अध्यायः 268

तुलाधारेण जाजलये धर्मरहस्योपदेशः ॥ 1 ॥

भीष्म उवाच ।
इत्युक्तः स तदा तेन तुलाधारेण धीमता ।
प्रोवाच वचनं धीमाञ्जाजलिर्जपतांवरः ॥
जाजलिरुवाच ।
विक्रीणतः सर्वरसान्सर्वगन्धांश्च वाणिज ।
वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥
अग्र्या सा नैष्ठिकी बुद्धिः कुतस्त्वामियमागता ।
एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥
भीष्म उवाच ।
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना ।
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ॥
वेदाहं जाजले धर्मं सरहस्यं सनातनम् ।
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् ।
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥
रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम् ।
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः ।
कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये । समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम् ।
तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये ।
आकाशस्येव विप्रेन्द्र पश्यँल्लोकस्य चित्रताम् ॥
`कृपा मे सर्वभूतेषु समा तिष्ठति जाजले । इष्टानिष्टनियुक्तस्य प्रियद्वेषौ बहिष्कृतौ ॥'
इति मां त्वं विजानीहि सर्वलोकस्य जाजले ।
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥
यथाऽन्धबधिरोत्मत्ता उच्छ्वासपरमाः सदा ।
देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥
यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति ।
तथाऽर्थकामभोगेषु ममापि विगता स्पृहा ॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
न भूतो न भविष्योऽस्ति न च धर्मोस्ति कश्चन ।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव ।
वाक््क्रूराद्दण्डपरुषात्स प्राप्नोति महद्भयम् ॥
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् ।
अनुवर्तामहे वृत्तमहिंस्त्राणां महात्मनाम् ॥
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः ।
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते ॥
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् ।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥
नद्यां चेह यथा काष्ठमुह्यमानं यदृच्छया ।
यदृच्छयैव काष्ठेन सन्धि गच्छेत केनचित् ॥
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः ।
तृणकाष्ठकरीपाणि कदाचिन्न समीक्षया ॥
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव ।
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ।
सहायवान्द्रव्यवान्यः सुभगोऽथ परस्तथा ॥
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ।
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा ।
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् ।
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ॥
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन । यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने ॥
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।
न स धर्ममवाप्नोति इह लोके परत्र च ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैपिणः ॥
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् ।
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले ॥
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः ।
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥
अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले ।
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः ।
उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥
ये च च्छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् । वहन्ति महतो भारान्बध्नन्ति दमयन्ति च ।
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे ॥
मानुषा मानुपानेव दासभोगेन भुञ्जते ।
वधबन्धनिरोधेन कारयन्ति दिवानिशम् ॥
आत्मनश्चापि जानाति यद्दुःखं वधबन्धने ।
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् ॥
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ।
तानि जीवानि विक्रीय का मृतेषु विचारणा ॥
अजोऽग्निर्वरुणो मेपः सूर्योऽश्वः पृथिवी विराट् ।
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति ॥
का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा ॥
अदंशमशके देशे सुखसंवर्धितान्पशून् ।
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ॥
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान् ।
वाहसंपीडिता धुर्याः सीदन्त्यविधिना परे ॥
न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा ।
कृपिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ॥
भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः ।
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान् ॥
अध्न्या इति गवां नाम क एता हन्तुमर्हति ।
महच्चकाराकुशलं वृथा यो गां निहन्ति ह ॥
ऋपयो यतयो ह्येतन्नहुपे प्रत्यवेदयन् । गां मातरं चाप्यवधीर्वृपभं च प्रजापतिम् ।
अकार्यं नहुपाकापींर्लप्स्यामस्त्वत्कृते व्यथाम् ॥
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् ।
ऋपयस्ते महाभागाः प्रशस्तास्ते च जाजले ॥
भ्रृणहं नहुषं त्वाहुर्न तं भोक्ष्यामहे वयम् । इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः ।
ऋषयो यतयः शान्तास्तपसा प्रत्येषधयन् ॥
ईदृशानशिवान्घोरानाचारानिह जाजले ।
केवलाचरितत्वात्तु निपुणो नावबुध्यसे ॥
कारणाद्धर्ममन्विच्छन्न लोकं विरसं चरेत् ॥
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले । समौ तावपि मे स्थातां न हि मे स्तः प्रियाप्रिये ।
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥
उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते ।
सततं धर्मशीलैश्च निपुणेनोपलक्षितः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥

12-268-2 वाणिज वणिक्पुत्र ॥ 12-268-3 अध्यगा नैष्ठकीं बुद्धिं कुतस्त्वामिदमागतमिति झ. पाठः ॥ 12-268-7 पद्मकं तुङ्गं च काष्ठविशेषौ । कस्तूर्यादीन्गन्धान् ॥ 12-268-8 रसान् लवणादीन् ॥ 12-268-16 न द्वेष्टि ब्रह्म संपद्यते तदेति झ. पाठः ॥ 12-268-26 दृष्टान्ते वडवाग्निः ॥ 12-268-33 सम्यग्भृतानि पश्यत इति ध. पाठः ॥ 12-268-35 व्यापत्ति नाशम् । कर्मणां कर्मफलानां स्वर्गादीनाम् ॥ 12-268-36 अकारणः कारणमनुष्ठानप्रयोजकं फलं तद्धीनः ॥ 12-268-38 यदुक्तमलक्तपद्मकादीन्यपण्यानि विक्रीणासीति तत्राह येचेति । नस्तकान् नासागर्भान् । वहन्ति वाहयन्ति ॥ 12-268-39 दासभावेन भुञ्जते इति झ. पाठः ॥ 12-268-45 अविधिना कत्वर्थापि हिंसा दोपावहा किमुताऽकत्वर्थेत्यर्थः ॥ 12-268-47 भूमिशयान्सर्पादीन् । अयोमुखं काष्ठं लाङ्गलम् ॥ 12-268-48 न हन्तुं शक्या अध्न्या इति योगाद्गवमावध्यत्वं श्रौतमित्यर्थः ॥ 12-268-50 नहुपकृता गोवृपहत्या सर्वभूतेष्वेकाधिकशतरोगरूपेण क्षिप्तत्यर्थः ॥ 12-268-51 एवमुक्त््वापि तपसा ध्यानेन तं प्रत्यवेदयन् प्रतीपमवेदयन् । हन्तारमपि धीपूर्वमहन्तारं नहुपं ध्यानबलेन ज्ञात्वा तथैव लोकेऽपि प्रमादात्कृतोऽपि गोवधो व्याधिरूपेण सर्वलोकापकारायाभृत किमुत बुद्धिपूर्वं कुत इति ज्ञापितवन्त इत्यर्थः ॥ 12-268-52 केवलेति पूर्वैः कृत इत्यन्धपरंपरामात्रात्करोपि नतु तत्त्वबुद्ध्या ॥