अध्यायः 267

भीष्मेण युधिष्ठिरंप्रति जाजलिचरित्रकथनारम्भः ॥ 1 ॥ धार्मिकंमन्येन जाजलिना खेचरकृतावज्ञया तुलाधारसमीपगमनम् ॥ 2 ॥

भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः ।
सागरोद्देशमागम्य तपस्तेपे महातपाः ॥
नियतो नियताहारश्चीराजिनजटाधरः ।
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥
स कदाचिन्महातेजा जलवासो महीपते ।
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥
स चिन्तयामास मुनिर्जलमध्ये कदाचन ।
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे ।
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥
स दृश्यमानो रक्षोभिर्जलमध्ये च भारत ।
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥
अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि । तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः ।
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥
इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात् ।
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम् ॥
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा ।
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम् ॥
युधिष्ठिर उवाच ।
किं कृतं दुष्करं तात कर्म जाजलिना पुरा ।
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
अतीव तपसा युक्तो घोरेण स बभूव ह ।
नद्युपस्पर्शनपरः सायंप्रातर्महातपाः ॥
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः ।
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया ॥
वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत ।
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः ॥
वातातपसहो ग्रीष्मे न चाधर्ममविन्दत ।
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः ।
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः ॥
आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो ।
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः ॥
स कदाचिन्निराहारो वायुभक्षो महातपाः ।
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत ।
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥
स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दंपती ।
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः ॥
यदा न स चलत्येव स्थाणुभूतो महातपाः ।
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा ॥
अतीतास्वथ वर्षासु शरत्काल उपस्थिते ।
प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥
तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ ।
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥
बुद्ध्वा च स महातेजा न चचाल च जाजलिः ।
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत् ॥
अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि ।
आश्वासितौ निवसतः संप्रहृष्टौ तदा विभौ ॥
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः ।
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥
स रक्षमाणस्त्वण़्डानि कुलिङ्गानां धृतव्रतः ।
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥
ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः ।
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान् ॥
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः ।
बभूव परमप्रीतस्तदा मतिमतां वरः ॥
तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम् ।
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् ।
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् ।
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः ॥
तथा ते दिवसं चापि गत्वा सायं पुनर्नृप ।
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥
कदाचिद्दिवसान्पञ्च समुत्पत्य विहगमाः ।
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥
क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ ।
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा ॥
कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः ।
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः ।
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः ।
संभावितात्मा संभाव्य भृशं प्रीतस्तदाऽभवत् ॥
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् ।
उदयन्तमथादित्यमभ्यागच्छन्महातपाः ॥
संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः ।
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥
अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः ।
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥
सोमर्षवशमापन्नस्तुलाधारदिदृक्षया ।
पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः ॥
कालेन महताऽगच्छत्स तु वाराणसीं पुरीम् ।
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः ।
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥
तुलाधार उवाच ।
आयानेवासि विदितो मम ब्रह्मन्न संशयः ।
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् ।
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन ॥
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः ।
क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया ॥
जातपक्षा यदा ते च गता संचरितुं ततः । मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ।
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह ।
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ 267 ॥

12-267-1 जांजलिना सहेति ड. थ. पाठः । तुलाधारवाक्यानि धर्मे प्रमाणत्वेनोदाहरन्तीत्यर्थः ॥ 12-267-4 प्रेक्षमाणो महाजलमिति ध. पाठः ॥ 12-267-5 जलध्ये महीं विप्रेक्ष्य तपोबलाद्दूरदर्शनादिसिद्धिं प्राप्येत्यर्थः ॥ 12-267-6 वैहायसमाकाशमतं ग्रहनक्षत्रादि गच्छेत् अवगच्छेत् । मया सह गच्छेशः सोऽन्यः कोस्तति योज्यम् ॥ 12-267-13 उपस्पशंनरतः स्रामाचमनरतः ॥ 12-267-14 स्त्रिया वेदविद्यया ॥ 12-267-18 अमलसंयुतः निष्पापः ॥ 12-267-21 उपप्रैक्षतोपेक्षांचक्रे । न वारितवानित्यर्थः ॥ 12-267-23 प्राजापत्येन गर्भाधानविधिना ॥ 12-267-29 ते शकुन्तकाः पक्षिणः पक्षवन्तो बभूवुः ॥ 12-267-30 पक्षीन् । आर्षो मत्वर्थीय इः ॥ 12-267-32 द्विजान् शकुन्तान् ॥ 12-267-38 प्रलीनेषु प्रडीनेषु । मानो गर्वः ॥ 12-267-41 संभाव्य वर्धयित्वा । आस्फोटयद्वाहुशब्दमकरोत् ॥ 12-267-46 भाण्डं मूलवणिग्धनं तेन जीवनं यस्य ॥ 12-267-47 आयानागच्छन् । आगतेनासि विदित इति थ. पाठः ॥ 12-267-48 सागरानूपं सागरसमीपस्थं सजलं प्रदेशम् ॥