अध्यायः 242

भीष्मेण युधिष्ठिरंप्रति ज्ञानस्य श्रेयःसाधनतापरशुकसंबोध्यकव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
अथ चेद्रोचयेदेतदुह्यते मनसा तथा ।
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः ।
नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन ॥
छिन्नदोषो मुनिर्योगयुक्तो युञ्जीत द्वादश ।
दशकर्मसुखानर्थानुपायापायनिष्क्रियः ॥
चक्षुराचारसंग्राहैर्मनसा दर्शनेन च ।
यच्छेद्वाङ्भनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ॥
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ।
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ॥
यदि वा सर्ववेदज्ञो यदि वाऽप्यनृचो द्विजः ।
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ॥
यदि वा पुरुषव्याघ्रो यदि वैक्लव्यधारणः ।
तरत्येवं महादुर्गं जरामरणसागरम् ॥
एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः ।
अपि जिज्ञासमानोऽपि शब्दब्रह्माऽतिवर्तते ॥
धर्मोपस्थो ह्रीवरूथ उपायापायकूवरः ।
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीववन्धनः ॥
चेतनाबन्धुरश्चारुश्चाचारग्रहनेमिमान् ।
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः ।
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरः सरः ॥
त्यागरश्म्यनुगः क्षेम्यः शौचगो ध्यानगोतरः ।
जीवयुक्तो रथो दिव्यो ब्रह्मलोके धिराजते ॥
अथ संत्वरमाणस्य रथमेवं युयुक्षतः ।
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते ।
पृष्ठतः पार्श्वतश्चान्यास्तावत्यस्ताः प्रधारणाः ॥
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः । ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः ।
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते ॥
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ।
तथाऽस्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः ॥
निर्मुच्यमानः सूक्ष्मत्वाद्रूपाणीमानि पश्यतः ।
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ॥
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ।
अथ धूमस्य विरमेद्द्वितीयं रूपदर्शनम् ॥
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ।
अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते ॥
तस्मिन्नुपरते चास्य वायव्यं सूक्ष्ममव्ययम् ।
रूपं प्रकाशते तस्य पीतवस्त्रवदव्ययम् ॥
तस्मिन्नुपरते रुपमाकाशस्य प्रकाशते । तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते ।
ऊर्णारूपसवर्णस्य तस्य रूपं प्रकाशते ॥
अथ श्वेतां गतिं गत्वा सोहङ्कारे प्रकाशते ।
सुशुक्लं चेतसः सौक्ष्म्यमप्युक्तं ब्राह्मणस्य वै ॥
एतेष्वपि हि जातेषु फलजातानि मे शृणु ।
जातस्य पार्थिवैश्वर्यैः सृष्टिरिष्टा विधीयते ॥
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजते प्रजाः ।
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥
पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः । आकाशभूतश्चाकाशे सवर्णत्वात्प्रकाशते ।
वर्णतो गृह्यते चाप्सु नापः पिबति चाशया ॥
न चास्य तेजसां रूपं दृश्यते शाम्यते तथा ।
अहंकारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः ॥
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ।
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते ॥
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ।
यतो निःसरते लोको भवति व्यक्तसंज्ञकः ॥
तत्राव्यक्तमयीं विद्यां शृणु त्वं विस्तरेण मे ।
तथा व्यक्तमयं चैव संख्यापूर्वं निबोध मे ॥
पञ्चविंसतितत्त्वानि तुल्यान्युभयतः समम् ।
योगे साङ्ख्येऽपि च तथा विशेषं तत्र मे शृणु ॥
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् ।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् ।
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥
चतुर्लक्षणजं त्वाद्यं चतुर्वर्गं प्रचक्षते ।
व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत् ॥
सत्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम् ॥
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः ।
विषयात्प्रतिसंहारः साङ्ख्यानां विद्धि लक्षणम् ॥
निर्ममश्चानहंकारो निर्द्वन्द्वश्छिन्नसंशयः ।
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥
आक्रुष्टस्ताडितश्चैव मैत्रीयं ध्याति नाशुभम् ।
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते ।
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥
अलोलुपोऽव्यथो दान्तो नाकृतिर्न निराकृतिः ।
नास्येन्द्रियमनेकाग्रं नाविक्षिप्तमनोरथः ॥
सर्वभूतसदृङ्भैत्रः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥
अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः ।
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ॥
यथा योगाद्विमुच्यन्ते कारणैर्यैर्निबोध तत् ।
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥
इत्येषा भावजा बुद्धिः कथिता ते न संशयः ।
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

12-242-1 उह्येत स्रोतसा यथेति झ. पाठः ॥ 12-242-3 देशकर्मानुरागार्थानुपायेति झ. पाठः ॥ 12-242-4 चक्षुराहारसंहारैरिति झ. पाठः । यच्छेद्वाचं मनो बुद्ध्येति थ. पाठः ॥ 12-242-12 त्यागसूक्ष्मानुग इति झ. ध. पाठः ॥ 12-242-17 निर्मथ्यमानः सूक्ष्मात्मा रूपाण्येतानि दर्शयेत् इति ट. थ. पाठः ॥ 12-242-25 वर्णतो गृह्यते चापि कामात्पिबति चाशयानिति झ. पाठः ॥ 12-242-36 वाङ्भनः कायदण्डानामिति ट. थ. पाठः ॥