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्च च प्राणधारणार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतिताऽयाचितभैक्ष्याः कामक्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥
भवन्ति चात्र श्लोकाः ।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
यो भैक्षचर्योपगतैर्हविर्भि श्चिताग्निना प्राप्य स याति लोका ॥
मोक्षाश्रमं यः कुरुते यथोक्तं शुचिः सुसंकल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥
भरद्वाज उवाच ।
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥
भृगुरुवाच ।
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः ।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥
स स्वर्गसदृशो लोकस्तत्र ह्युक्ताः शुभा गुणाः ।
नात्र मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥
न लोभः परदारेषु स्वदारनिरतो जनः ।
न चान्योन्यवधस्तत्र द्रव्येषु च न विस्मयः ॥
परोक्षधर्मो नैवास्ति संदेहो नापि जायते ।
कृतस्य तु फलं व्यक्तं प्रत्यक्षमुपलभ्यते ॥
यानासनाशनोपेताः प्रासादभवनाश्रयाः ।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥
प्राणधारणमात्रं तु केषांचिदुपलभ्यते ।
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥
इह धर्मपराः केचित्केचिन्नैकृतिका नराः ।
सुखिताः दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥
इह श्रमो भयं मोहः क्षुधा निद्रा च जायते ।
लोभश्चार्थकृतो नॄणां येन मुह्यन्त्यपण्डिताः ॥
इह अर्ता बहुविधा धर्माधर्मस्य कर्मणः ।
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥
सोपधं कृतिः स्तेयं परिवादो ह्यसूयिता ।
परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥
एतानि सेवते यस्तु तपस्तस्य मितायते ।
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्य प्रवर्धते ॥
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः । कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् ।
शुभैः शुभमवाप्नोति कर्ताऽशुभमथान्यथा ॥
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।
इष्टेन तपसा पूता ब्रह्मलोकमुपाश्रिताः ॥
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥
असत्कर्माणि कुर्वाणास्तिर्यग्योनिषु चापरे ।
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥
अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ।
इहैव परिवर्न्तते न ते यान्त्युत्तरां दिशम् ॥
ये गुरून्पर्युपासन्ते नियता ब्रह्मचारिणः ।
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥
इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः ।
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥
भीष्म उवाच ।
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् ।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥
एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः ।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

12-190-1 सुविविक्तेष्वरण्येषु इति झ. ड. थ. पाठः ॥ 12-190-3 परिबर्हणं शठ्यादिभोगसामग्री । परिव्राजकानां पुनराचारं प्रवदामः इति ड. थ.पाठः । सङ्गेष्वात्मानमवधूय स्नेहपाशान्परित्यजन्ति । इति ट. पाठः । असङ्कीर्णस्थानान्युपतिष्ठेयुरिति ड.थ. पाठः ॥ 12-190-5 विप्रस्तु भैक्ष्योष्णातैर्हविर्भिश्चिताग्निनां स व्रजते हि लोकमिति झ. पाठः ॥ 12-190-6 सुसङ्कल्पितमुक्तबुद्धिः इति झ. पाठः ॥ 12-190-10 स स्वर्गसदृशो देश इति झ. पाठः । काले मृत्युः इति ध. झ.पाठः ॥ 12-190-12 परोक्षधर्मः परोक्षफलो धर्मः । परो ह्यधर्मो नेवास्तीति झ. पाठः । कृतस्य तु फलं तत्र इति ध. झ. पाठः ॥ 12-190-16 क्षुधा तीव्रा च इति झ. पाठः ॥ 12-190-17 वार्ताः कुशलाः ॥ 12-190-18 सोपधं सदम्भम् ॥ 12-190-19 तपो योगजधर्मः । तपस्तस्य प्रहीयते इति झ. पाठः ॥ 12-190-20 चिन्ता विचारः ॥ 12-190-21 ब्रह्मलोकं हिमवत्पार्श्वम् ॥ 12-190-23 यदि सत्कारमृच्छन्ति इति ध. झ. पाठः ॥ 12-190-24 उत्तरां दिशं हिमवत्पार्श्वम् ॥