अध्यायः 222

भीष्मेण युधिष्ठिरंप्रति जनकाय पञ्चशिखोक्तसांपरायिकभावादिप्रतिपादकवाक्यानुवादः ॥ 1 ॥

भीष्म उवाच ।
जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥
जनक उवाच ।
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः ॥
भीष्म उवाच ।
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥
उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते । अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥
धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः ।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ।
एष पञ्चसमाहारः शरीरमपि नैकधा ॥
`अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत् ।
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति ॥
ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते ।' ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥
`प्राणादयस्तथा स्पर्शा न संबाधगतास्तथा ।
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् ॥
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः ॥
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः ।
एते ह्यामरणात्पञ्च षङ्गुणा ज्ञानसिद्धये ॥
तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः ।
तमाहुः परमं शुक्रं `पारे च रजसः प्रभुम् ॥
विरागाद्वर्तते तस्मिन्मतो रजसि नित्यगम् ।
तस्मिन्प्रसन्ने संपश्ये' द्वुद्धिरित्यव्ययं महत् ॥
इमं गुणसमाहारमात्मभावेन पश्यतः ।
असम्यद्गर्शिनो दुःखमनन्तं नोपशाम्यति ॥
`तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान् ।' अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि ।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥
यत्र सम्यङ्भनो नाम त्यागमात्रमनुत्तमम् ।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम् ।
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः ॥
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि ।
सुखत्यागे तपोयोगं सर्वत्यागे समापना ॥
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत् ॥
`शेते जरामृत्युभयैर्विमुक्तः क्षीणे पुण्ये विगते च पापे ।
तपोनिमित्ते विगते च निष्ठे फले यथाऽऽकाशमलिङ्ग एव ॥'
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि ।
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु ॥
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम् ॥
वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।
एवमेकादशैतानि बुद्ध्या तूपहतं मनः ॥
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।
येनायं त्रिविधो भावः पर्यायात्समुंपस्थितः ॥
सात्विको राजसश्चापि तामसश्चापि ते त्रयः ।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः ॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः ॥
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा ॥
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत् ॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥
श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः ।
नोभयं शब्दविज्ञाने विज्ञानस्तेतरस्य वा ॥
एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी ।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः ।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥
इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात् ।
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः ॥
यत्तमोपहतं चित्तमाशुसंचारमध्रुवम् ।
करोत्युपरमं काये तदाहुस्तामसं सुखम् ॥
यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति ।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥
एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः ।
कथंचिद्वर्तते सम्यक्केषांचिद्वा निवर्तते ॥
`अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति ।
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः ॥
देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः ।
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ ॥
ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत् ।
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् ॥
सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम् ।
सर्वो हि दृश्यते लोके न सर्वार्थः कथंचन ॥
सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति । व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते ॥'
एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु ॥
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।
नतु स्वतां नियच्छन्ति तादृशः सत्वसंक्षयः ॥
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् ।
प्रतिसंमिश्रिते जीवे गृह्यमाणे च सर्वतः ॥
इमां च यो वेद विमोक्षबुद्धि मात्मानमन्विच्छति चाप्रमत्तः ।
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥
दृढैर्हि पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादभीतः ।
क्षीणे च पुण्ये विगते च पापे ततो निमित्ते च फले विनष्टे । अलेपमाकाशमलिङ्गमेव मास्थाय पश्यन्ति महत्यसक्ताः ॥
यथोर्णनाभिः परिवर्तमान स्तन्तुक्षये तिष्ठति पात्यमानः ।
तथा विमुक्तः प्रजहाति दुःखं बिध्वंसते लोष्ठ इवाद्रिमृच्छन् ॥
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाऽप्युरगो यथा च ।
विहाय गच्छत्यनवेक्षमाण स्तथा विमुक्तो विजहाति दुःखम् ॥
द्रुमं यथावाऽप्युदकै पतन्त मुत्सृज्य पक्षी निपतत्यसक्तः ।
तथा ह्यसौ सुखदुःखे विहाय मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः ॥
`इमान्स्वलोकाननुपश्य सर्वा न्व्रजन्यथाऽऽकाशमिवाप्नुकामः ।
इमां हि गाथां प्रलपन्यथाऽस्ति समस्तसङ्कल्पविशेषमुक्तः । अहं हि सर्वं किल सर्वभावे ह्यहं तदन्तर्ह्यहमेव भोक्ता ॥'
अपिच भवति मैथिलेन गीतं नगरमुपाहितमग्निनाऽभिवीक्ष्य ।
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥
भीष्म उवाच ।
इदममृतपदं विदेहराजा स्वयमिह पञ्चशिखेन भाष्यमाणम् ।
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥
इमं हि यः पठति विमोक्षनिश्चयं महीपते सततमवेक्षते तथा ।
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोश्रधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

12-222-2 भगवन्यविदं प्रोक्तं इति ट. ड. थ. पाठः ॥ 12-222-3 पञ्चत्वे तद्द्विजोत्तमेति ध. पाठः ॥ 12-222-6 उच्छेदनिष्ठा देहेऽस्ति इति ट. थ. पाठः ॥ 12-222-13 चित्तरूपं गमा गुणाः इति ध. पाठः ॥ 12-222-15 गन्धश्च पञ्चमः इति ड. पाठः । आमरणाद्युक्ता इति ट. ड. थ. पाठः ॥ 12-222-20 तत्तु सम्यङ्भातं नाम स्यागशास्त्रमनुत्तममिति ट. ड. थ. पाठः । अत्र सम्यग्बधो नाम त्यागशास्त्रमनुत्तममिति झ. पाठः ॥ 12-222-21 नित्यं मिथ्या विनीतानां क्लेशो दुःखवहो मतः इति झ. पाठः ॥ 12-222-22 सर्वशास्त्रतात्पर्यं त्यागे एवेत्याह द्रव्येति । द्रव्यादित्यागनिमित्तं यज्ञकर्मादीन्युपदिशन्तीति शेषः । सर्वत्यागनिमित्तं योगमुपदिशन्ति । यतः सा त्यागस्य समापना समाप्तिः पराकाष्ठेत्यर्थः ॥ 12-222-27 बुच्द्याशु विसृजेन्मनः इति झ. पाठः ॥ 12-222-34 इत्युपेक्षेत तं तथा इति ड. ध. पाठः ॥ 12-222-35 यत्त्वसन्तोषसंयुक्तं इति झ. पाठः ॥ 12-222-40 उच्छेदो नास्ति मानसः इति ड. थ. पाठः । तामसे इति झ. पाठः ॥ 12-222-41 इन्द्रियाण्यपि सूक्ष्माणि इति झ. पाठः ॥ 12-222-42 तामसं गुणं इति ट. ड. पाठः । तामसं बुधाः इति झ. पाठः ॥ 12-222-43 न कृच्छ्रमनुपश्यति इति झ. पाठः ॥ 12-222-52 नदाश्च तानि यच्छन्ति इति झ. पाठः ॥ 12-222-58 रुरुर्मृगभेदः ॥ 12-222-59 परार्द्भ्यां श्रेष्ठाम् ॥ 12-222-63 अवेक्षते अर्थतः पर्यालोचयति । कपिलं कपिलप्रशिष्यं पञ्चशिखम् ॥