अध्यायः 221
भीष्मेण युधिष्ठिरंप्रति अनकं प्रत्युक्तपञ्चशिखवाक्यानुवादः ॥ 1 ॥
`*भीष्म उवाच ।
जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥
विवादादेव सिद्धोऽसौ कारणस्येव वेदना ।
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम् ॥
आगमादेव सिद्धोऽसौ स्वताः सिद्धा इति श्रुतिः ।
वर्तते पृथगन्योन्यं न ह्यपःश्रित्य कर्मसु ॥
चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः ।
स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम् ।
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः ॥
गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दयत् ।
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम् ॥
आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः ।
परमात्मा तथीवैको देवेऽस्मिन्निति वै श्रुतिः ॥
आकाशं वायुरूष्भा च स्नेहो यच्चापि पार्थिवम् ।
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः ॥
पपस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम् ।
पूर्वं नैश्चर्ययोगेन तस्मादेतन्न शेपवान् ॥
शब्दाः कालः क्रिया देहो ममैकस्वैव कल्पना ।
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत् ॥
नानाख्यं परं शुद्धं निर्विकल्पं परात्मकम् ।
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा ॥
चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान् ।
गतिमानुत संधत्ते वर्णमत्तत्पदान्वितम् ॥
कायो नास्ति च तेषां वै अवकाशस्तथा परम् ।
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः ॥
अवन्धनमविज्ञानाज्ज्ञानं तद्भुवमव्ययम् ।
नानाभेदविकल्पने येषामात्मा स्मृतः सदा ॥
प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः ।
विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि ।
अन्यदा च गृहीतै-----वेदबाह्यास्ततः स्मृताः ॥
एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् ।
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत् ॥
वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते ।
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः ॥
न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ।
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः ॥
आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान् ॥
उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः ।
यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम् ।
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः ॥
चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते ॥
आकाशकल्पं विमलं नानाशक्तिसमन्वितम् ।
तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् ।
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति ॥
असावश्नाति यद्वत्तद्वमरोऽश्नाति यन्मधु ।
एवमेव महानात्मा नात्मानमवबुध्यते ॥
एवंभूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम ।
बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत ।
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे ॥
शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः ।
लोकं निध्नन्ति संभिन्ना ज्ञातिनोत्र वदन्त्युत ॥
एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः ।
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः ॥
अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत् ।
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा ॥
दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च ॥
अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा ।
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः ॥
वेदबाह्या दुरात्मानः संसारे दुःखभागिनः ।
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते ॥
बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत् ।
तमस्यन्धे न संदेहात्परं यान्ति न संशयः ॥
नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च ।
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः ॥
असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत् ।
न युज्यन्तेऽथवा क्लेशैरहंभावोद्भवैः सह ॥
इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत ।
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः ॥
एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम् ।
देहं पङ्कमले मग्नं निर्मलं परमार्थतः ॥
तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान् ।
ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः ।
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति ॥
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च ॥
कारणानुगतं कार्यं यदि तच्च विनश्यति ।
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम् ॥
न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते ॥
लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् ।
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान् ॥
प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते ॥
यथा शाखा हि वै शाखा तरोः संबध्यते तदा ।
श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान् ।
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः ॥
लोकयात्राविधानं च दानधर्मफलागमः ।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः ।
एतदस्तीदमस्तीति न किंचित्प्रतिदृश्यते ॥
तेषां विमृशतामेवं तत्तत्समभिधावताम् ।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा ॥
न जातु कामः कामामामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते ॥
अर्थांस्तथाऽत्यन्तदुःखाबहांश्च
लिप्सन्त एके बहवो विशुष्काः ।
महत्तरं दुःखमभिप्रपन्ना
हित्वा सुखं मृत्युवशं प्रयान्ति ॥
विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मन्त्रपरिग्रहैश्च ।
विहाय यो गच्छति सर्वमेव
क्षणेन गत्वा न निवर्तते च ॥
स्वं भूमितोयानलवायवो हि
सदा शरीरं प्रतिपालयन्ति ।
इतीदमालक्ष्य कुतो रतिर्भवे
द्विनाशिनो ह्यस्य न कर्म विद्यते ॥
इदमनुपधिवाक्यमच्छलं
परमनिरामयमात्मसाक्षिकम् ।
नरपतिरनुवीक्ष्य विस्मितः
पुनरनुयोक्तुमिदं प्रचक्रमे ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥
* अयमध्यावो व. पुस्तकएव दृश्यते ।