अध्यायः 247
भीष्मेण युधिष्ठिरंप्रति विद्याकर्मस्वरूपादिनिरूपकव्यासवाक्यानुवादः ॥ 1 ॥
शुक उवाच । 
					यदिदं वेदवचनं कुरु कर्म त्यजेति च ।
						कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥
					एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।
						एतच्चान्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ॥
						भीष्म उवाच । 
					इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् ।
						कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥
					यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा ।
						शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम् ॥
					अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत् ।
						तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥
					द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
						प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः ॥
					कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।
						तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
					कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
						विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः ॥
					कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः ।
						तेन ते देहजालानि रमयन्त उपासते ॥
					ये स्म बुद्धिं परां प्राप्ता धमैर्नपुण्यदर्शिनः ।
						न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥
					कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ ।
						विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥
					यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
						न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥
					यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रवम् ।
						अव्याहतमनायासममृतं चावियोगि च ॥
					द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
						समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥
					विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः ।
							विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् ।
						
						`विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् ॥' 
					तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते ।
						नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे ॥
					एकादशविकारात्मा कलासंभारसंभृतः ।
						मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम् ॥
					`तस्मिन्यः संस्थितो ह्यग्निर्नित्यंस्थाल्यामिवाहितः ।
						आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥
					देवो यः संश्रितस्तस्मिन्नब्विन्दुरिव पुष्करे ।
						क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥
					तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम् ।
						जीवमात्मगुणं विद्यादात्मानं प-----नः ॥
					अचेतनं जीवगुणं वदन्ति
							स चेष्टते चेष्टयते च सर्वम्
						
						ततः परं क्षेत्रविदो वदन्ति
							प्राकल्पयद्यो भुवनानि सप्त ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥
12-247-3 क्षराक्षरौ नश्वरानश्वरौ मार्गाविति शेषः । पराशरसुतः शुक मिति ध. पाठः ॥ 12-247-13 यद्याति परमं ब्रह्म पुराणमचलमिति ट.ड. पाठः ॥ 12-247-21 स चेष्टते जीवयते चेति झ. पाठः ॥