अध्यायः 253

भीष्मेण युधिष्ठिरंप्रति अध्यात्मविषयकव्यासवाक्यानुवादः ॥ 1 ॥

शुक उवाच ।
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे ।
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम ॥
व्यास उवाच ।
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते ।
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु ॥
भूमिरापस्तथा ज्योतिर्वायुराकाश एव च ।
महाभूतानि भूतानां सागरस्योर्मयो यथा ॥
प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः ।
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् ।
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा ॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥
शुक उवाच ।
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् ।
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥
व्यास उवाच ।
एतत्ते वर्तयिष्यामि यथावदनुपूर्वकः ।
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत् ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।
प्राणश्रेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः ॥
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
`श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः । वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥
मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः ।
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः ॥
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥
यदूर्ध्वं पादतलयोरवाङ्भूर्ध्नश्च पश्यति ।
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा ॥
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनः षष्ठानि सर्वाणि बुद्ध्य भावे कृतो गुणाः ॥
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥
चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥
रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत् ॥
यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥
यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः ॥
अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥
तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता ।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिपञ्चशदधिकद्विशततमोऽध्यायः ॥ 253 ॥

12-253-3 मिभूतानि भूतानामिति ध. पाठः ॥ 12-253-6 सुरनरतिर्यगादिरूण वैषम्यमकरोत् । तत्र हेतुः । यस्मिन्कर्मणि निमित्ते सति यदनुपश्यति अन्तकाले । यंयं वापि स्मरन् भावं त्यजत्यन्ते परम् ॥ तंतमेवैतीति स्मृतेः ॥ 12-253-9 पर्शः स्पर्शनेन्द्रिय --- युगुणा वायु---॥ 12-253-10 विपाको जाठरः ॥ 12-253-11 शरीरं कठिनांशबाहुल्यात्पार्थिवम् । इन्द्रियग्रामैः सह पाञ्चभौतिक्रो विकारः ॥ 12-253-12 स्पर्शादयो वाय्वादीनां गुणास्तद्विकारैः स्पर्शनादीन्द्रियैर्गृह्यन्ते । वायोः प्राण इति ध. पाठः ॥ 12-253-13 एतेत्मयोनिजा इति थ. पाठः ॥