अध्यायः 228
भीष्मेण युधिष्ठिरंप्रति तपश्शब्दस्य मतभेदेन नानार्थकत्वकथनपूर्वकं स्वमते तस्य ज्ञानार्थकत्वाभिधानम् ॥ 1 ॥ ज्ञानस्य मोक्षसाधनत्वे दृष्टान्ततया सुवर्चलाचरित्रकथनम् ॥ 2 ॥
` युधिष्ठिर उवाच ।
यदिदं तप इत्याहुः किं तपः संप्रकीर्तितम् ।
उपवासमथान्यत्तु वेदाचारमथो नु किम् ।
शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः ।
वेदव्रतादीनि तप अपरे वेदपारगाः ।
वेदपारायणं चान्ये चाहुस्तत्वमथापरे ॥
यथाविहितमाचारस्तपः सर्वं व्रतं गताः ।
आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम् ॥
त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः ।
ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः ॥
सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत् ॥
यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः ।
ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः ॥
नान्तराशीस्ततो नित्यमुपवासी महाव्रतः ।
ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः ॥
भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथाऽमृतम् ।
एवं नानार्थसंयोगं तपः शश्वदुदाहृतम् ॥
केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः ।
येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः ।
रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः ॥
ज्ञानात्मकं तपश्शब्दं ये वदन्ति विनिश्चिताः ।
ते ह्यन्तराऽऽत्मसद्भावं प्रपन्ना नृपसत्तम ॥
एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्ट्वानसि ।
यथा वस्तुनि संज्ञानि विविधानि भवन्त्युत ॥
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ राजाधीना नृपाः पुनः ।
अन्यानि च सहस्राणि नामानि विविधानि च ॥
प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च ।
दृढं सर्वं प्राकृतकभिदं सर्वत्र पश्य वै ॥
तस्माद्यथागतं राजन्यथारुचि नृणां भवेत् ।
अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर ॥
ब्राह्मणानां समूहे तु यदुवाच सुवर्चला ।
देवलस्य सुता विद्वन्सर्वलक्षणशोभिता ॥
कन्या सुवर्चला नाम योगभावितचेतना ।
हेतुना केन जाता सा निर्द्वन्द्वा नष्टसंशया ॥
साऽब्रवीत्पितरं विप्रं वरान्वेषणतत्परा ॥
अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् ।
एवं स्म च पितः शश्वन्मयेदं---मुने ॥
पितोवाच ।
न शक्यं प्रार्थितुं वत्से त्वयाऽद्य प्रतिभाति मे ।
अन्धताऽनन्धता चेति विचारो मम जायते ।
उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने ॥
कन्योवाच ।
नाहमुन्मत्तभूताऽऽद्य बुद्धिपूर्वं ब्रवीमि ते ।
विद्धि वैतादृशं लोके स मां भजति वेदवित् ॥
यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह ।
आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम् ॥
तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान् ।
ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः ।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् ॥
तानागतानथाभ्यर्च्यं कन्यामाह पिता महान् ।
यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् ॥
तथेचि चोक्त्वा कल्याणी तप्तहेमनिभानना ।
करसंमितमध्याङ्गी वाक्यमाह तपोधनाः ॥
यद्यस्ति संमतो विप्रो ह्यन्धोऽनन्धः स मे वरः ।
नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते ॥
कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत ॥
श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् ।
श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते ॥
सोहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः ।
विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम् ॥
सुवर्चलोवाच ।
कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः ।
ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम ॥
द्विज उवाच ।
शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् ।
न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे ।
अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः ॥
येन पश्यति सुश्रोणि भाषते स्पृशते पुनः ।
भुज्यते घ्रायते नित्यं शृणोति मनुते तथा ॥
तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम् ।
सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते ।
सर्वमस्मिन्न मे विद्या विद्वान्हि परमार्थतः ॥
सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् ।
प्रणम्य पूजयामास तां भार्यां स च लब्धवान् ॥
वैराग्यसंयुता कन्या तादृशं परिमुत्तमम् ।
प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक् ॥
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