अध्यायः 200
भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥
मनुरुवाच ।
अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम् ।
जलात्प्रसूता जगती जगत्या जायते जगत् ॥
इमे शरीरैर्जलमेव गत्वा
जलाच्च तेजः पवनान्तरिक्षम् ।
खाद्वै निवर्तन्ति न भाविनस्ते
ये भाविनस्ते परमाप्नुवन्ति ॥
नोष्णं न शीतं मृदु नापि तीक्ष्णं
नाम्लं कषायं मधुरं न तिक्तम् ।
न शब्दवन्नापि च गन्धवत्त
न्न रूपवत्तत्परमस्वभावम् ॥
स्पर्शं तनुर्वेद रसं च जिह्वा
घ्राणं च गन्धाञ्श्रवणे च शब्दान् ।
रूपाणि चक्षुर्नच तत्परं य
द्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥
निवर्तयित्वा रसनां रसेभ्यो
घ्राणं च गन्धाच्छ्रवणे च शब्दात् ।
स्पर्शात्तनुं रूपगुणात्तु चक्षु
स्ततः परं पश्यति तत्स्वभावम् ॥
यतो गृहीत्वा हि करोति यच्च
यस्मिंश्च यामारभते प्रवृत्तिम् ।
यस्मै च यद्येन च यश्च कर्ता
यत्कारणं तं स्वमुपेयमाहुः ॥
यद्वाऽप्यभूद्व्यापकं साधकं च
यन्मन्त्रवत्स्थास्यति चापि लोके ।
यः सर्वहेतुः परमार्थकारी
तत्कारणं कार्यमतो यदन्यत् ॥
यथा हि कश्चित्सुकृतैर्मनुष्यः
शुभाशुभं प्राप्नुते चाविरोधात् ।
एवं शरीरेषु शुभाशुभेषु
स्वकर्मभिर्ज्ञानमिदं निवद्धम् ॥
यथा प्रदीप्तः पुरतः प्रदीपः ।
प्रकाशमन्यस्य करोति दीप्यन् ।
तथेह पञ्चेन्द्रियदीपवृक्षा
ज्ञानप्रदीप्ताः परवन्त एव ॥
यथा च राज्ञो बहवो ह्यमात्याः
पृथक् प्रमाणं प्रवदन्ति युक्ताः ।
तद्वच्छरीरेषु भवन्ति पञ्च
ज्ञानैकदेशाः परमः स तेभ्यः ॥
यथार्चिषोऽग्नेः पवनस्य वेगा
मरीचयोऽर्कस्य नदीषु चापः ।
गच्छन्ति चायान्ति च संयताश्च
तद्वच्छरीराणि शरीरिणां तु ॥
यथा च कश्चित्परशुं गृहीत्वा
धूमं न पश्येज्ज्वलनं च काष्ठे ।
तद्वच्छरीरोदरपाणिपादं
छित्त्वा न पश्यन्ति ततो यदन्य ॥
तान्येव काष्ठानि यथा विमथ्य
धूमं च पश्येज्ज्वलनं च योगात् ।
तद्वत्सुबुद्धिः सममिन्द्रियार्थै
र्बुद्धः परं पश्यति तत्स्वभावम् ॥
यथात्मनोऽङ्गं पतितं पृथिव्यां
स्वप्नान्तरे पश्यति चात्मनोऽन्यत् ।
श्रोत्रादियुक्तः सुमनाः सुबुद्धि
र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥
उत्पत्तिवृद्धिक्षयमसन्निपातै
र्न युज्यतेऽसौ परमः शरीरी ।
अनेन लिङ्गेन तु लिङ्गमन्य
द्गच्छत्यदृष्टः प्रतिसन्धियोगात् ॥
न चक्षुषा पश्यति रूपमात्मनो
न चापि संस्पर्शमुपैति किंचित् ।
न चापि तैः साधयते स्वकार्यं
ते तं न पश्यन्ति स पश्यते तान् ॥
यथा समीपे ज्वलतोऽनलस्य
संतापजं रूपमुपैति कश्चित् ।
न चान्तरा रूपगुणं बिभर्ति
तथैव तद्दृश्यते रूपमस्य ॥
तथा मनुष्यः परिमुच्य काय
मदृश्यमन्यद्विशते शरीरम् ।
विसृज्य भूतेषु महत्सु देहं
तदाश्रयं चैव बिभर्ति रूपम् ॥
खं वायुमग्निं सलिलं तथोर्वी
समन्ततोऽभ्याविशते शरीरी ।
नान्याश्रयाः कर्मसु वर्तमानाः
श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते ॥
श्रोत्रं नभो घ्राणमथो पृथिव्या
स्तेजोमयं रूपमथो विपाकः ।
जलाश्रयं तेज उक्तं रसं च
वाय्वात्मकः स्पर्शकृतो गुणश्च ॥
महत्सु भूतेषु च सन्ति पञ्च
पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि ।
सर्वाणि चैतानि मनोनुगानि
बुद्धिं मनोऽन्वेति मतिः स्वभावम् ॥
शुभाशुभं कर्म कृतं यदस्य
तदेव प्रेत्याददतेऽन्यदेहे ।
मनोऽनुवर्तन्ति परावराणि
जलौकसः स्रोत इवानुकूलम् ॥
चलं यथा दृष्टिपथं परैति
सूक्ष्मं महद्रूपमिवावभाति ।
तातप्यमानो न पतेच्च धीरः
परं तथा बुद्धिपथं परैति ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥
12-200-13 पृथक्परं पश्यति तत्स्वभावमिति ड. पाठः ॥ 12-200-20 श्रोत्रं खत इति झ. पाठः । जलाश्रयः स्वेद उक्तो रसश्चेति ध. पाठः । जलाश्रयं ज्ञानमुक्तमिति ट. ड. थ. पाठः ॥ 12-200-23 स्वरूपमालोचयते च रूपमिति झ. पाठः ॥