अध्यायः 212

भीष्मेण युधिष्ठिरंप्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मत्वानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
योगं मे परमं तात मोक्षस्य वदभारत ।
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतांवर ॥
`भूयोपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्यहम् । अचिन्त्यं वासुदेवाख्यं तस्मात्प्रब्रूहि सत्तम ॥'
भीष्म उवाच ।
अत्राप्युदाह न्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् ।
तेजोराशिं महात्मानं सत्यसन्धं जितेन्द्रियम् ॥
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ।
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम । संशयो मे महान्कश्चित्तं मे व्याख्यातुमर्हसि ।
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ॥
कथं च सर्वभूतेषु समेषु द्विजसत्तम ।
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् ।
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥
गुरुरुवाच ।
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् ।
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो सुखम् ।
सत्यं दानं तपो यज्ञस्तितिक्षा दम आर्जवम् ॥
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः ।
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥
तदिदं ब्रह्म वार्ष्णोयमितिहासं शृणुष्व मे ।
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तता ॥
[वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः ।] माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥
अर्हस्त्वमसि कल्याणं वार्ष्णेयाध्यात्ममुत्तमम् ॥
`यमच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् ।
निर्वाणममृतं श्रीमत्तद्विष्णोः परमं पदम् ॥
भवे च भेदवद्भिन्नं प्रदानं गुणकारकम् ।
तस्मिन्न सज्यते नित्यं स एष पुरुषोऽपरः ॥
पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् ।
कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना ॥
क्षोभ्यमाणं सृजत्येव नानाभूतानि भागशः । तद्दृष्ट्वा पुरुषोतत्वं साक्षीभूत्वा प्रवर्तते ।
तत्प्रविश्य यथायोगमभिन्नो भिन्नलक्षणः ॥'
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ।
त्रैलोक्ये सर्वभूतेषु चक्रवत्परिवर्तते ॥
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् ।
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम् ॥
`तदक्षरमचिन्त्यं वै भिन्नरूपेण दृश्यते ।
पश्य कालाख्यमनिशं न चोष्णं नातिशीतलम् ॥
न सन्त्येते गुणास्तस्मिंतथा तस्मात्प्रवर्तते ।
शीतलोऽयमनुप्राप्तः कालो ग्रीष्मस्तथैव च ॥
वक्ष्यन्ति सर्वभूतानि ह्येते सूर्योदयं प्रति ।
आगच्छन्ति निवर्तन्ति स कालो गुणराशयः ॥
न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः । गुणैः संभोगमरतिस्तत्वविज्ञानकोविदम् ।
पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा ॥'
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान् ।
नागासुरमनुष्यांश्च सृजते मनसाऽव्ययः ॥
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् ।
प्रलये प्रकृतिं यातान्युगादौ सृजते पुनः ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु ।
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥
`श्रुतिरेषा समाख्याता तदर्थं कारणात्मना । अनाम्नायविधानाद्वै वेदा ह्यन्तर्हिता यथा ॥'
युगान्ते ह्यस्तभूतानि शास्त्राणि विविधानि च । सर्वसत्वविना द्वै जीवात्मनित्यया स्मृताः ।
अन्यस्मिन्नण्डसद्भावे वर्तमानानि नित्यशः ॥
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
`नियोगाद्ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः ।' वेदविद्भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिः ।
भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम् ॥
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम् ।
देवर्षिचरितं गर्गो कृष्णात्रेयश्चिकित्सितम् ॥
`न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्वतः । वेदान्तकर्मायोगं च वेदविद्ब्रह्मविद्विभुः ।
द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः ॥
न्यायतन्त्राण्यनेकानि तस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥
अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः ।
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥
नारायणादृषिगणास्तथा मुख्याः सुरासुराः । राजर्षयः पुराणाश्च परमं दुःखभेषडम् ।
`वक्ष्येऽहं तव यत्प्राप्तमृषेद्वैपोयनान्मया ॥'
पुरुषाधिष्ठितान्भावान्प्रकृतिः सूयते यदा ।
हेतुयुक्तमतः पूर्वं जगत्संपरिवर्तते ॥
