अध्यायः 240

भीष्मेण युधिष्ठिरंप्रति व्यासेन शुकायोक्तब्राह्मणधर्मानुवादः ॥ 1 ॥ ब्राह्मणेभ्यो दानमहिमानुवादः ॥ 2 ॥

व्यास उवाच ।
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया ।
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि सांप्रतम् ॥
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् ।
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे ॥
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः ।
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि ॥
प्रजासर्गण दारैश्च ब्रह्मचर्येण वा पुनः ।
वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥
गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते ।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥
प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः ।
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः ॥
यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत् ।
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥
तपसा वः सुमहता विद्यानां पारणेन वा ।
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥
यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी ।
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ॥
अध्यापयेदधीयीत याजयेत यजेत वा ।
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन ॥
याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत् ।
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन ॥
गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम् ।
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् ।
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि ॥
अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन । उच्चैः श्रवसमप्यक्षं काश्यपाय महात्मने ।
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान् ॥
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः ।
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ।
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥
आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम् ।
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥
दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत् ।
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम् ॥
सांकृतिश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम् ॥
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥
सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः ।
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ।
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वी सपत्तनाम् ॥
अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत ।
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥
करंधमस्य पुत्रस्तु मरुतो नृपतिस्तथा ।
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः ।
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥
राजा मित्रसहश्चापि वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥
सहस्रजिच्च राजर्षिः प्राणानिंष्टान्महायशाः ।
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान् ॥
सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥
नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान् ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥
एते चान्ये च बहवो दानेन तपसैव च ।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥

12-240-14 कृतात्पक्वान्नादपि ॥