अध्यायः 220

भीष्मेण युधिष्ठिरंप्रति जनकाथ पञ्चशिखोक्तनास्तिकादिमतखण्डनानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः ।
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य बुद्धिमान् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम् ॥
जनको जनदेवस्तु मिथिलायां जनाधिप ।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥
तस्य स्म शतमाचार्या वसन्ति सततं गृहे ।
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ॥
स तेषां प्रेत्यभावेन प्रेत्य गातौ विनिश्चये ।
आगमस्थः स भूयिष्ठमात्मतत्त्वेन तुष्यन्ति ॥
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।
परिधावन्महीं कृत्स्नां जगाम यलामथ ॥
सर्वसंन्यासधर्माणां तत्त्वज्ञाननिश्चये ।
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टगशयः ॥
ऋषीणामाहुरेकं यं कामाद-----नृषु ।
शाश्वतं सुखमत्यन्तमन्वि---सुदुर्लभम् ॥
यमाहुः कपिलं साङ्ख्याः परमर्षि प्रजापतिम् ।
समेत्य तेन रूपेण विस्मापयति हि स्वयम् ॥
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥
तमासीनं समागम्य कापिलं मण्डलं महत् । [पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः ।
पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः ।] पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥
इष्ट्वा सत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः ।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनात् ॥
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । `बोधायनपरान्विप्रानृषिभावमुपागतः ।'
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥
तस्य पञ्चशिखः शिष्यो मानुष्याः पयसा भृतः ।
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ।
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥
एतन्मे भगवानाह कापिलेयस्य संभवम् ।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥
सामान्यं जनकं ज्ञात्वा धर्मज्ञानामनुत्तमम् ।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥
`निराकरिष्णुस्तान्सर्वांस्तेषां हेतुगुणान्वहून् । श्रावयामास मतिमान्मुनिः पञ्चशिखो नृप ॥'
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् ।
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥
तस्मै परमकल्याय प्रणताय च धर्मतः ।
अब्रवीत्परमं मोक्षं यतः साङ्ख्यं विधीयते ॥
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥
आत्मना ह्यात्मनो नित्यं क्लेशमृत्युजरामयम् ।
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ॥
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।
अजरोऽयममृत्युश्च राजाऽसौ मन्यते तथा ॥
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे ।
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि ।
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न कश्चन ॥
यत्रतत्रानुमानेऽस्मिन्कृतं भावयतोऽपि च ।
नान्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥
रेतो वटकणीकायां घृतपाकाधिवासनम् ।
जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते ॥
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवे ।
कारणं लोभमोहौ तु दोषाणां च निषेवणम् ॥
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम् ।
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः ॥
तस्मिन्मूढे च जग्धे च देहे मरणधर्मिणि ।
अन्योऽसौ जायते प्रेतस्तदाहुस्तत्वमक्षयम् ॥
यदा स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मिन्स इत्येवं संबोधः स्यादसंहितः ॥
एवं सति च का प्रीतिर्दानविद्यातपोबलैः ।
यद्यदाचरितं कर्म सर्वमन्यत्प्रपद्यते ॥
यदि ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।
सुखितो दुःखितैर्वाऽपि दृश्यो ह्यस्यविनिर्णयः ॥
यदा हि मुसलैर्हन्युः शरीरं न पुनर्भवेत् ।
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपपद्यते ॥
ऋतुसंवत्सरौ तिथ्यः शीतोष्णेऽथ प्रियाप्रिये ।
यथाऽतीता न दृश्यन्ते तादृशः सत्वसंक्षयः ॥
जरयाऽभिपरीतस्य मृत्युना न विनाशिना ।
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥
इन्द्रियाणी मनो वायुः शोणितं मांसमस्थि च ।
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ॥
लोकयात्राविधानं च दानधर्मफलागमः ।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः ।
एतदासीन्ममास्तीति न कश्चित्प्रतिपद्यते ॥
तेषां विमृशतामेवं तत्तत्समभिधावताम् ।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥
`न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥'
अर्थांस्तथाऽत्यन्तमुखावहांश्च लिप्सन्त एते बहवो विशुष्काः ।
महत्तरं दुःखमनुप्रपन्ना हित्वा सुखं मृत्युवशं प्रयान्ति ॥
विनाशिनो ह्यध्नुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च ।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति ।
इतीदमालक्ष्य रतिः कुतो भवे द्विनाशिनो ह्यस्य न कर्म विद्यते ॥
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥

12-220-2 महत्सुखं मोक्षम् ॥ 12-220-3 जनको जनकवंश्यः नाम्रा जनदेवः ॥ 12-220-4 पाषण्डा लोकायतादयस्तेषां वादिनः प्रतिभटत्वेन जेतारः ॥ 12-220-6 कापिलेयः कपिलायाः पुत्रः । परिधावन् एकत्र वासमकुर्वन् ॥ 12-220-7 सुपर्यवसितार्थः सम्यङ््निश्चितप्रयोजनः ॥ 12-220-8 कामादवसितं यदृच्छया स्थितम् । नृषु सुखं अन्विच्छन्तम् । स्थापयितुमिति शेषः ॥ 12-220-9 कपिलं तत्प्रशिष्यत्वात्तत्तुल्यम् ॥ 12-220-15 मनुष्यो वयसा वृत इति ध. पाठः । धृत इति ट.थ.पाठः ॥ 12-220-17 भगवान्मार्कण्डेयः सनत्कुमारो वा ॥ 12-220-18 सामान्यं सर्वेष्वाचार्येषु समबुद्धिम् ॥ 12-220-21 कल्याय समर्थाय ॥ 12-220-22 जातिर्जन्म । कमं यागादि । सर्वं ब्रह्मलोकान्तम् । तेषु निर्वेदः क्षयिष्णुत्वात् ॥ 12-220-23 तं मोहमब्रवीदित पूर्वेणान्वयः ॥ 12-220-25 अनात्मा ह्यात्मनः क्लेशं जन्ममृत्युजरामयत् इति ट. थ. पाठः ॥ 12-220-29 यत्रकुत्राप्यनुमाने ईदृशानिष्टनित्यात्मान्यतमसाधके साध्यसिद्धिं भावयतः कृतं अलम् । भावनयालमित्यर्थः । उक्तविधयानुमानस्याप्रमाणत्वात् । शरीरस्य शरीरात् ॥ 12-220-30 रेतो धातुर्वटकणिका धृतधूमाधिवासनमिति ध. पाठः । सूर्यकान्ताग्निमोक्षणमिति थ. पाठः ॥ 12-220-35 व्यूढे च दग्धे चेति ध. पाठः । अन्योन्याज्जायते स्नेहस्तमाहुः सत्वसंक्षयमिति ध. पाठः ॥ 12-220-38 सुखितैः सुखितो वापि दृष्टो ह्यस्य विनिर्णय इति ट. थ. पाठः ॥