अध्यायः 215

भीष्मेण युधिष्ठिरंप्रति वार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥

गुरुरुवाच ।
रजसा साध्यते मोहस्तमश्च भरतर्षभ ।
क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः ॥
परमं परमात्मानं देवमक्षयमव्ययम् ।
विष्णुमव्यक्तसंस्थानं विदुस्तं देवसत्तमम् ॥
तस्य मायापिनद्धाङ्गा ज्ञान भ्रष्टा निराशिषः ।
मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ॥
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः ।
मानदर्पावहंकारमहंकारात्ततः क्रियाः ॥
क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम् ।
अथ दुःखसमारम्भा जराजन्मकृतक्षणाः ॥
जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् ।
पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम् ॥
तृष्णाभिभूतस्तैर्वद्धस्तानेवाभिपरिप्लवन् । ` तथा नरकगर्तस्थस्तृष्णारज्जुभिराचितः ।
पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः ॥
मशकैर्मत्कुणैर्दष्टस्तथा चित्रवधार्दितः ।
नानाव्याधिभिराकीर्णः कथंचिद्यौवनं गतः ॥
कूर्मोत्सृजति भूयश्च रज्जुः स्वस्वमुखेप्सया ।
योषितं नरकं गृह्य जन्मकर्मवशानुगः ॥
पुरक्षेत्रनिमित्तं यद्दुःखं वक्तुं न शक्यते ।
कस्तत्र निन्दकश्चैव नरके पच्यते भृशम् ॥
वार्धक्यमनुलङ्घेत तत्र कर्मारभेत्पुनः ।
भगवान्संस्तुतः पश्चात्किं प्रवक्ष्यामि ते भृशम्' ॥
संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः । प्रकृत्याः क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः ।
तस्मादेवाविशेषेण नरोऽतीयाद्विशेषतः ॥
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् ।
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः । स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् ।
स्वसंज्ञानस्वकांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत् ॥
शुक्रतो रसतश्चैव देहाज्जायन्ति जन्तवः ।
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥
रजस्तमसि पर्यस्तं सत्वं च रजसि स्थितम् ।
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यंहंकारलक्षणम् ॥
तद्बीजं देहिनामाद्दुस्तद्बीजं जीवसंज्ञितम् ।
कर्मणा कालयुक्तेन संसारपरिवर्तनम् ॥
रमत्ययं यथा स्वप्ने मनसा देहवानिव ।
कर्मगर्भैर्गुणैर्देही गर्भे तदुपलभ्यते ॥
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् ।
जायते तदहंकाराद्रागयुक्तेन चेतसा ॥
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।
रूपरागात्तथा चक्षुर्घ्राणं गन्धजिघृक्षया ॥
संस्पर्शेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः ।
व्यानोदानौ समानश्च पञ्चधा देहयापनम् ॥
संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः ।
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥
दुःखं विद्यादुपादानादभिमानाच्च वर्धते ।
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥
इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ ।
परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् ।
ज्ञानैश्च करणैर्देही न देहं पुननर्हति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

12-215-12 तस्मादेव विशेषेण विनश्येयुर्विपश्चितः इति थ. पाठः । तस्मादेता विशेषेण नरा नैयुर्विपश्चितः इति थ. पाठः ॥ 12-215-13 शत्रुमारणार्थं मन्त्रमयी शक्तिः कृत्या सैव एताः ॥ 12-215-14 स्नहोज्जायन्ति जन्तव इति थ. ध. पाठः ॥ 12-215-17 तद्वीजं वीजसंज्ञितमिति ध. पाठः । तत्संस्थं देहबन्धनमिति थ. पाठः । तज्ज्ञानं जीवसंस्थितमिति ट. पाठः ॥