अध्यायः 208

भीष्मेण युधिष्ठिरंप्रति हरेर्वराहावतारनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ युधि सत्यपराक्रम ।
श्रोतुमिच्छामि कार्त्स्न्येन वृष्णमव्ययमीश्वरम् ॥
यच्चास्य तेजः सुमहद्यच्च कर्म पुरा कृतम् ।
तन्मे सर्वं यथातत्त्वं ब्रूहि त्वं पुरुषर्षभ ॥
तिर्यग्योनिगतो रूपं कथं धारितवान्प्रभुः ।
केन कार्यनिसर्गेण तमाख्याहि महाबल ॥
भीष्म उवाच ।
पुराऽहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः ।
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि । प्रतिगृह्य च तां पूजां चक्रुरथो मयि ।
कथैषा कथिता तत्र कश्यपेन महर्षिणा ।
मनः प्रह्वादिनीं दिव्यां तामिहैकमनाः शृणु ॥
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः ।
बलेन मत्ताः शतशो नरकाद्या महासुराः ॥
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः ।
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥
`नराकाद्या महाघोरा हिरण्याक्षमुपाश्रिताः ।
उद्योगं परमं चक्रुर्देवानां निग्रहे तदा ॥
नियुतं वत्सराणां तु वायुभक्षोऽभवत्तदा । हिरण्याक्षो महारौद्रो लेभे देवात्पितामहात् ।
वरानचिन्त्यानतुलाञ्शतशोऽथ सहस्रशः ॥'
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा ।
न शर्म लेभिरे राजन्क्लिश्यमानास्ततस्ततः ॥
पृथिवीमार्तरूपां ते समपश्यन्दिवौकसः । दानवैरभिसंकीर्णां घोररूपैर्महाबलैः ।
भारार्तामप्रहृष्टां च दुःखितां संनिमज्जतीम् ॥
`गृहीत्वा पृथिवी देवी पाताले न्यवसत्तदा । ततस्त्रैलोक्यमखिलं निरोषधिगणान्वितम् ।
निःस्वाध्यायवषट्कारमभूत्सर्वं समन्ततः ॥'
अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन् ।
कथं शक्ष्यामहे ब्रह्मन्दानवैरभिमर्दनम् ॥
`हिरण्याक्षेण भगवन्गृहीतेयं वसुन्धरा ।
न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् ॥
तानाह भगवान्ब्रह्मा मुनिरेव प्रसाद्यताम् ।
अगस्त्योऽसौ महातेजाः पातु तज्जलमञ्जसा ॥
तथेति चोक्त्वा ते देवा मुनिमूचुर्मुदान्विताः ।
त्रायस्व लोकान्विप्रर्षे जलमेतत्क्षयं नय ॥
तथेति चोक्त्वा भगवान्कालानलसमद्युतिः ।
ध्यायञ्जलादनिवहं स क्षणेन पपौ जलम् ॥
शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः । ब्रह्माणं प्रणिपत्योचुर्मुनिना शोषितं जलम् ।
इति भूयः समाचक्ष्व किं करिष्यामहे विभो ॥
स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया ॥
ते वरेणाभिसंपन्ना बलेन च मदेन च । नावबुद्ध्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् ।
वराहरूपिणं देवमधृष्यममरैरपि ॥
एष वेगेन गत्वा हि यत्र ते दानवाधमाः । अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः ।
शमयिष्यति तच्छ्रुत्वा जहृषुः सुरसत्तमाः ॥
ततो विष्णुर्महातेजा वाराहं रूपमास्थितः ।
अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति ॥
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्वममानुषम् ।
प्रसह्य तरसा सर्वे संतस्थुः कालमोहिताः ॥
ततस्ते समभिद्रुत्य वराहं जगृहुः समम् ।
संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥
दानवेन्द्रा महाकाया महावीर्यबलोच्छ्रिताः ।
नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो ॥
ततोऽगच्छन्विस्मयं ते दानवेन्द्रा भयं तथा ।
संशयं गतमात्मानं मेनिरे च सहस्रशः ॥
ततो देवाधिदेवः स योगात्मा योगसारथिः ।
योगमास्थाय भगवांस्तदा भरतसत्तम ॥
विननाद महानादं क्षोभयन्दैत्यदानवान् ।
सन्नादिता येन लोकाः सर्वाश्चैव दिशो दश ॥
तेन सन्नादशब्देन लोकानां क्षोभ आगमत् ।
संश्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा ।
स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥
ततस्ते दानवाः सर्वे तेन नादेन भीषिताः ।
पेतुर्गतासवश्चैव विष्णुतेजः प्रमोहिताः ॥
`त्रस्तांश्च देवानालोक्य ब्रह्मा प्राह पितामहः । योगेश्वरोऽयं भगवान्वाराहं रूपमास्थितः ।
नर्दमानोऽत्र संयाति मा भैष्ट सुरसत्तमाः ॥
एवमुक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः ।
देवता मुनयश्चैव विष्णुं वै मुक्तिहेतवे ॥
ततो हरिर्महातेजा ब्रह्माणमभिनन्द्य च ।' रसातलगतश्चापि वराहस्त्रिदशद्विषाम् ।
खुरैर्विदारयामास मांसमेदोस्थिसंचयान् ॥
नादेन तेन महता सनातन इति स्मृतः ।
पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥
ततो देवगणाः सर्वे पितामहमुपाद्रवन् ।
तत्र गत्वा महात्मानमूचुश्चैव जगत्पतिम् ॥
नादोऽयं कीदृशो देव नेतं विद्म वयं प्रभो । कोसौ हि कस्य वा नादो येन विह्वलितं जगत् ।
देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा ॥
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः ।
उदतिष्ठन्महाबाहो स्तूयमानो महर्षिभिः ॥
पितामह उवाच ।
`दिव्यं------ युद्धमासीन्महात्मनोः ।
हिरण्याक्षस्य विष्णोश्च सर्वसंक्षोभकारणम् ॥
जघान च हिरण्याक्षमन्तर्भूमिगतं हरिः । तदाकर्ण्य महातेजा ब्रह्मा मधुरमब्रवीत् ॥'
पीतामह उवाच ।
निहत्य दानवपतीन्महावर्ष्मा महाबलः ।
एष देवो महायोगी भूतात्मा भूतभावनः ॥
सर्वभूतेश्वरो योगी मुनिरात्मा तथाऽऽत्मनः ।
स्थिरीभवत कृष्णोऽयं सर्वविध्नविनाशनः ॥
कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः ।
समायातः स्वमात्मानं महाभागो महाद्युतिः ॥
पद्मनाभो महायोगी पुराणपुरुषोत्तमः ।
न संतापो न भीः कार्या शोको वा सुरसत्तमैः ॥
विधिरेष प्रभावश्च कालः संक्षयकारकः ।
लोकान्धारयता तेन नादो मुक्तो महात्मना ॥
स एष हि महाबाहुः सर्वलोकनमस्कृतः ।
अच्युतः पुण़्डरीकाक्षः सर्वभूतादिरीश्वरः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

12-208-36 भूताचार्यः स भूतराट्र इति झ. ड.थ. पाठः ॥