अध्यायः 237
भीष्मेण युधिष्ठिरंप्रति सद्गुणानां जनवशीकरणकारणत्वे दृष्टान्ततया उग्रसेनाय कृष्णोदितनारदगुणानुवादः ॥ 1 ॥
युधिष्ठिर उवाच ।
प्रियः सर्वस्य लोकस्य सर्वसत्वाभिनन्दितः ।
गुणैः तर्पैरुपेतश्च कोन्वस्ति भुवि मानवः ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ ।
उग्रसेनस्य संवादं नारदे केशवस्य च ॥
उग्रसेन उवाच ।
यस्य संकल्पते लोको नारदस्य प्रकीर्तने ।
मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः ॥
वासुदेव उवाच ।
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः ।
नारदस्य गुणान्साधून्संक्षेपेण नराधिप ॥
न चारित्रनिमित्तोऽस्याहंकारो देहपातनः ।
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥
अरतिः क्रोधचापल्ये भयं नैतानि नारदे ॥
अदीर्घसूत्रः शूरश्च तस्मात्सर्वत्र पूजितः ॥
उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः ।
कामतो यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः ।
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥
तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च ।
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ॥
सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः ।
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥
वेदश्रूतिभिराख्यानैरर्थानभिजिगीषति ।
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥
समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन ।
मनोऽनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥
बहुश्रुतश्चित्रकथः पण्डितोऽनलसोऽशठः ।
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥
नार्थे धने वा कामे वा भूतपूर्वोऽस्य विग्रहः ।
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् ।
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ॥
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते ।
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥
समाधिर्नास्य कामार्थै नात्मानं स्तौति कर्हिचित् ।
अनीर्षुर्मृदुसंवादस्तस्मात्सर्वत्र पूजितः ॥
`नाहंकारे मुक्तिरस्य चारित्रे बुद्धिरास्थिता ।
वेदार्थविद्विभागेन यज्ञविद्योगवित्कविः ।
भक्तिमान्य सदा विद्वांस्तस्मात्सर्वत्र पूजितः ॥
त्रिगुणं गुणभोक्तारं पञ्चयज्ञात्मकं तथा ।
यथावत्स विजानाति तस्मात्सर्वत्र पूजितः ॥
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूज्यते ॥'
लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन् ।
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥
नासूयत्यागमं कंचित्स्वनयेनोपजीवति ।
अबन्ध्यकालोऽवश्यात्मा तस्मात्सर्वत्र पूजितः ॥
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः ।
नित्ययुक्तोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥
नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परैः ।
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥
न हृष्यत्यर्थलाभेषु नालाभे तु व्यथत्यपि ।
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥
तं सर्वगुणसंपन्नं दक्षं शुचिमनामयम् ।
कालज्ञं च प्रियज्ञं च कः प्रियं न करिष्यति ॥
`इत्युक्तः संप्रशस्यैनमुग्रसेनो गतो गृहात् ।
आस्ते कृष्णस्तथैकान्ते पर्यङ्के रत्नभूषिते ॥
कदाचित्तत्र भगवान्प्रविवेश महामुनिः ।
तमभ्यर्च्य यथान्यायं तूष्णीमास्ते जनार्दनः ॥
तं खिन्नमिव संलक्ष्य केशवं वाक्यमब्रवीत् ।
किमिदं केशव तव वैमनस्यं जनार्दन ।
अभूतपूर्वं गोविन्द तन्मे व्याख्यातुमर्हसि ॥
श्रीवासुदेव उवाच ।
नासुहृत्परमं मेऽद्य नापदोऽर्हति वेदितुम् ।
अपण्डितो वापि सुहृत्पण्डितो वाऽप्यनात्मवान् ॥
स त्वं सुहृच्च विद्वांश्च जितात्मा श्रोतुमर्हसि ।
अप्येतद्धृदि यद्दुःखं तद्भवाञ्श्रोतुमर्हति ॥
दास्यमैश्वर्यवादेन ज्ञातीनां च करोम्यहम् ।
द्विषन्ति सततं क्रुद्धा ज्ञातिसंबन्धिवान्धवाः ॥
दिव्या अपि तथा भोगा दत्तास्तेषां मया पृथक् ।
तथाऽपि च द्विषन्तो मां वर्तन्ते च परस्परम् ॥
नारद उवाच ।
अनायसेन शस्त्रेण परिमृज्यानुमृज्य च ।
जिह्वामुद्धर चैतेषां न वक्ष्यन्ति ततः परम् ॥
भगवानुवाच ।
अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम ।
येनषामुद्धरे जिह्वां ब्रूहि तन्मे यथातथम् ॥
नारद उवाच ।
गोहिरण्यं च वासांसि रत्नाद्यं यद्धनं बहु ।
आस्ये प्रक्षिप चैतेषां शस्त्रमेतदनायसम् ॥
सुहृत्संबन्धिमित्राणां गुरूणां स्वजनस्य च ।
आख्यातं शस्रमेतद्धि तेन च्छिन्धि पुनः पुनः ॥
तवैश्वर्यप्रदानानि श्लाध्यमेषां वचांसि च ।
समर्थं त्वामभिज्ञाय प्रवदन्ति च ते नराः ॥
भीष्म उवाच ।
ततः प्रहस्य भगवान्संपूज्य च महामुनिम् ।
तथाऽकरोन्महातेजा मुनिवाक्येन चोदितः ॥
एवंप्रभावो ब्रह्मर्षिर्नारदो मुनिसत्तमः ।
पृष्टवानसि यन्मां त्वं तदुक्तं राजसत्तम ॥
सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः ।
लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥
12-237-12 तितिक्षुरनवद्यश्चेति ट. पाठः ॥ 12-237-31 असुहृत््नापुरुषः ॥