अध्यायः 248

शुकप्रति व्यासेन ब्रह्मचर्याश्रमधर्मनिरूपणम् ॥ 1 ॥

शुक उवाच ।
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च ।
बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम् ॥
भूय एव तु लोकेऽस्मिन्सद्वृतिं कालहेतुकीम् ।
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम् ॥
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च ।
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥
लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात् ।
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययं ॥
व्यास उवाच ।
एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः ।
आत्मनश्च हृदि श्रेयो ह्यन्विच्छन्मनसाऽऽत्मनि ॥
वने मूलफलाशी च तप्यन्सुविपुलं तपः ।
पुण्यायतनचारी च भूतानामविहिंसक ॥
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये ।
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥
निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे ।
अरण्ये विचरैकाकी येनकेनचिदाशितः ॥
शुक उवाच ।
यदिदं वेदवचनं लोकवादे विरुध्यते ।
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः ॥
इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम् ।
कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥
भीष्म उवाच ।
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ।
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥
व्यास उवाच ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥
एको वाऽप्याश्रमानेतान्योऽनुतिष्ठेद्यथाविधि ।
अकामद्वेषसंयुक्तः स परत्र महीयते ॥
चतुष्पदी हि निःश्रेयणी ब्रह्मण्येषा प्रतिष्ठिता ।
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः ।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥
जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि ।
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः ।
किंकरः सर्वकारी स्यात्सर्वकर्मसु कोविदः ॥
कर्मातिशेषेण गुरावध्येतव्यं बुभूषता ।
दक्षिणेनोपसादी स्यादाकूतो नुल्माश्रयेत् ॥
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा ।
चक्षुष गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् ।
नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति ।
इदं करिष्ये भगवन्निदं चापि कृतं मया ॥
ब्रह्मंस्तदपि कर्ताऽस्मि यद्भावन्वक्ष्यते पुनः । इति सर्वमनुज्ञाप्य निवेद्य गुरवे पुनः ।
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ।
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते ॥
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ।
ये केचिन्नियमेनोक्ता नियमा ब्रह्मचारिणः ॥
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ।
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ॥
अग्राम्येणा मेष्वेवं शिष्यो वर्तते कर्मणा । वदव्रतोपवासेन चतुर्थे च------- ।
गुरवे दक्षिणां दत्त्वा समावतेद्यथातिधि---- ॥
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यनतः ।
द्वितीयमायुषो भागं गृहमेधी भवेद्व्रती ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

12-248-2 सद्वृत्तिं सतामाचारम् । कालहैतुकीं युगानुसारिणीम् । अनुवर्तितुं पुनः श्रोतुम् । हैतुकीं क्रियाम् इति ट. थ. पाठः ॥ 12-248-3 कुरु कर्म त्यजेति श्रुत्योरेतदेतमविरोधं च कथं विजानीयां विषयविभागेन विविच्य कथं जानीयाम् ॥ 12-248-4 लोकवृत्तान्तो लोकरीतिः तस्य तत्त्वं धर्माधर्ममूलकत्वं तज्ज्ञः । पूतो धर्मानुष्ठानेन । बुद्धिं कृत्वा संस्कृत्य । विमुक्तात्मा त्यक्तदेहः ॥ 12-248-5 एषा कर्मभिर्बुद्धिं संस्कृत्य तयात्मदर्शनमित्येवंरूपा ॥ 12-248-12 गन्धवत्याः योजनगन्धायाः सुतो व्यासः ॥ 12-248-15 चतुष्पदी चातुराश्रम्यरूपा ॥ 12-248-19 कर्मातिशेषेण निःशेषं कर्म कृत्वेत्यर्थः ॥ 12-248-21 अभुक्तवति गुराविति शेषः ॥ 12-248-23 अधीष्वाध्यापय ॥ 12-248-26 समावृत्तः समापितब्रह्मचर्यकृत्यः । विस्तरेणोक्ता इति झ. पाठः ॥ 12-248-27 अनपगः समीपस्थः ॥ 12-248-28 आश्रमादाश्रमेष्वेवमिति झ. पाठः ॥