अध्यायः 262

भीष्मेण युधिष्ठिरंप्रति नारदाकम्पनसंवादानुवादः ॥ 1 ॥ नारदेनाकम्पनं प्रति स्थाणुप्रजापतिसंवादानुवादारम्भः ॥ 2 ॥

युधिष्ठिरं उवाच ।
य इमे पृथिवीपालाः शेरते पृथिवीतले ।
पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥
एकैकशो भीमबला नागायुतबलास्तथा ।
एते हि निहताः सङ्ख्ये तुल्यतेजीबलैर्नरैः ॥
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा ।
विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः ॥
अथ चेमे महाप्राज्ञाः शेरते हि गतासवः ।
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥
इमे मृता नृपतयः प्रायशो भीमविक्रमाः ।
तत्र मे संशयो जातः कुतः संज्ञा मृता इति ॥
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः ।
हरत्यमरसंकाश तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
पुरा कृतयुगे तात राजा ह्यासीदकम्पनः ।
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः ॥
तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ॥
स राजा शत्रुवशगः पुत्रशोकसमन्वितः ।
यदृच्छया शान्तिपरो ददर्श भुवि नारदम् ॥
तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः ।
शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ॥
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥
नारद उवाच ।
राजञ्शृणु महाख्यानं ममेदं बहुविस्तरम् ।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः ।
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥
न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत ।
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते ।
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥
तस्य रोपान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
तेन सर्वा दिशो राजन्ददाह स पितामहः ॥
ततो दिवं भुवं खं च जगच्च सचराचरम् ।
ददाह पावको राजन्भगवत्कोपसंभवः ॥
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च ।
महता क्रोधवेगेन कुपिते प्रपितामहे ॥
ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः ।
जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम् ॥
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥
करवाण्यद्य कं कामं व्नरार्होऽसि मतो मम ।
कर्ता ह्यसि प्रियं शंभो तव यद्धृदि वर्तते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥

12-262-1 गतसंज्ञा महाबला इति थ. पाठः ॥ 12-262-16 खेभ्य इन्द्रियच्छिद्रेभ्यः ॥ 12-262-17 खं खस्थं ग्रहनक्षत्रादि ॥ 12-262-19 स्थाणुः श्मशाननिलयः शिव इति ड. थ. पाठः ॥