अध्यायः 206

भीष्मेण युधिष्ठिरंप्रति भूतादिजगत्सृष्टिप्रकारनिरूपणम् ॥ 1 ॥ तथा नारदोदितनृसिंहादिभगवत्प्रादुर्भावचरित्रनिरूपणपूर्वकं श्रीकृष्णस्य सर्वोत्तमत्वप्रतिपादनेन तद्ध्यानविधानम् ॥ 2 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ पुण़्डरीकाक्षमच्युतम् ।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥
नारायणं हृषीकेशं गोविन्दमपराजितम् ।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥
भीष्म उवाच ।
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥
असितो देवलस्तात वाल्मीकिश्च महातपाः ।
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत् ॥
`केशवस्य मया राजन्न शक्या वर्णितुं गुणाः । ईदृशोऽसौ हृषीकेशो वासुदेवः परात्परः ॥'
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥
किंतु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनि ।
महात्मनि महाबाहो शृणु तानि युधिष्ठिर ॥
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।
श्रुत्वा सर्वाणि गोविन्दो कीर्तयिष्यामि तान्यहम् ॥
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत् ॥
स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः ।
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे ।
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् ॥
आश्रयं सर्वभूतानां मनसेतीह शुश्रुम् ।
स धारयति भूतानि उभे भूतभविष्यती ॥
`प्रद्युम्नमसृजत्तस्मात्सर्वतेजः प्रकाशकम् ।
अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः ॥
अप्सु व्योमगतः श्रीमान्योगनिद्रामुपेयिवान् । तस्मात्संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः ।
लयस्थित्यन्तकर्माणस्रयस्ते सुमहौजसः ॥'
ततस्तस्मिन्महाबाहौ प्रादुर्भूते महात्मनि ।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥
स तत्र भगवान्देवः पुष्करे भ्राजयन्दिशः ।
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥
तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि ।
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥
तस्य तात वधात्सर्वे देवदानवमानवाः ।
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम् ॥
ब्रह्माऽनुससृजे पुत्रान्मानसान्दक्षसप्तमान् ।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥
मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः ।
मानसं जनयामास तैजसं ब्रह्मवित्तमम् ॥
अङ्गुष्ठात्ससृजे ब्रह्मा मरीचेरपि पूर्वजम् ।
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥
तस्य पूर्वमजायन्त दश तिस्रश्च भारत ॥
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः ॥
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः ।
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥
उत्पाद्य तु महाभागस्तासामवरजा दश ।
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः ।
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥
अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः ।
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥
इतरास्तु व्यजायन्त गन्धवोस्तुरगान्द्विजान् ।
गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन् ॥
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् ।
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥
तस्य विक्रमणाच्चापि देवानां श्रीर्व्यवर्धत ।
दानवाश्च पराभूता दैतेयाश्चासुरी प्रजा ॥
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः ।
दितिस्तु सर्वानसुरान्महासत्वानजीजनत् ॥
`ततः ससर्ज भगवान्मृत्युं लोकभयंकरम् ।
हर्तारं सर्व भूतानां ससर्ज च जनार्दनः ॥
अहोरात्रं च कालं च यथर्तु मधुसूदनः ।
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥
लब्ध्वापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् ।
पृथिवीं सोऽसृजद्विश्वां सहीतां भूरितेजसा ॥
ततः कृष्णो महाभागः पुनरेव युधिष्ठिर ।
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत्प्रभुः ॥
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ।
पद्भ्यां शूत्रशतं चैव कशेवो भरतर्षभ ॥
स एवं चतुरो वर्णान्समुत्पाद्य महातपाः ।
अध्यक्षं सर्व भूतानां धातारमकरोत्स्वयम् ॥
वेदविद्याविधातारं ब्रह्माणमतितद्युतिम् ।
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत् ॥
शासितारं च पापानां पितृणां समवर्तिनम् ।
असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम् ॥
यादसामसृजन्नाथं वरुणं च जलेश्वरम् ।
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः ॥
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् ।
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥
न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।
संकल्पादेव चैतेषां गर्भः समुपपद्यते ॥
ततस्रेतायुगे काले संस्पर्शाज्जायते प्रजा ।
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप ।
तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः ॥
एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते ।
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु ॥
दक्षिणापथजन्मानः सर्वे करभृतस्तव ।
आन्ध्राः पुलिन्दाः शवराश्चूचुपा मद्रकैः सह ॥
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि ।
ये तु काम्भोजगान्धाराः किराता बर्वरैः सह ॥
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् ।
बकश्वपाकगृध्राणां सधर्माणो नराधिप ॥
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् ।
त्रेताप्रभुति वर्धन्ते ते जना भरतर्षभ ॥
ततस्तस्मिन्महाघोरे संन्ध्याकाले युगान्तिके ।
राजानः समसज्जन्त समासाद्येतरेतम् ॥
`ऐन्द्रं रूपं समास्थाय ह्यसुरेभ्यो चरन्महीम् ।
स एव भगवान्देवो वेदित्वं च गता मही ॥
एवंभूते सृष्टिर्नारसिंहादयः क्रमात् ।
प्रादुर्भावाः स्मृता विष्णोर्जगतीरक्षणाय वै ॥
एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् ।
हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च ॥
रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः ।
भूमेर्दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः ॥
आत्मनोऽङ्गान्महातेजा उद्वबर्ह जनार्दनः ।
सितकृष्णौ महाराज केशौ हरिरुदारधीः ॥
वसुदेवस्य देवक्यामेष जात इहोत्तमः ।
देहवानिह विश्वात्मा संबन्धी ते जनार्दनः ॥
आविर्वभूव योगीन्द्रो मनोतीतो जगत्पतिः ।
अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः ॥
अव्यक्तादिविशेषान्तं परिमाणार्थसंयुतम् ।
क्रीडा हरेरिदं सर्वं क्षरमित्येव धार्यताम् ॥
अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः ।
तद्विद्धि रूपमतुलममृतत्वं भवज्जितम् ॥
तदेव कृष्णो दाशार्हः श्रीमाञ्श्रीवत्सलक्षणः ।
न भूतसृष्टिसंस्थानं देहोऽस्य परमात्मनः ॥
देहवानिह यो विष्णुरसौ मायामयो हरिः ।
आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् ॥
अङ्गानि चतुरे वेदा मीमांसा न्यायविस्तरः ।
इतिहासपुराणानि धर्माः स्वायंभुवादयः ॥
य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः ।
भक्तिहीना न तैर्यान्ति नित्यमेनं कथंचन ॥
सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः । तस्माद्बुद्धस्त्वमेवैनं ध्याहि नित्यमतन्द्रितः ॥'
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः ।
एवं देवर्षिराचष्ट नारदः सर्वलोकदृक् ॥
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप ।
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥
एवमेव महाबाहुः केशवः सत्यविक्रमः ।
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥
`एवंविधोऽसौ पुरुषः को वैनं वेत्ति सर्वदा ।
एतत्ते कथितं राजन्भूयः श्रोतुं किमिच्छसि' ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

12-206-1 कर्तारममृतं विष्णुमिति ड. थ. पाठः ॥ 12-206-25 ततस्त्वरजसो दशेति ड. थ. पाठः ॥ 12-206-28 द्विरदांश्च वनस्पतीनिति ड. पाठः । विशदांश्च वनस्पतीनिति ध. पाठः । इतराः कश्यपस्त्रियः । व्यजायन्त व्यजनयन्त ॥ 12-206-35 शतमनन्तम् ॥ 12-206-39 समवर्तिनं यमम् ॥