अध्यायः 258

भीष्मेण युधिष्ठिरंप्रति आकाशादिभूतगुणादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः ।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥
आकाशं मारुतो ज्योतिरा--पृथ्वी च पञ्चमी ।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् ।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित् ॥
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् ।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान् ॥
प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते । [असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम् ॥]
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥
संघातः पार्थिवो धातुरस्थिदन्तनखानि च ।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च ॥
इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता ।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥
उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः ।
पञ्चानां भूतसङ्घानां संततिं मुनयो विदुः ॥
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता ।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते ॥
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् ।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः ॥
एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम् ।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥

12-258-1 द्वन्द्वान्निर्मोक्षजिज्ञासुरिति ध. पाठः ॥ 12-258-9 उत्तरेषु भूतेषु पूर्वभूतगुणाः सन्ति ॥ 12-258-11 मनोव्याहरणात्मकमिति ट. थ. पाठः ॥