अध्यायः 202

भीष्मेण युधिष्ठिरंप्रति भनुबृहस्पतिसंवादानुवादः ॥ 1 ।

मनुरुवाच ।
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् ।
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥
यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा ।
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥
स एव लुलिते तस्मिन्यथा रूपं न पश्यति ।
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥
अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः ।
दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः ॥
अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति ।
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ॥
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् ।
निवर्तते तदा तर्षः पापमन्तर्गतं यदा ॥
`अन्तर्गतेन पापेन दह्यमानेन चेतसा । शुभाशुभविकारेण न स भूयोऽभिजायते ॥'
विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात् ।
मनसा चान्यथा काड्क्षन्परं न प्रतिपद्यते ॥
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी ।
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना ॥
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः ।
बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा । `प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत् ।'
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वाऽमृतमश्नुते ॥
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् । `दृश्यते मण्डलं तस्य न च दृश्येत मण्डली ।
तद्वद्देहस्तु संदृश्य आत्माऽदृश्यः परः सदा ॥
ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः । बाल्ये रथाभ्यां योगेन तत्वज्ञानं तु संमतम् ॥'
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति । `आदत्ते सर्वभूतानां रसभूतं विकासवान् ॥'
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः । प्राप्येन्द्रि गुणान्पञ्च सोऽस्तमावृत्त्य गच्छति ।
`रश्मिमण्ड हीनस्तु न चासौ नास्ति तावता ॥'
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः ।
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान् ॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते ।
तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् ।
अघ्राणमवितर्कं च सत्वं प्रविशते परम् ॥
`अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।
आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते ॥
तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम् ।
तस्मादाकृतयः पञ्च मनः परममुच्यते ॥
तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम् । ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च ।
इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः ॥'
मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम् ।
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं महत् ॥
नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः ।
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

12-202-5 अज्ञानदुष्टो विषयेष्ववगाढो न दृश्यते इति ध. पाठः ॥ 12-202-21 अघ्राणमवितर्षं चेति थ. पाठः ॥