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः ।
प्रकृतिः सूयते सद्वदानन्त्यान्नापचीयते ॥
अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते ।
आकाशं चाप्यहंकाराद्वायुराकाशसंभवः ॥
वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता ।
मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम् ॥
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि ।
विषयाः पञ्च चैकं च विकाराः षोडशं मनः ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यश्च ।
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणी अपि ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥
`बुद्धीन्द्रियार्था इत्युक्ता दशसंसर्गयोनयः ।
सदसद्भावयोगे च मन इत्यभिधीयते ॥
व्यवसायगुणा बुद्धिरहंकारोऽभिमानकः । न बीजं देहयोगे च कर्मबीजप्रवर्तनात् ॥'
रसज्ञाने तु जिह्वेयं व्याहृते वाक्यथैव च ।
इन्द्रियैर्विविधैर्युक्तं सर्वैर्व्यतं मनस्तथा ॥
विद्यात्तु षोडशैतानि दैवतानि विभागशः ।
देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥
तत्र सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः । श्रोत्रे शब्दगुणे चैव चक्षुरग्नेर्गुणस्तथा ।
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥
मनः सत्वगुणं प्राहु सत्वमव्यक्तजं तथा ।
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान् ॥
एते भावा जगत्सर्वं बहन्ति सचराचरम् ।
श्रिता विरजसं देवं यमाहुः परमं पदम् ॥
नवद्वारं पुरं पुण्यमेतैर्भावैः स्मन्वितम् ।
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥
अजरश्चामरश्चैव व्यक्ताव्यक्तोपदेशवान् ।
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् ।
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥
श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति ।
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते ।
तथैवात्मा शरीरस्थ ऋते योगान्न दृश्यते ॥
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते ।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः ।
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः ।
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते ॥
कर्मणा व्याप्यते सर्वं कर्मणैवोपपद्यते ।
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥
स तु देहाद्यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते ।
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

12-212-7,8 भूतेषु पञ्चसूपादानकारणेषु समेषु सत्सु विपरीता विषमाः कथं क्षयोदया निवर्तन्ते नितरां वर्तन्ते । वेदेषु यद्वाक्यं वर्णधर्मव्यवस्थापरं, लौकिकं स्मृतिवाक्यं तादृशं व्यापकं सर्ववर्णा श्रमसाधारणं इदमपि कथम् । हेतुसाम्येऽपि कार्यवैषम्ये किं बीजं तद्ब्रहीत्यर्थः । श्लोकद्वयमेकं वाक्यम् ॥ 12-212-9 ब्रह्म गुह्य वेदगोप्यम् । वसु धनं तद्वद्रक्षणीयमुपकारकं वा ॥ 12-212-10 ब्रह्मणो मुखं वेदादिः प्रणवः । उपायोपेययोरभेदात्प्रणवादीनां वासुदेवत्वम् ॥ 12-212-11 उपेयस्वरूपमाह पुरुषमिति ॥ 12-212-12 एतदेवायं कृष्ण इत्याह तदिति । वार्ष्णेयं वृष्णिषु कृतावतारम् । इतिहासं तत्स्वरूपप्रकाशनपरं ग्रन्थम् । राजन्यः क्षत्रियस्तथेति ड. पाठः ॥ 12-212-27 भावाभावौ सृष्टिप्रलयौ स्वलक्षणं स्वरूपज्ञापकौ यस्य । प्रत्यब्दं यथा वसन्तादिष्वाम्रादयो नियमेन पुष्पिता भवन्त्येवं ब्रह्महरविष्णुषु प्रतिकल्पं सृष्टिप्रलयस्थितिकर्तृत्वं तदातद आविर्भवति । तथा ब्रह्महरादिषु इति ट. पाठः । ब्रह्मापरादिष्विति ड. पाठः । ब्रह्माक्षरादिष्विति ध. पाठः ॥ 12-212-31 अनुज्ञाता उपदिष्टाः । स्वयंभुवा ब्रह्मणा ॥ 12-212-33 दत्तात्रेयश्चिकित्सितमिति ट. ड. पाठः ॥ 12-212-35 हेतुर्युक्तिः । आगमो वेदः । सदाचारः प्रत्यक्षम् । तैः प्रमाणैः ॥ 12-212-36 अनाद्यं नास्ति आद्यं कारणं यस्य तत् ॥ 12-212-42 शब्दादिविषयाः पञ्च विकाराः इति थ.पाठः ॥ 12-212-43 वाक्कर्मणामपि इति थ. पाठः ॥ 12-212-48 ज्ञानकर्तार उदासीनमुपासते इति ध. पाठः ॥ 12-212-49 श्रोत्रं नभोगुणं चैव इति झ. पाठः ॥ 12-212-50 ईश्वरस्तत्स्थमुपाधित्वेन तत्र स्थितं सर्वान्तरङ्गं सत्त्वं जानीयात् । सत्त्वविशिष्टस्य ज्ञेयत्वेऽपि विद्विवेके परिशेषादचितः सत्वस्यैव ज्ञेयत्वमस्तीति सत्वमेव बुद्भ्येतेत्युक्तम् ॥ 12-212-51 यमादुः प्रकृतेः परमिति झ. पाठः ॥ 12-212-52 व्यापकः स गुणैः सूक्ष्मः इति थ. पाठः ॥ 12-212-55 भेदेनैवात्र दृश्यते इति ट. थ. पाठः । शरीरस्थो योगेनैवानुदृश्यते इति झ. पाठः ॥ 12-212-57 संततत्वाद्यथा यान्ति इति झ. पाठः ॥ 12-212-59 कर्मणा जायते पूर्वं इति ट. पाठः । कर्मणा बाध्यते रूपं इति पाठः ॥