अध्यायः 214

भीष्मेण युधिष्ठिरंप्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥

गुरुरुवाच ।
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते ।
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते ॥
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः ।
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम् ॥
`वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम् ।' सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् ।
इयं सा बुद्धिरभ्येत्य यथा याति परां गतिम् ॥
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान् ।
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ॥
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् ।
कर्मणां विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥
लोहयुक्तं तथा हेम विपक्वं न विराजते ।
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते ॥
`केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात् ।
इतरे दुःखसन्द्वन्द्वास्तथा दुःखपरायणाः ॥
शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः ।
क्रोधलोभमदाविष्टा मूढान्तः करणाः सदा ॥
यथा--- संछाया नास्ति नित्यतया परा । गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः ॥'
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लुवन् ।
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति ॥
`अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात् ।' शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत् ।
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात् ॥
`गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये । द्वन्द्वान्यथैवमादीनि विजयेच्चैव सर्ववित् ॥'
पञ्चभूतात्मके देहे सत्त्वराजसताभसे ।
कमभिष्टुवते चायं कं वा क्रोशति किं वदन् ॥
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः ।
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम् ॥
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते ।
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति ॥
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः ।
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ॥
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् ।
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम् ॥
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः ।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥
`भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत् ।
एवं संसारमार्गेण यात्रार्थं विषयाणि च ॥
न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा ।
तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत् ॥
नानापर्णफला वृक्षा बहवः सन्ति तत्र हि ।
भोक्तारो मुनयश्चैव तस्मात्परतरं वनम् ॥
अनुमानैस्तथाशास्त्रैर्यशसा विक्रमेण च ।' सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च ।
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ॥
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् ।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥
सत्त्वेन रजसा चैव तमसा चैव मोहिताः ।
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान् ।
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत् ॥
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः ।
`देहमूलं विजानीहि नैतानि भगवानतः ॥
उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् ।
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम् ॥
यथेह नियतः कालो दर्शयत्यार्तवान्गुणान् ।
तद्वद्भतेष्वहंकारं विद्याद्भूतप्रवर्तकम् ॥
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम् ।
प्रकृतेर्गुणसंजातो महानहंक्रिया ततः ॥
अहंकारात्पुनः पश्चाद्भूतग्राममुदाहृतम् ।
अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान् ॥
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ।
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ॥
प्रसादो हर्षजा प्रीतिरसंदेहो धृतिः स्मृतिः ।
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ॥
`असन्तोषोऽक्षमाऽधैर्यमतृप्तिर्विषयादिषु ।
राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु ॥
मोहस्तन्द्री तथा दुःखं निद्राऽऽलस्यं प्रमादता । विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम् ॥'
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः ।
विषादशोकावरतिर्मानदर्पावनार्यता ॥
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् ।
विमृशेदात्मसंस्थानमेकैकमनुसंततम् ॥
`यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः ।
सर्वभूताधिकं नित्यमहंकारं विलोकयेत् ॥
विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः । तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम् ॥'
शिष्य उवाच ।
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः के पुनः पुनरायान्ति के मोहादचला इव ॥
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः । `एतन्मे सर्वमाचक्ष्व यथा विद्यामहं विभो ।
मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम् ॥
शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः ।
प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः ॥
गुरुरुवाच ।'
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते । विनाशयति संभूतमयस्मयमयो यथा ।
तथा कृतात्मा सहजैर्दोषैर्नश्यति राजसैः ॥
`सहजैरविशुद्धात्मा दोषैर्नश्यति तामसैः ।' राजसं तामसं चैव शुद्धात्मा कालसंभवम् ॥
`शमयेत्सत्त्वमास्थाय बुद्ध्या केवलया द्विजः । त्यजेच्च मनसा चेतः शुद्धात्मा बुद्धिमास्थितः'
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम् ।
तस्मादात्मवता वर्ज्यं रजश्च तम एव च ॥
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ।
`आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि ॥
ते ब्रह्म पुनरायान्ति न मोहादचला इव ।' अथवा मन्त्रवद्ब्रूयुर्मांसादीनां यजुष्कृतम् ॥
स वै हेतुरनादाने शुद्धधर्मानुपालने ।
रजसा कामयुक्तानि कार्याण्यपि समाप्नुते ॥
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते । तमसा लोभयुक्तानि क्रोधजानि च सेवते ।
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥
सत्वस्थः सात्विकान्भावाञ्शुद्धान्पश्यति संश्रितः ।
स देही विमलः श्रीमाञ्श्रद्धाविद्यासमन्वितः ॥ ॥

इति श्रीमन्महाभारते शान्तिप्रवणि मोक्षधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥

12-214-9 प्रयोजनमत्तत्त्वात्तु इति ट. थ. पाठः ॥ 12-214-15 मृद्विकारैर्विलिप्यते इति ध. पाठः ॥ 12-214-23 यथावृत्तान्समीक्ष्य विषयात्मकान् इति झ. पाठः ॥ 12-214-40 वक्षि ब्रूहि । वच परिभाषण इति धातोर्लोटि मध्यमपुरुषैकवचनम् ॥