अध्यायः 210

भीष्मेण युधिष्ठिरंप्रति नारदाय श्रीनारायणोक्तस्य प्रयाणकाले श्रीभगवदनुस्मृतिप्रकारस्य कथनम् ॥ 1 ॥

`युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥
किंनु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते ।
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः ॥
भीष्म उवाच ।
त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ ।
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् ॥
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् ।
पुरा नारायणं देवं नारदः पर्यपृच्छत ॥
अक्षरं परमं ब्रह्म निर्गुणं तमसः परम् ।
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम् ॥
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः ॥
किंनु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः ।
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते ॥
कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम् ॥
श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम् ।
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः ॥
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् ।
यामधीत्य प्रयाणे तु मद्भावयोपपद्यते ॥
ओंकारमग्रतः कृत्वा मां नमस्कृत्य नारद ।
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ॥
ओं नमो भगवते वासुदेवायेति ॥
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः ।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥
नारद उवाच ।
अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥
पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥
लोकनाथं सहस्राक्षमद्भुतं परदं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥
स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥
हिरण्यगर्भममृतं भूगर्भं परतः परम् ।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥
सहस्रशीर्षं पुरुषं महर्षि तत्वभावनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥
नारायणं पुराणर्षि योगात्मानं सनातनम् ।
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम् ॥
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् ।
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः ।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे ॥
आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान् ।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हुयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥
अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञगर्भ हिरण्याङ्गं पञ्चयज्ञ नमोस्तु ते ॥
चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित ।
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत् ॥
अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् ।
विकर्तः पञ्चकाज्ञ नमस्ते ज्ञानसागर ॥
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥
न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः ।
अनयोर्यः परतरस्तमस्मि शरणं गतः ॥
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः ।
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः ॥
सोमार्काग्निमयं तेजो या च तारमयी द्युतिः ।
दिवि संजायते योऽयं स महात्मा प्रसीदतु ॥
गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः ।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥
अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः ।
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु ॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः ।
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता ।
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु ॥
नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख ।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः ॥
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः ।
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः ॥
एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः ।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत ॥
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च ।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् ।
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः ॥
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव ॥
स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसंज्ञिकः ।
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः ॥
न ते भूतेषु संयोगो भूततत्वगुणाधिकः ।
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः ॥
न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः ।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग ॥
ईश्वरोसि जगन्नाथ ततः परम उच्यसे ।
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर ॥
विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः ।
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा ॥
तेजो हुताशनं यातु स्पर्शो यातु च मारुतम् ।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः ॥
इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु ।
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम् ॥
वायुराकाशमप्येतु मनश्चाकाश एव च ।
अहंकारं मनो यातु मोहनं सर्वदेहिनाम् ॥
अहंकारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत ॥
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते ।
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ॥
निष्केवलं पदं तात काङ्क्षेऽहं परमं तव ।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ॥
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः ।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥
अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः ।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥
नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥
श्रीभगवानुवाच ।
अहं भगवतस्तस्य मम चासौ सनातनः ।
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति ॥
कर्मेन्द्रियामि संयम्य पञ्च बुद्धीन्द्रियाणि च ।
दशेन्द्रियाणि मनसि अहंकारे तथा मनः ॥
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्पम् ॥
ममायमिति यस्याहं येन सर्वमिदं तततम् ।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ।
अपि पापसमाचारः स याति परमां गतिम् ॥
ओं नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ।
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत् ॥
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः ॥
यद्यहंकारमाश्रित्य यज्ञदानतपः क्रियाः ।
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु ॥
अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्यलिं ददत् ।
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् ॥
यज्ञो दानं तपश्चैव पावनानि शरीरिणाम् ।
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः ॥
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ।
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः ॥
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते । मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः ।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम ॥
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥
तस्मात्प्रेदयं साधुभ्यो जन्मबन्धभयापहम् ।
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति ॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥
भीष्म उवाच ।
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत ॥
त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥
श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम् ।
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान् ॥
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ॥
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥
इमां रहस्यां परमामनुस्मृति मधीत्य बुद्धिं लभते च नैष्ठिकीम् ।
विहाय दुःखान्यवमुच्य सङ्कटा त्स वीतरागो विगतज्वरः सुखी ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

12-210-1 श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयमिति थ. पाठः ॥ 12-210-14 अव्यक्तं शाश्वतं देवमि ट.थ. पाठः ॥ 12-210-15 पुराणं प्रभवं नित्यमिति ट. थ. पाठः ॥ 12-210-30 त्रिकर्तः पञ्चकालज्ञेति ट.थ. पाठः ॥ 12-210-44 न पुनर्मारका द्विजा इति ट. थ. पाठः ॥ 12-210-46 त्वां विशन्ति विनिश्चिता इति ध. पाठः ॥ 12-210-52 न मे धर्मो ह्यधर्मो वेति ट. थ. पाठः ॥ 12-210-54 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् । रूपं हुताशनं यातु इति ट. थ. पाठः ॥ 12-210-60 निष्केवलं वरं देवेति ध. पाठः ॥ 12-210-74 जपन्भिन्नं स्मरेदिति ध. पाठः ॥ 12-210-78 मद्भक्तो नान्तमश्नुत इति ट. थ. पाठः ॥ 12-210-82 यदुवाच तदा शंभुरिति ट. थ. पाठः ॥ 12-210-87 स वीतरागो विचरेदिमां महीम् । इति ट. थ. पाठः ॥