अध्यायः 191

भीष्मेण युधिष्ठिरंप्रति सदाचारनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥
भीष्म उवाच ।
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।
असन्तस्त्वभिविख्याताः सन्तश्चाचारलक्षणाः ॥
पुरीषं यदि वा मूत्रं ये न कुवन्ति मानवाः । राजमार्गे गवां मध्ये धान्यमध्ये शिवालये ।
अग्न्यगारे तथा तीरे ये न कुर्वन्ति ते शुभाः ॥
शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥
सूर्यं सदोपतिष्ठेन न स्वपेद्भास्करोदये ।
सायंप्रातर्जपेत्सन्ध्यां तिष्ठन्पूर्वां तथेतराम् ॥
पञ्चार्द्रो भोजनं भुञ्ज्यात्प्राद्भुखो मौनमास्थितः ।
न निन्द्यादन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत् ॥
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।
देवर्षिर्नारदः प्राह एतदाचारलक्षणम् ॥
शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम् ।
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामात्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥
सायंप्रातर्मनुष्याणामशनं वेदनिर्मितम् ।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥
होमकाले तथ्ना जुह्वन्नृतुकाले तथा व्रजन् ।
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।
तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते ॥
लोष्टमदीं तृणच्छेदी नखखादी तु यो नरः ।
नित्योच्छिष्टः संकसुको नेहायुर्विन्दते महत् ॥
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।
भक्षयेन्न वृथामांसं पृष्ठमांसं च वर्जयेत् ॥
स्वदेशे परदेशे वा अतिर्थि नोपवासयेत् ।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥
गुरूणामासनं देयं कर्तव्यं चाभिवादनम् ।
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया ॥
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत् ॥
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः ।
सर्वमार्यकृतं धर्म्यं वालसंस्पर्शनानि च ॥
दर्शनेदर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥
सायं प्रातश्च विप्राणां पूजनं च यथाविधि । पण्यानां शोभते पण्यं कृषीणामृद्ध्यतां कृषिः ।
बहुकारं च सस्यानां वाह्ये वाहो गवां तथा ॥
संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥
श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।
व्याधितानां च सर्वेषामायुष्ममभिनन्दनम् ॥
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
सुतैः स्त्रिया च शयनं सह भोज्यं च वर्जयेत् ॥
त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ।
अवराणां समानानामुभयं नैव दुष्यति ॥
हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥
ज्ञानपूर्वकृतं पापं छादयन्त्यबहुश्रुताः ।
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः ॥
पापेनापिहितं पापं पापमेवानुवर्तते । धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते ।
धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते ॥
पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः ।
राहुर्यथा चन्द्रमुपैति चापि तथाऽबुधं पापमुपैति कर्म ॥
आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते ।
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥
एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥
धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्न्छश्वत्तैरुपभुज्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

12-191-2 आचारो लक्षणं ज्ञापकं येषाम् ॥ 12-191-4 शौचं कृत्वा उपस्पृश्य आचम्य नदीं तरेदवगाहेत् । ततस्तर्पणमिति संबन्धः ॥ 12-191-5 जपेत्सावित्रीम् । सन्ध्यामुपलक्ष्य तिष्ठन्नुपतिष्ठेत ॥ 12-191-6 पादौ पाणी सुखं चेति पञ्च आर्द्राणि यस्य । भोजनमन्नम् ॥ 12-191-8 शुचिंदेशमनड्वाहं इति धार्मिकं चैत्यं इति च झ. पाठः ॥ 12-191-9 सामान्यं साधारणम् । पाकभेदं न कुर्यादित्यर्थः ॥ 12-191-10 तथा कुर्वन् यथाकालभोजी उपवासफलं लभेतेत्यर्थः ॥ 12-191-12 ब्राह्मणभुक्तावशिष्टं मातुर्हृदयमिव हितकरं कृतं धात्रा तद्ये उपासते ते सत्यं ब्रह्म समासते आसादयन्ति ॥ 12-191-13 संकसुकः कामलोभादिवशः ॥ 12-191-14 वृथामांसमसंस्कृतमांसम् ॥ 12-191-17 धर्म्यं ऋतुकालिकम् । गुह्ये रहसि ॥ 12-191-18 हृदयं रहस्यम् । तीर्थं गुरुः । शुचिरग्निः । आर्यकृतं शिष्टाचरितम् । वालं गोपुच्छम् । सर्वमार्यकृतं चौक्ष्यमिति झ. पाठः ॥ 12-191-19 प्रदिष्टं कर्तव्यत्वेनोपदिष्टम् ॥ 12-191-20 दक्षिणं पाणिमुद्धरेत् यज्ञोपवीती भवेत् ॥ 12-191-21 विप्राणां पूजनमेवोत्तमं पण्यमुत्तमा कृषिश्च तद्वत् दृष्टफलमित्यर्थः । सस्यानां धान्यानां बहुकारं बहुलीकरणं च तदेव गवामिन्द्रियाणां वाह्ये प्राप्ये । वाहप्रापणम् । दिव्यस्त्र्यन्नपानादीष्टप्राप्तिरपि विप्राणां पूजनमेव पण्यादिवदेष्टव्यमित्यर्थः ॥ 12-191-22 पूजनप्रकारमाह संपन्नमिति । भोजने दीयमाने संपन्नमिति ब्रूयाद्दाता । सुसंपन्नमिति प्रतिग्रहीता । एवमुत्तरत्र ॥ 12-191-23 संप्राप्ते कृते सति । विप्राणामभिनन्दनं वन्दनादिना संतोषणं कार्यमिति शेषः ॥ 12-191-24 प्रत्यादित्यमादित्याभिमुखो न मेहेत न मूत्रमुत्सृजेत् । शकृत्पुरीषम् । पु्तरैस्त्रिया च सुहृदा सह भुक्तं च वर्जयेत् इति ट. पाठः ॥ 12-191-26 वैकृतं नेत्रादिविकारः । पापं हृदयमाख्याति गूहमानाः पापम् ॥ 12-191-28 पापं पापिम् । पापं प्रकाशनीयं धर्मस्तु गोपनीय इत्यर्थः ॥ 12-191-30 मरणं कर्तृ ॥ 12-191-31 मानसं मनोनिर्वर्त्यम् ॥