अध्यायः 235

गङ्गापुलिनगतयोः शक्रनारदयोः समीपंप्रति श्रीदेव्या आगमनम् ॥ 1 ॥ शक्रंप्रति श्रिया स्वस्य देत्येषु निवासविप्रवासयोः कारणीभूततद्गुणदोषाभिधानम् ॥ 2 ॥

युधिष्ठिर उवाच ।
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः ।
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥
महतस्तपसो व्यष्ट्या पश्यँल्लोकौ परावरौ ।
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः ।
विचचार यथाकालं त्रिषु लोकेषु नारदः ॥
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि ।
ध्रुवद्वारभवां गङ्गां जगामावततार च ॥
`मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् ।
स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान् ॥
यं--देवजवाकीर्णं सूक्ष्मकाञ्जनवालुकम् ।
गङ्गाद्वीपं समासाद्य नानावृक्षैरलङ्कृतम् ॥
सालतालाश्वकर्णानां चन्दनानां च राजिभिः ।
मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम् ॥
नदीपुलिनमासाद्य स्नात्वा संतर्प्य देवताः । जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता ॥'
सहस्रनयनश्चापि वज्री शम्बरपाकहा ।
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः ।
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः । चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा ।
पूर्ववृत्तव्यतीतानि कथयन्तौ समाहितौ ॥
अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् ।
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥
`विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ ।
ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति ॥
ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् ।
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ॥
आकाशो ददृशे ज्योतिरुद्यतार्चिः समप्रभम् । `अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम् ।'
तयोः समीपं तं प्राप्तं प्रत्यदृश्यत भारत ॥
तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम् ।
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥
`दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपास्थितौ ।
क्रमात्संप्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम् ॥
तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम् । धात्रीं लोकस्य रमणीं लोकमातरमच्युताम् ॥'
दिव्याभिरुपशोभाभिरप्सरोभिः पुरस्कृताम् ।
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥
नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम् ।
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम् ॥
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा ।
अभ्यागच्छन्त्रिलोकेशं शक्रं चर्षि च नारदम् ॥
नारदानुगतः साक्षान्मघवांस्तामुपागमत् ।
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥
चक्रे चानुपमां पूजां तस्याश्चापि स सर्वंवित् ।
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि ।
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥
श्रीरुवाच ।
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः ।
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥
साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते ।
भूत्यर्तं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन ।
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥
अहं धृतिरहं सिद्धिरहं संभूतिरेव च ।
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥
राज्ञां विजयमानानां सेनाग्नेषु ध्वजेषु च ।
निवसे धर्मशीलानां विषयेषु पुरेषु च ॥
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि ।
निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात् ।
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥
शक्र उवाच ।
कथं वृत्तेषु दैत्येषु त्वमवात्सीर्वरानाने ।
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥
श्रीरुवाच ।
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च ।
स्वर्गमार्गाभिरामेषु सत्वेषु निरता ह्यहम् ॥
दानाध्ययनयज्ञेज्यापितृदैवतपूजनम् ।
गुरूणामतिथीनां च तेषां नित्यमवर्तत ॥
सुसंमृष्टगुहाश्चासञ्जितस्त्रीका हुताग्नयः ।
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः ॥
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः ।
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥
अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन ।
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः ॥
दातारः संग्रहीतार आर्याः करुणवेदिनः ।
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः ।
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः ॥
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः ।
उपवासतपः शीलाः प्रतीता ब्रह्मवादिनः ॥
नैनानभ्युदियात्सूर्यो नैवास्वप्स्यन्प्रगेशयाः ।
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥
काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः ।
पङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन् ॥
सदा हि ददतां धर्म्यं सदाचाप्रतिगृह्णताम् ।
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् । दयां च संविभागं च नित्यमेवान्वमोदताम् ।
कालो यातः सुखेनैव धर्ममार्गे निवर्तताम् ॥
त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधिपीडितम् ।
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥
धर्ममेवानुवर्तन्ते न हिंसन्ति परस्परम् ।
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥
पितॄन्देवातिथींश्चैव गुरूंश्चैवाभ्यपूजयन् ।
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः ॥
नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् ।
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति ॥
नैवाकाशे न पशुषु नायोनौ च न पर्वसु ।
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन ॥
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा ।
उत्साहोऽथानहकारः परमं सौहृदं क्षमा ॥
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा ।
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥
निद्रा तन्द्रीरसंप्रीतिरसूयाऽथानवेक्षिता ।
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान् ॥
साऽहमेवंगुणेष्वेव दानवेष्ववसं पुरा ।
प्रजासर्गमुपादाय यावद्गुणविपर्ययम् ॥
ततः कालविपर्यासे तेषां गुणविपर्ययात् ।
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम् ॥
सभासदां च वृद्धानां सतां कथयतां कथाः ।
प्राहसन्नभ्यसूयंश्च सर्वबुद्धान्गुरून्परान् ॥
युवानश्च समासीना वृद्धानपि गतान्सतः ।
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥
वर्तयत्येव पितरि पुत्रः प्रभवते तथा ।
अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः ॥
तथा धर्मादपेतेन कर्मणा गर्हितेन ये ।
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा ॥
उच्चैश्चाभ्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् ।
पुत्राः पितृनत्यचरन्नार्यश्चात्यचरन्पतीन् ॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते ।
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून् ॥
न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा ।
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम् ॥
`बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः ।
एको दासो भवेत्तेषां तेषां दासीद्वयं तथा ॥
त्रिगवा दानवाः केचिच्चतुरोजास्तथा परे ।
षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे ॥
रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिताः ।
अन्तर्दशाहे चाश्नन्ति गवां क्षिरं विचेतनाः ॥
क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते ।
अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च ॥
शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत ।
संकीर्णानि च धान्यानि नात्यवेक्षत्कुटुंबिनी ॥
मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः ।
गृहे कण्टकिनो वृक्षास्तथा निष्पाववल्लरी ॥
यज्ञियाश्च तथा वृक्षास्तेषामासन्दुरात्मनाम् ।
कूपस्नानरता नित्यं पर्वमैथुनगामिनः ॥
तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते ।
विभीतककरञ्जानां छायामूलनिवासिनः ॥
करवीरं च ते पुष्पं धारयन्ति च मोहिताः ।
पद्मबिजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः ॥
न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः ।
निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः ॥
होमधूमो न तत्रासीद्वेदघोषस्तथैव च ।
यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहेगृहे ॥
शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता ।
विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः ॥
हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः । देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा ।
स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः ॥'
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम् ।
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम् ॥
कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभोजनम् ।
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते ।
`क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः ॥
शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः । उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनान्विताः ।
गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः ॥
श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा । प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः ॥'
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च । बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन् ।
तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः ॥
पायसं कृसरं मांसमपूपानथ शष्कुलीः ।
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन् ॥
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः ।
आवृत्तकलहाश्चात्र दिवारात्रं गृहेगृहे ॥
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह ।
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्त परस्परम् ॥
संकराश्चाभ्यवर्तन्त न च शौचमवर्तत । ये च वेदविदो विप्रा विस्पष्टमनुचश्च ये ।
निरन्तरविशेषास्ते बहुमानावमानयोः ॥
भावमाभरणं वेषं गतं स्थितमवेक्षितम् ।
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः ।
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् ।
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तः संभवेष्वपि ॥
मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित् ।
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥
परस्वादानरुचयो विपणव्यवहारिणः ।
अदृश्यन्तार्यवर्णषु शृद्राश्चापि तपोधनाः ॥
अधीयतेऽव्रताः केचिद्वृथा व्रतमथापरे ।
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिप्यसखो गुरुः ॥
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव ।
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः ।
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥
प्रातः सायं च सुप्रश्नं कल्पनं प्रेषणक्रियाः ।
शिष्यानप्रहितास्तेषामकुर्वन्गुरवश्च ह ॥
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत ।
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति ॥
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता ।
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत् ॥
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् ।
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि ॥
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः ।
`श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः ॥
स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा ।' अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥
तेष्वेवमादीनाचारानाचरत्सु विपर्यये ।
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥
तन्मां स्वयमनुप्राप्ताभिनन्द शचीपते ।
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः ॥
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः ।
सप्तदेव्यो जयाष्टभ्यो वासमेष्यन्ति तेऽष्टधा ॥
आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा ।
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः ।
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥
इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः ।
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः ॥
ततोऽनलसखो वायुः प्रववौ देववर्त्मसु ।
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥
शुचौ चाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः ।
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः ॥
ततो दिवं प्राप्य सहस्रलोचनः । स्त्रियोपपन्नः सुहृदा महर्षिणा ।
रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ ॥
अथेङ्गितं वज्रधरस्य नारदः श्रियश्च देव्या मनसा विचारयन् ।
श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्षिभिः ॥
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयंभुवः ।
अनाहता दुन्दुभयोऽथ नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे ॥
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन ।
अनेकरत्नाकरभूषणा च भूः सुघोषघोषाश्च दिवौकसां जये ॥
क्रियाभिरामा मनुजा मनस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः ।
नरामराः किन्नरयक्षराक्षसाः समृद्धिमन्तः सुमनस्विनोऽभवन् ॥
न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि ।
रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित् ॥
इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः ।
पठन्ति ये विप्रसदः समागताः समृद्धकामाः श्रियमाप्नुवन्ति ते ॥
त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम् ।
तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥
`संस्मृत्य बुद्धीन्द्रियगोचरातिगं स्वगोचरे सर्वकृतालयं तम् ।
हरिं महापाग्रहरं जनास्ते संस्मृत्य संपूज्य विधूतपापाः ॥
यमैश्च नित्यं नियमैश्च संयता स्तत्वं च विष्णोः परिपश्यमानाः ।
देवानुसारेण विमुक्तियोगं ते गाहमानाः परमाप्नुवन्ति ॥
एवं राजेन्द्र सततं जपहोमपरायणः ।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणः ॥
दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय । वासुदेवपरो नित्यं ज्ञानध्यानपरायणान् ।
विशेषेणार्चयेथास्त्वं सततं पर्युपास्व च ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि प़ञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥

12-235-6 भवमौलिभवां गङ्गां इति ध. पाठः ॥ 12-235-26 विजितिः स्मृतिः ट.ड. पाठः ॥ 12-235-29 इति ट. ड. ध. पाठः ॥ 12-235-44 धैर्यादुद्धारितारिषु इति नचाप्यासन्प्रगेशयाः इति ध. पाठः ॥ 12-235-45 कार्यं कृतं चान्ववेक्ष्य इति ट. पाठः ॥ 12-235-60 मृत्या भर्त्रन्तरं प्राप्य इति ट. पाठः ॥ 12-235-80 प्रकीर्णं कांस्यभाजनमिति झ. पाठः ॥