अध्यायः 195

भीष्मेण युधिष्ठिरंप्रति जापकोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह ।
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥
भीष्म उवाच ।
शृणु वहितो राजञ्जापकानां गतिं विभो ।
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ॥
एकदेशक्रियश्चात्र निरयं स निगच्छति ॥
अवमानेन कुरुते न तुष्यति न शोचति ।
ईदृशो जापको याति निरयं नात्र संशयः ॥
अहंकारकृतश्चैव सर्वे निरयग्रामिनः ।
परावमानी पुरुषो भविता निरयोपगः ॥
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्रतत्रोपपद्यते ॥
अथैश्वर्यप्रसक्तः सञ्जापको यत्र रज्यते ।
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥
रागेण जापको जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्र तत्रोपजायते ॥
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति ।
फलस्यापचितिं याति निरयं चाधिगच्छति ॥
अकृतव्रज्ञको बालो मोहं गच्छति जापकः ।
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति ॥
दृढग्राही करोमीति जाप्यं जपति जापकः ।
न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् ।
तद्भूतो जापकः कस्मात्सशरीरमिहाविशेत् ॥
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः ।
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

12-195-1 यतीनामिति ध. पाठः ॥ 12-195-2 एतत्सर्वं य इति ट. पाठः ॥ 12-195-3 अपूर्णाङ्गजपपर इत्यर्थः ॥ 12-195-4 अवमानेनाश्रद्धया । जपे प्रीत्यादिरहितः ॥ 12-195-5 अहंकारकृतो दर्पवन्तः । पुरुषो जापकः ॥ 12-195-6 अभिध्याफलाभिसन्धिः । यत्र फले रागः प्रीतिस्तत्र तत्फलभोगनिमित्तमुपपद्यते योग्यं देहं प्राप्नोति ॥ 12-195-7 स एवतत्र रागएव ॥