अध्यायः 260

भीष्मेण युधिष्ठिरंप्रति कामादिशक्तिप्रतिपादनपूर्वकतज्जयोपायप्रतिपादनपरव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः ।
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः ॥
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् ।
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान् ॥
संमोहचिन्ताविटपः शोकशाखो भयाङ्कुरः ।
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः ॥
उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः ।
आयतैः संयुताः पाशैः फलदं परिवेष्ट्य तम् ॥
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति ।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः ॥
संरोहत्यकृतप्रज्ञः ससत्वो हन्ति पादपम् ।
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम् ॥
तस्यानुगतमूलस्य मूलमुद्भियते बलात् ।
योगप्रसादात्कृतिना साम्येन परमासिना ॥
एवं यो वेद कामस्य केवलं परिसर्पणम् ।
एतच्च कामशास्त्रस्य सुदुःखान्यतिवर्तते ॥
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते ।
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः । तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा ।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः ॥
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ।
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते ॥
पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः ।
यदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति ॥
`पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात्' ।
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥
पृथग्भूतं मनो बुद्ध्या मनो भवति केवलम् ।
तत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते ॥
तन्मनः कुरुते सख्यं रजसा सह संगतम् ।
तं चादाय जनं पौरं रजसे संप्रयच्छति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥

12-260-1 विधित्सा परिषेचन इति झ. पाठः ॥ 12-260-3 शोकशाखाभयंकर इति ड. थ. पाठः ॥ 12-260-4 फलादायिभिरन्वित इति ध. पाठः । पाशैः फलानि परिभक्षयन्निति ड. थ. पाठः ॥ 12-260-5 त्यागप्रमाद कृतिनेति ड. थ. पाठः ॥