अध्यायः 245

भीष्मेण युधिष्ठिरंप्रति वर्णाश्रमोचितधर्मानुष्ठानपूर्वकब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्वादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

भीष्म उवाच ।
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् ।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥
शुक उवाच ।
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः ।
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे ॥
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते ।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि ॥
व्यास उवाच ।
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसंत्यागात्सिद्धिं विन्दति कश्चन ॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु ॥
भूमेर्देहो जलास्त्रोतो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुः स्वेष्वाकाशं शरीरिणाम् ॥
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत ॥
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः ।
मनश्चापि सदा भुक्ते भूतात्मा हृदयाश्रितः ॥
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मानसस्तथा ॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥
आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना ।
सत्वं हि तेजः सृजति न गुणान्वै कथंचन ॥
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः ।
मनीषीमनसा विप्रः पश्यत्यात्मानमात्मनि ॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।
मनसा दीपभूतेन महानात्मा प्रकाशते ॥
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् ।
अशरीरं शरीरेषु निरीक्षते निरिन्द्रियम् ॥
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा ॥
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि ।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन ॥
न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किंचित्कुतश्चन ॥
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किंचन ।
यः सहस्र समा गच्छेद्यथा बाणो गुणच्युतः ॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृरत्य तिष्ठति ॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम् ॥
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥
हानिभङ्गविकल्पानां नवानां संचयेन च ।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

12-245-2 अनागतं प्रत्यक्षानुमानाभ्यामज्ञातम् । अनैतिह्यं इदमित्थमिति वेदेनापि न निर्देश्यम् ॥ 12-245-5 विद्यादिपदैः क्रमेणाश्रमचतुष्ट्यधर्मा उक्ताः ॥ 12-245-7 खेषु नासादिरन्ध्रेषु ॥ 12-245-8 क्रान्ते पादे बले पाणौ च विष्णुशक्रौ तत्प्रयोक्तारौ तिष्ठतः । कर्णौ स्थानं श्रोत्रमिन्द्रियं दिशो देवताः । जिह्वा स्थानं वागिन्द्रियं सरस्वती देवता । एतच्चान्यषामपि स्थानादीनामुपलक्षणम् ॥ 12-245-9 आहारः शब्दादिग्रहः ॥