अध्यायः 243

भीष्मेण युधिष्ठिरंप्रति भूतेषु तारतम्यकतनपूर्वकज्ञानप्रशंसापरशुकसंबोध्यकव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः ।
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत् ॥
शुक उवाच ।
किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम् ।
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥
व्यास उवाच ।
यस्तु पश्यन्स्वभावेन विनाभावमचेतनः ।
पुष्णाति स पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥
येषां चैकान्तभावेन स्वभावः कारणं मतम् ।
दूर्वातृणवृसीका ये ते लभन्ते न किंचन ॥
येचैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः ।
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥
स्वभावो हि विनाशाय मोहकर्ममनोभवः ।
निरुक्तमेतयोरेतत्स्वभावपरिभावयोः ॥
कृष्यादीनीह कर्माणि सस्यसंहरणानि च ।
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च ॥
आक्रीडानां गृहाणां च गदानामगदस्य च ।
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ॥
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति ।
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥
परावरं तु भूतानां ज्ञानेनैवोपलभ्यते ।
विद्यया तात सृष्टानां विद्यैवेह परा गतिः ॥
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् ।
जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत् ॥
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत् ।
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया ॥
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु ।
बहुषाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च ।
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि तु ।
मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च ।
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च ।
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥
वेदज्ञानि द्वयान्याहुः प्रवक्तृणीतराणि च ।
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥
विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफलाः ।
सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च ।
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥
धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित् ।
सत्याशीः सत्यसंकल्पः सत्यः शुचिरथेश्वरः ॥
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः ।
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥
अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम् ।
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् ।
तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन ॥
आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः ।
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

12-243-3 मुक्तहेतुकानिति झ. पाठः ॥ 12-243-4 पूत्वा तृणमिषीकां वेति झ. पाठः ॥ 12-243-7 सस्यसंग्रहणानि चेति थ. पाठः ॥ 12-243-8 गदानां रोगाणाम् । अगदस्यौषधस्य । अनुष्ठिताः प्रयोजिताः । गतानामागतस्य चेति ट. थ । पाठः ॥ 12-243-9 तुल्यलक्षणाः प्रज्ञाधिक्याद्वैश्वर्याधिक्यभाजः ॥ 12-243-12 यच्चेष्टे विशिष्येत निचेष्टक इति ट. थ. पाठः ॥ 12-243-14 पार्थिवानि पृथिवीचराणि मानुषाणि । इतराणि स्वेचराणि ॥ 12-243-19 सर्वयज्ञाः क्रिया वेदा इति ध. पाठः ॥ 12-243-21 धर्मद्वयं प्रवृत्तिनिवत्तिरूपं । सत्यागीति झ. पाठः । सत्यक्षान्तिः स ईश्वर इति ट.थ. पाठः ॥ 12-243-22 शब्दब्रह्मणि वेदशास्त्रे ॥