अध्यायः 233
भीष्मेण युधिष्ठिरंप्रति आपदि शोकत्यागपूर्वकं भगवदनुचिन्तनादेः
श्रेयः साधनताप्रतिपादकशक्रनमुचिसंवादानुवादः ॥ 1 ॥
व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे ।
भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे ॥'
भीष्म उवाच ।
अत्रैवोदाहन्तीममितिहासं पुरातनम् ।
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् ।
भवाभवज्ञं भूतानामित्युवाच पुरंदरः ॥
बद्धः पाशैश्च्युतः स्थानाद्द्विपतां वशमागतः ।
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥
नमुचिरुवाच ।
अनवाप्यं च शोकेन शरीरं चोपशुष्यति ।
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥
संतापाद्धश्यते रूपं संतापाद्धश्यते श्रियः ।
संतापाद्धश्यते चायुर्धर्मश्चैव सुरेश्वर ॥
विनीय खलु तद्दुःखमागतं वै मनस्सुखम् ।
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥
यथायथा हि पुरुषः कल्याणे कुरुते मनः ।
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता
गर्भे शयानं पुरुषं शास्ति शास्ता ।
तेनानुयुक्तः प्रवणादिवोदकं
यथा नियुक्तोऽस्मि तथा भवामि ॥
भावाभावावजिनानन्गरीयो
जानामि श्रेयो न तु तत्करोमि ।
आशासु हर्म्यासु हृदासु कुर्वन्
यथा नियुक्तोऽस्मि तथा वहामि ॥
यथायथाऽस्म प्राप्तव्यं प्राप्नोत्येव तथातथा ।
भवितव्यं यथा यच्च भवत्येव तथातथा ॥
यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः ।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति ॥
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम ।
इति यस्य सदा भावो न स शोचेत्कदाचन ॥
पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते ।
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते ॥
ऋषींश्च देवांश्च महासुरांश्च
त्रैविद्यवृद्धांश्च वने मुनींश्च ।
का नापदो नोपनमन्ति लोके
परावरज्ञास्तु न संभ्रमन्ति ॥
न पण्डितः क्रुद्ध्यति नाभिषज्यते
न चापि संसीदति न प्रहृष्यति ।
न चार्थकृच्छ्रव्यसनेषु शोचते
स्थितः प्रकृत्या हिमवानिवाचलः ॥
यमर्थसिद्धिः परमा न हर्षये
त्तथैव काले व्यसनं न मोहयेत् ।
सुखं च दुःखं च तथैव मध्यमं
निषेवते यः स धुरधरो नरः ॥
यांयामवस्थां पुरुषोऽधिगच्छे
त्तस्यां रमेतापरितप्यमानः ।
एवं प्रवृद्धं प्रणुदन्मनोजं
संतापनीलं सकलं शरीरात् ॥
न तत्सदः सत्परिषत्सभा च
सा प्राप्य यां न कुरुते सदा भयम् ।
धर्मतत्त्वमवगाह्य बुद्धिमा
न्योऽभ्युपैति स धुरंधरः पुमान् ॥
प्राज्ञस्य कर्माणि दुरन्वयानि
न वै प्राज्ञो मुह्यति मोहकाले ।
स्थानाच्च्युतश्चेन्न मुमोह गौतम
स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
[न शीलेन न वृत्तेन तथा नैवार्थसंपदा ।]
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥
यदेवमभिजातस्य धातारो विदधुः पुरा ।
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः ।
कुशली सर्वदुःखेषु स वै सर्वधनी नरः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥
12-233-3 भवाभवज्ञमुत्पत्तिप्रलयज्ञम् ॥ 12-233-5 सहायता
शोकस्य दुःखापनोदे हेतुत्वं नास्तीत्यर्थः ॥ 12-233-6 श्रियः सकाशात् ॥ 12-233-7 विनीय निरस्य । हृद्यं हृत्स्थम् । कल्याणं मोक्षम् ॥ 12-233-9
प्रवणान्निम्रदेशात् ॥ 12-233-18 प्रणुदन् दूरीकुर्वन् । सन्तापमायाराकरं
शरीरात् इति झ. पाठः ॥ 12-233-19 श्रौतस्मार्तलौकिकन्यायान्यायविवेचका जनसमाजाः
सदः पर्षत्सभाख्याः । संसत्सदः परिषदः सभासदः सम्प्राप्य यो न कुरुते सदा भयम् ।
इति ट. थ. ध. पाठः ॥ 12-233-20 न मुमोह चोत्तमः इति ध. पाठः ॥ 12-233-24 कुशलः
सुखदुःखेषु इति ट. थ. पाठः ॥