अध्यायः 021

युधिष्ठिरंप्रति देवस्थानस्य वचनम् ॥ 1 ॥

देवस्थान उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ॥
संतोषो वै स्वर्गसमः संतोषः परमं सुखम् ।
तुष्टेर्न किंचित्परतः सा सम्यक्प्रतितिष्ठति ॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।
तदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति ॥
न विभेति यदा चायं यदा चास्मान्न बिभ्यति ।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति ॥
यदाऽसौ सर्वभूतानां न द्रुह्यति न काङ्क्षति ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
एवं कौन्तेय भूतानि तंतं धर्मं तथातथा ।
तदाऽऽत्मना प्रपश्यन्ति तस्माद्वुध्यस्व भारत ॥
अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ।
नैकं न चापरं केचिदुभयं च तथाऽपरे ॥
यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः । `नैकं न चापरं केचिदुभयं च तथाऽपरे ॥'
दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम् ।
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥
राज्यमेके प्रशंसन्ति प्रजानां परिपालनम् ।
हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः ॥
एतत्सर्वं समालोक्य बुधानामेव निश्चयः ।
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥
अद्रोहः सत्यवचनं संविभागो दया दमः ।
प्रजनं स्वेषु दारेषु मार्दवं हीरचापलम् ॥
एवं धर्मं प्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत् ।
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालय ॥
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः ।
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित् ॥
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः ।
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः ॥
पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयेत् ।
विधानमाश्रमाणां वै कुर्यात्कर्माण्यतन्द्रितः ॥
य एवं वर्तते राजन्स राजा धर्मनिश्चितः ।
तस्यायं च परश्चैव लोकः स्यात्संफलोदयः ॥
निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम् ॥
एवं धर्ममनुक्रान्ताः सत्यदानतपः पराः ।
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥
प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः ।
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥
एवं रुद्राः सवसवस्तथाऽऽदित्याः परंतप । साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः ।
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

12-21-3 यदा प्रसीदति तदा तुष्टिः प्रतितिष्ठतीति पूर्वेण संबन्धः ॥ 12-21-7 साम प्रीतिम् । व्यायामं यत्नम् ॥ 12-21-12 प्रजने पुत्रोत्पादनम् ॥ 12-21-15 प्रग्रहे संग्रहे ॥