अध्यायः 194

भीष्मेण युधिष्ठिरंप्रति जपफलप्रकारादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
चातुरात्रस्यनुक्तं ते राजधर्मास्तथैव च ।
नानाश्रयाश्च भगवन्नितिहासाः पृथग्विधाः ॥
धुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते ।
संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत ।
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि सेऽनघ ।
जापका इति किंचैतत्साङ्ख्ययोगक्रियाविधिः ॥
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते ।
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥
`इक्ष्वाकोश्चैव मृत्योश्च विवादे धर्मकारणात् ।' संन्यास एव वेदान्ते वर्तते जपनं प्रति ।
वेदवादाङ्गनिर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः ॥
साङ्ख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः ।
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ॥
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते ।
`क्रमेण चैव विहितो जपयज्ञविधिर्नृप ॥
सालम्बनमिति ज्ञेयं जपयज्ञात्मकं शुभम् ।' मनः समाधिरेवात्र तथेन्द्रियजयः स्मृतः ॥
सत्यमग्निपरीचारो विविक्तानां च सेवनम् ।
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥
विषयप्रतिसंहारो मितजल्पस्तथा शमः ।
एष प्रर्वाको धर्मो निवर्तकमथो शृणु ॥
यथा निवर्तते धर्मो जपतो ब्रह्मचारिणः । `न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ ।
युज्यते नृपशार्दूल सुसंवेद्यं हि तत्किल ॥
जपमावर्तयन्नित्यं जपन्वै ब्रह्मचारिकम् ।
तदर्थबुद्ध्या संयाति मनसा जापकः परम् ॥
यथा संश्रूयते जापो येन वै जापको भवेत् ।
संहिताप्रणवेनैव सावित्री च परा मता ॥
यदन्यदुचितं शुद्धं वेदस्मृत्युपपादितम् ।' एतत्सर्वमशेषेण यथोक्तं परिवर्तयेत् ॥
द्विविदं मार्गमासाद्य व्यक्ताव्यक्तमनामयम् । कुशोच्चयनिषष्णः सन्कुशहस्तः कुशैः शिख ।
कुशैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् ।
साम्यमुत्पाद्य मनसा मनस्येव मनो दधत् ॥
तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् ।
संन्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः ॥
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् ।
`अथाभिमतमन्त्रेण प्रणवाद्यं जपेत्कृती ॥
यस्मिन्नेवाभिपतितं मनस्तत्र निवेशयेत् । समाधौ स हि मन्त्रे तु संहितां वा यथाविधि ।'
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ॥
अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते ।
न कर्ता करणीयानां नाकार्याणामिति स्थितिः ॥
न चाहंकारयोगेन मनः प्रस्थाफ्येत्क्वचित् ।
न चार्थग्रहणे युक्तो नावमानी न चाक्रियः ॥
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः ।
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ॥
स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी ।
निरिच्छस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥
`निरालम्बो भवेत्स्मृत्वा मरणाय समाधिमान् । सर्वाल्लोँकान्समाक्रम्य क्रमात्प्राप्नोति वै परम् ॥'
अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम् ।
उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः ।
अमृतं विरजाः शुद्धमात्मानं प्रतिपद्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

12-194-2 ब्रह्मयुक्ता महामते इति ड. थ. पाठः ॥ 12-194-7 शान्तिर्ब्रह्मण्यवस्थिता इति ट. ड. थ. पाठः ॥ 12-194-13 यथा निवर्तते कर्मेति झ. ध. पाठः ॥ 12-194-17 कुशहस्तः कुशस्थलीति ट. ड. थ. पाठः ॥ 12-194-18 विषयेभ्यो मनो रुन्ध्यादिति ट. पाठः ॥ 12-194-19 ब्रह्म च ध्यायते योगी जपन्वै वेदसंहितामिति ड. थ. पाठः ॥