अध्यायः 239

भीष्मेण युधिष्ठिरंप्रति शुकाय श्रीव्यासोदितप्रलयप्रकाराद्यनुवादः ॥ 1 ॥

व्यास उवाच ।
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि ।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥
दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः ।
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च ।
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥
ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा ।
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ॥
भूमेरपि गुणं गन्धमाप आददते यदा ।
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥
आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः ।
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ॥
अपामपि गुणांस्तात ज्योतिराददते यदा ।
आपस्तदा त्वात्तगुणा ज्योतिः षूपरमन्ति वै ॥
यदाऽऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः ।
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नमः ॥
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा ।
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान् ॥
ततस्तु मूलमासाद्य वायुः संभवमात्मनः ।
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदन् ॥
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ।
सर्वलोकप्रणुदितं स्वं तु तिष्ठति नानदत् ॥
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः । `ग्रसते च यदा सोऽपि शाम्यति प्रतिसंचरे ।'
मनसो व्यक्तमव्यक्तं ब्राह्मः संप्रतिसंचरः ॥
तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः ।
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते ॥
तं तु कालेन महता संकल्पं कुरुते वशे ।
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम् ॥
कालो गिरति विज्ञानं कालं बलमिति श्रुतिः ।
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥
[आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि ।] तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् ।
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत् ॥
यथावत्कीर्तितं सत्यमेवमेतदसंशयम् ।
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ॥
एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनःपुनः ।
युगसाहस्रयोरादावहोरात्र्यास्तथैव च ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 239 ॥

12-239-1 क्रमप्राप्तं प्रलयमाह प्रत्याहारमिति । प्रतीपमुत्पत्तिक्रमविपरीतमाहरणं प्रत्याहारः ॥ 12-239-2 संकर्षणमुखोद्भूतस्य शिखिनोऽग्नेरर्चिषः सप्तेति संबन्धः । अर्चिर्मिः सौरीभिराग्नेयीभिश्च ज्वालाभिः ॥ 12-239-3 ध्रुवाणि स्थावराणि ॥ 12-239-4 निर्वृक्षा निस्तृणेति झ. पाठः ॥ 12-239-5 गन्धं काठिन्यहेतुम् । धृतवद्भूमिः काठिन्यं त्यक्त्वा जलमात्रं भवतीत्यर्थः । प्रलयत्वाय कारणभावाय ॥ 12-239-7 आपोप्यात्तगुणा अग्निना शोषितपसा अग्निमात्रं भवन्ति ॥ 12-239-8 यथा रसगुमांस्तासां ग्रसन्ति शिखिनोऽर्चिष इति ट. थ. पाठः ॥ 12-239-9 रूपं वायुराददते । आङ््पूर्वस्य दद दाने इत्यस्य रूपम् ॥ 12-239-10 ततस्तु स्वनमासाद्येति झ. पाठः । तत्र स्वनं शब्दतन्मात्रमित्यर्थः ॥ 12-239-13 ब्राह्मोऽयं प्रतिसंचर इति ध. पाठः ॥ 12-239-16 कालो हरति विज्ञानमिति थ. पाठः ॥ 12-239-18 बोध्यं बोधयितुं योग्यमन्वर्थनामानं शिष्यम् । विद्यामयं अत्यौत्कण्डेन विद्यार्थित्वात् ॥ 12-239-19 विस्तार संक्षेपौ सृष्टिप्रलयावुक्ताविति शेषः ॥