अध्यायः 257

भीष्मेण युधिष्ठिरंप्रति साधनसामग्रीप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
---गन्धान्रसान्नानुरुन्ध्यात्सखं वा --------कीर्ति च यशश्च नच्छ- ।
----- वै प्राचरः पश्यतो ब्राह्मणस्य ॥
----नधीयीत शुश्रूषुर्ब्रह्मचर्यवान् ।
ऋवो यजूंषि सामानि वेदवेदाङ्गपारगः ॥
ज्ञानी यः सर्वभूतानां सर्ववित्सर्वभूतवित् ।
नाकामो म्रियते जातु------------- ॥
इष्टी------श्राप्य क्रतूश्चवाप्तदाक्षणान् ।
प्राप्नोति नैव ब्राह्मण्यमविज्ञानात्कथंचन ॥
यदा चायं न बिभेति यदा चास्मान्न बियति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
कामबन्धनमेवेदं नान्यदस्तीह बन्धनम् ।
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥
कामतो मुच्यमानस्तु धूमाभ्रादिव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामः ॥
क कामकान्तो न तु कामकामः स वै कामात्स्वर्गमुपैति देही ॥
वेदस्योपनिपद्दानं दानस्योपनिषद्दमः ।
दमस्योपनिपद्दानं दानस्योपनिपत्तपः ॥
तपसोपनिपत्त्यागस्त्यागस्योपनिपत्सुखम् ।
सुखस्योपनिपत्स्वर्गः स्वर्गस्योपनिपच्छमः ॥
क्लेदनं शोकमनसोः संतीर्णं तृष्णया सह ।
सत्वमृच्छति संतोपाच्छान्तिलक्षणमुत्तमम् ॥
विशोको निर्ममः शांतः प्रशांतात्माऽत्मविच्छुचिः ।
पङ्गिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥
पङ्भिः सत्वगुणोपेतैः प्राज्ञैरधिगतं त्रिभिः ।
ये विदुः प्रत्यगात्मानमिहस्थानमृतान्विदुः ॥
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् ।
अध्यात्मवित्कृतप्रज्ञः सुखमव्ययमश्नुते ॥
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्याऽऽत्मनोन्यथा ॥
येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान् ।
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥
असङ्गो ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् ।
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥
समाहितं परे तत्त्वे क्षीणकाममवस्थितम् ।
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥
अविशेषाणि भूतानि गुणांश्च जहतो मुनेः ।
सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् ।
ब्राह्मणं विपयाश्लिष्टं जरामृत्यू न विन्दतः ॥
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते ।
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् ।
पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

12-257-9 सकामकामो नतु कामकामः स वै लोकं स्वर्गमुपैति देहीति ट. ड. पाठः ॥ 12-257-16 अध्यात्मसुकूतप्रज्ञमिति ट.ड. पाठः ॥