अध्यायः 249

--------------- प्रतिपादकव्यासयाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
--तीयमायुषो भागं गृहमेधी गृहे वसेत् ।
धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः ॥
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः ।
कुमूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम् ॥
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् ।
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥
षट््कर्मावर्तयत्येकस्त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ॥
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून् ॥
प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति ।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः ॥
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ।
नास्यानश्नन्गृहे विप्रो वसेत्कश्चिदपूजितः ॥
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ।
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ॥
स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥
नखरैः संप्रयातस्य स्वकर्मव्यापकस्य च ।
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीकचारिणः ॥
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते ।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥
विस्साशी भवेन्नित्यं नित्यं चामृतभोजनः ।
असुत --शेषं स्याद्भोजनं हविषा समम् ॥
भृत्यशेष तु योऽश्नाति तमाहुर्विघसा शिनम् ।
विघसं भृत्यशेषं तु यज्ञशेषमथास्मृतय ॥
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः ।
ऋत्विक्पुरोहिताचार्यर्मालुलातिथिनंश्रितैः ॥
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिरान्धवैः ।
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भावया ॥
दुहित्रा दासवर्गेण विवादं न समाचरत् ।
एतान्विमुच्य संवादान्सर्वपापैर्विमुच्यते ॥
एतैर्जितस्तु जयति सर्वाल्लोँकान्न संशयः ।
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥
अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्त्विजः ।
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥
संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ ।
बृद्धबावातुरकृशास्त्वाकाशे प्रभविष्णवः ॥
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम् ॥
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः ।
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥
न चार्थबद्धः कर्माणि धर्मं वा किंचिदाचरेत् ।
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥
परंपरं तथैवाहुश्चातुराश्रम्यमेव तत् ।
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥
कुम्भधान्यैरुच्छशिलैः कापोतीं चास्थितास्तथा ।
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥
दश पूर्वान्दश परान्पुनाति च पितामहान् ।
गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः ॥
स चक्रधरलोकानां सदृशीमाप्नुयाद्गतिम् ।
वितेन्द्रियाणामथवा गतिरेषा विधीयते ॥
सर्वलोको गृहस्थानामुदारमनसां हितः ।
-- विमानसंयुक्तो वेददृष्टः ----- ॥
--लोको गृहस्थानां प्रतिष्ठा निवतात्मनान् । ब्रह्मणा विहिता श्रेणिरेषा पस्पाद्विधीयते ।
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥
अतः परं परममुदारमाश्रम् तृतीयमाहुस्त्यजतां कलेवरम् ।
वनौकसां गृहपतिनामनुत्तमं शृणुष्व संश्लिष्टशरीरकारिणाम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

12-249-2 वृत्तयो जीविकाः ॥ 12-249-3 कापोतीमुञ्छवृत्तिम् ॥ 12-249-4 षट्् यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः कर्म तस्य एको गृहस्थाः त्रिभिर्यजनाध्ययनदानैः । अन्यो वानप्रस्थः द्वाभ्यां दानाध्ययनाभ्याम् । ब्रह्मसत्रे प्रणवोपास्तौ ॥ 12-249-5 अत्र गार्हस्थ्ये ॥ 12-249-6 प्राणी छागादिः । अप्राणी अश्वत्यादिः । यजुषा छेदनमन्त्रेणैव क्रत्वर्थमेव संस्कारमर्हति नतु भक्षणमात्रार्थम् ॥ 12-249-7 अन्तरा भोजनद्वयमध्ये । स्त्रियं मैथुनायेति शेषः ॥ 12-249-10 नखरैर्नखैः । दम्भार्थं नखलोमधरस्य । अपविद्धमविधिना त्यक्तमग्निहोत्रं येन तस्य । एवंविधानां चाण्डालादीनां च भूतानामत्र गार्हस्थ्ये संविभागोऽस्ति ॥ 12-249-11 अपचमानेभ्यो ब्रह्मचारिसंन्यासिभ्यः । तथैव याचमानेभ्य इति ध. पाठः ॥ 12-249-15 जामीभिः सगोत्रस्त्रीभिः ॥ 12-249-16 संवादानंशाद्यर्थं कलहान् ॥ 12-249-17 आचार्यादयः सम्यगाराधिता ब्रह्मलोकादीन् प्रति नयन्तीत्याहाचार्य इति सार्धाभ्याम् ॥ 12-249-20 कृपणं कृपास्थानमिति रत्नगर्भः ॥ 12-249-22 नचेति । अर्थाशयाऽग्निहोत्रादीन्न कुर्यात् । तिस्रो वक्ष्यमाणाः कुम्भधान्यमुञ्छशिलं कापोतीं च तासां परमुत्तरमुत्तरं श्रेयः ॥ 12-249-23 चातुराश्रम्यमध्येऽपि परं परं श्रेयः ॥ 12-249-26 चक्रधराश्चक्रवर्तिनो मान्धात्रादयस्तल्लोकानां सदृशीं गतिं तत्तुल्यताम् ॥ 12-249-27 सुपुष्पितो रमणीयः ॥ 12-249-29 गृहपतिनां हस्वत्वमार्षम् । गृहस्थेभ्यः श्रेष्ठं संश्लिष्टमस्थिचर्ममात्रसंश्लेषवत् तच्च तच्छरीरं च तस्य कारिणां शरीरशोषकाणामित्यर्थः । शरीरकर्मणामिति ध. पाठः ॥