अध्यायः 234

भीष्मेण युधिष्ठिरंप्रति विपदि धैर्यालम्बनस्य सुखसाधनताप्रतिपादकबलिशक्नसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि ।
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः ॥
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ ।
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि ॥
भीष्म उवाच ।
पुत्रदारैः सुखैश्चैव वियक्तस्य धनेन च । मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ।
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ॥
[विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् ।] आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥
यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः ।
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
बलिवासवसंवादं पुनरेव युधिष्ठिर ॥
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ।
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते ।
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि ॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ।
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् ।
आरुह्यैरावणं शक्रस्त्रैलोक्यमनुसंययौ ॥
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे ।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् ।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् ।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥
दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया ।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् ।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥
श्रैष्ट्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् ।
हृतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे ।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः ।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥
नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् ।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् ।
श्रुत्वा दुःखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥
निगृहीते मयि भृशं शक्र किं कत्थितेन ते ।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ॥
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः ।
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति ॥
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् ।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः ।
एकः प्राप्नोति विजयमेकश्चैव पराजयम् ॥
मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे ।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥
नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया ।
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम् ॥
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम् ।
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति ।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥
कालः काले नयति मां त्वां च कालो नयत्ययम् ।
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥
न मातृपितृशुश्रूषा न च दैवतपूजनम् ।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥
न विद्या न तपो दानं न मित्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥
नागामिनमनर्थं हि प्रतिघातशतैरपि ।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥
पर्यायैर्हन्यमानानां परित्राता न विद्यते ।
इदं तु दुःखं यच्छक्र कर्ताऽहमिति मन्यसे ॥
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन ।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताऽप्यनीश्वरः ॥
कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया ।
गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे ।
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः ।
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथविभ्रमेत् ॥
कथं कालपरीतस्य मम वा मद्विधस्य वा ।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः ।
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया ।
काले परिणते कालः कलयिष्यति मामिव ॥
बहूनीन्द्रसहस्राणि दैवतानां युगे युगे ।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥
इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे ।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित् ।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥
अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम् ।
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर ॥
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ।
नेयं तव न चास्माकं न चान्येषां स्थिरा मता ॥
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता ।
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ॥
गौर्निवासमिवोत्सृज्य पुनरन्यं गमिष्यति ।
सुरेशा ये ह्यतिक्रान्तास्तान्न संख्यातुमुत्सहे ॥
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ।
सवृक्षौषधिगुल्मेयं ससरित्पर्वताकरा ॥
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही ।
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा ॥
अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः] प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ॥
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ।
सत्येषुर्ऋषभो बाहुः कपिलाश्वो निरूपकः ॥
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः ।
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः ॥
विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः ।
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ॥
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह ।
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये ॥
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम् ।
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ॥
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ।
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ॥
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ।
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ॥
सर्वे संहननोपेताः सर्वे परिघबाहवः । सर्वे मायाशतधराः सर्वे ते कामरूपिणः ।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ।
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः ॥
सर्वे संमतमैश्वर्यमीश्वराः प्रतिपेदिरे ।
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ॥
सर्वे यथार्हदातारः सर्वे विगतमत्सराः ।
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे ॥
सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः ।
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ॥
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः ।
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥
मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम् ।
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि ॥
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ।
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय ॥
मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः ।
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति ॥
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह ।
संयते मयि ननं त्वमात्मानं बहु मन्यसे ॥
कालः प्रथममायान्मां पञ्चात्त्वामनुधावति ।
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे ।
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥
यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति ।
यथा मे सर्वगात्राणि न सुस्थानि महौजसः ॥
अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि ।
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः ॥
किं हि कृत्वा स्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः ।
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ ।
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ।
किं कत्थसे मां किंच त्वं कालेन निरपत्रयः ॥
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ।
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह ।
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते ॥
त्वमेव शक्र जानासि देवासुरसमागमे ।
समेता विबुधा भग्नास्तरसा समरे मया ॥
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ।
सशृङ्गशिखरा भग्नाः समरे मूर्ध्निं ते मया ॥
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः ।
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया ॥
तं मां परिणते काले परीतं कालवह्निना ।
नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ।
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ।
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते ॥
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।
सोयं पचति कालो मां वृक्षे फलमिवागतम् ॥
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते ।
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ॥
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ।
तेन शक्र न शोचामि नास्ति शोके सहायता ॥
यदा हि शोचतः शोको व्यसनं नाषकर्षति ।
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि ॥
भीष्म उवाच ।
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः ।
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ॥
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ।
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
व्रुवन्न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम ॥
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् ।
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् ॥
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ।
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ।
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ।
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ।
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित् ॥
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ।
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥
अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः ।
संपीडयति यः कालो वृद्धिं वार्धुपिको यथा ॥
इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम् ।
कालो हरति संप्राप्तो नदीवेग इव द्रुमम् ॥
इदानीं तावदेवासौ मया दृष्टः कथं मृतः ।
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ।
जीवितं जीवलोकस्य कालेनागम्य नीयते ॥
उच्छ्राया विनिपातान्ता भावोऽभावः स एव च ।
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
अहमासं पुरा चेति मनसाऽपि न बुद्ध्यते ॥
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा ।
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते ॥
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ।
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः ।
कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ।
वैरोचते कृतार्थोऽसि स्पृहणीयो विजानताम् ॥
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ।
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि ॥
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम् ।
निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे ॥
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ।
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः ॥
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धनैः ।
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि ॥
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ।
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर ॥
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ।
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा यदा ।
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः ॥
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति ।
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते ॥
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय ।
सुखी भव निराबाधः स्वस्थचेता निरामयः ॥
भीष्म उवाच ।
तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः ।
विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकर्पि सर्वचराचरेश्वरम् ।
हिमापहो हव्यमुवाह चाध्वरे तथाऽमृतं चार्पितमीश्वरोऽपि हि ॥
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजाः शतमन्युरीश्वरः ।
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

12-234-20 श्रुत्वामुखमसंभ्रान्त इति झ. ट. थ. पाठः ॥