अध्यायः 219

भीष्मेण युधिष्ठिरंप्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादसमापनम् ॥ 1 ॥

गुरुरुवाच ।
न स वेद परं ब्रह्म यो न वेद चतुष्टयम् ।
व्यक्ताव्यक्तं च यत्तत्त्वं संप्रोक्तं परमर्षिणा ॥
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् ।
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥
तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् ।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥
प्रवृत्तिलक्षणं धर्मं प्रजापतिरतथाब्रवीत् ।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥
तां गतिं परमामेति निवृत्तिपरमो मुनिः ।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥
तदेवमेतौ विज्ञेयावव्यक्तपुरुषाबुभौ ।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥
तं विशेषमवेक्षेति विशेषेण विचक्षणः ।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥
उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥
प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्वया ।
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम् ॥
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।
`क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ॥
अग्राह्यं येन जानन्ति तज्ज्ञानं दंशितश्च तत् ।
तेनैव दंशितो नित्यं न गुणः परिभूयते ॥
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ ।
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यथा ॥
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोप्यसाविति ॥
`ममापि कायमिति च तदज्ञो नित्यसंवृतः ।' उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥
`भेदवस्तु त्वभेदेन जानाति स यदा पुमान् ।
तदा परं परात्माऽसौ भवत्येव निरञ्जनः ॥
क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्वचित् ।
वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः ॥
एवमेष परः सत्त्वो नानारूपेण संस्थितः । संक्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः ॥'
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम् । तथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ।
`वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति ॥'
श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः ।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता ।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥
`अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः ।' प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः ॥
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ।
`त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः ॥
स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते । सूर्ययोगे तु यः सन्धिस्तपः सर्वं प्रदीप्यते ॥'
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।
वाङ्भनोनियमः सम्यङ्भानसं तप उच्यते ॥
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते ।
आहारनियमेनास्य पाप्मा शाम्यति राजसः ॥
वैमनस्यं च विषये यान्त्यस्य करणानि च ।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥
अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः ।
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते ॥
रजोवर्ज्यो ह्ययं देही देहवाञ्छब्दवांश्चरेत् ।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ॥
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ।
हेतुयुक्तः सदा सार्गो भूतानां प्रलयस्तथा ॥
परप्रत्ययसर्गे तु नियमो नातिवर्तते ।
एवं तत्प्रभवां प्रज्ञामासते ये विषर्यये ॥
धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तचेतसः ।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते ॥
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते ।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ॥
युक्तो धारणया कश्चित्सतः केचिदुपासते ।
अभ्यस्यन्ति परं देवं विद्यासंशब्दिताक्षरम् ॥
अन्तकाले ह्युपासन्ते तपसा दग्धकिल्विषाः ।
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ॥
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ।
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ॥
अन्तरिक्षादन्यतरं धारणासक्तमानसम् ।
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः ॥
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ।
एवमेकायनं धर्ममाहुर्वेदविदो जनाः ॥
यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम् । कषायवर्जितं----तेषामुत्पद्यतेऽमलम् ।
यान्ति तेऽपि----- कान्विशुध्यन्ति यथाबलं ॥
भगवन्तमजं दिव्य विष्णुमव्यक्तसंज्ञितम् ।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥
ज्ञात्वाऽऽत्मस्थं------- न निवर्तन्ति तेऽव्ययाः ।
प्राप्य तत्परमं स्थानमोदन्तेऽक्षरमव्ययम् ॥
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च ।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥
विसतन्तुर्यथैवायमन्तस्थः सर्वतो बिसे ।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः ।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते ॥
`इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति ।' विकारं प्रकृतिं चैव पुरुषं च सनातनम् ॥
यो यथावद्विजानाति स वितृष्णो विमुच्यते ।
याति नित्यं स सद्भावमात्मनो वै महद्भुवम् ॥
भीष्म उवाच ।
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् ।
भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥

12-219-1 न स वेद परं धर्मं इति ध. पाठः ॥ 12-219-22 तपसस्तच्च लक्षणमिति थ. पाठः । तत्वलक्षणमिति ध. पाठः ॥ 12-219-25 ग्राह्यमन्नं तपस्थिभिरिति ट. थ. पाठः ॥ 12-219-29 देहान्ते विप्रमुच्यत इति ट. थ. पाठः । सदोत्सर्ग इति ध. पाठः ॥ 12-219-38 विमुच्यन्ते यथाबलमिति झ. पाठः । विशुध्यन्तो यथाबलमिति ट. थ. पाठः ॥ 12-219-46 प्रकाशं स्पष्टम् । अमृतं मोक्षसाधनम् ॥