अध्यायः 020

युधिष्ठिरंप्रति देवस्थानस्य वचनम् ॥ 1 ॥

वैशंपायन उवाच ।
अस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः ।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥
देवस्थान उवाच ।
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति ।
अत्र ते वर्तयिष्यामि तदेकान्तमनाः शृणु ॥
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ।
तां जित्वा च वृथा राजन्न परित्यक्तुमर्हसि ॥
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता । तां क्रमेण महाबाहो यथावज्जय पार्थिव ।
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः ॥
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथाऽपरे ।
कर्मनिष्ठाश्च बुद्ध्यर्थास्तपोनिष्ठाश्च पार्थिव ॥
वैखानसानां कौन्तेय वचनं श्रूयते यथा ॥
ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी ।
भूयान्दोषो हि वर्धेत यस्तत्कर्म समाश्रयेत् ॥
कृत्स्नं च धनसंहारं कुर्वन्ति विधिकारणात् ।
आत्मना तृपितो बुद्ध्या भ्रूणहत्यां न बुध्यते ॥
अनर्हते यद्ददाति न ददाति यदर्हते ।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥
यज्ञाय सृष्टानि धनानि धात्रा यज्ञादिष्टः पुरुषो रक्षिता च ।
तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः ॥
यज्ञैरिन्द्रो विविधै रत्नवद्भि र्देवान्सर्वानभ्ययाद्भूरितेजाः ।
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥
महादेवः सर्वयज्ञे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव ।
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान्कृत्तिवासाः ॥
आविक्षितः पार्थिवोऽसौ मरुत्तो वृद्ध्या शक्रं योऽजयद्देवराजम् ।
यज्ञे यस्य श्रीः स्वयं सन्निविष्टा यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यभाग्वीतशोकः ।
ऋद्ध्या शक्रं योऽजयन्मानुषः सं स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि विंशोऽध्यायः ॥ 20 ॥

12-20-1 वाक्यान्तरे वाक्यावसरे । अभिनीततरं युक्तिमत्तरम् ॥ 12-20-4 चतुष्पदी चतुराश्रमी ॥ 12-20-5 क्रमाद्ब्रह्मचारियतिगृहस्थवानप्रस्था इत्यर्थः ॥ 12-20-7 धनं हेतुः कारणं यस्य तस्य यज्ञादेर्यज्ञाद्यर्थम् ईहेत धनं तस्यानीहैव गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायात्तमिमं परधर्मं यः क्षत्रिय उपाश्रयेत स दूष्येतेत्याह भूयानिति ॥ 12-20-10 यज्ञार्थमेव आज्ञप्तो वेदेन ॥ 12-20-13 भाण्डमुपकरणं पात्रादि ॥