अध्यायः 273

भीष्मेण युधिष्ठिरंप्रति प्रजापालनप्रकारप्रतिपादकद्युमत्सेनसत्यवत्संवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।
वधाय नीयमानेषु पितुरेवानुशासनात् ॥
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् ।
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥
द्युमत्सेन उवाच ।
अथ चेदवधो धर्मोऽधर्मः को जातुचिद्भवेत् ।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।
लोकयात्रा न चैव स्यादश्च चेद्वेत्थ शंस नः ॥
सत्यवानुवाच ।
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।
धर्मपाशनिबद्धानां नाल्पोऽप्यपचरिष्यति ॥
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥
तत्त्वाभावेन यच्छास्त्रं तत्कुर्यान्नान्यथा वधः । असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ।
दस्यून्निहन्ति वै राजा भूयसो वाऽप्यनागसः ॥
भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते ।
परेणापकृतो राजा तस्मात्सम्यक्प्रधारयेत् ॥
असाधुश्चैव पुरुषो लभते शीतमेकदा ।
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजाः ॥
न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥
उद्वे तेन बन्धेन विरूपकरणेन च ।
वधदण्डेन क्लिश्या न पुरोहितससदि ॥
यदा पुरोहितं वा ते पर्येयुः शरणैपिणः ।
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥
तदा विसर्गमर्हाः स्युरितीदं धातृशासनम् ।
विभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम् ॥
गरीयांसो गरीयांसमपराधे पुनः पुनः ।
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥
द्युमत्सेन उवाच ।
यत्रयत्रैव शक्येरन्संयन्तुं समये प्रजाः । स तावान्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ।
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ॥
पूर्वे पूर्वतरे चैव सुशास्या ह्यभवञ्जनाः ।
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ॥
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ।
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ॥
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।
न गन्धर्वपितृणां च कः कस्येह न कश्चन ॥
पक्वं श्मशानादादत्ते पिशाचांश्चापि दैवतम् ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥
सत्यवानुवाच ।
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।
कस्यचिद्भूतभव्यस्य लोभेनान्तं तथा कुरु ॥
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।
तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥
वित्रास्यमानाः सुकृतो न कामाद्धन्ति दुष्कृतीन् ।
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥
श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते ।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥
द्युमत्सेन उवाच ।
आत्मानमसमाधाय समाधित्सति यः परान् ।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् ।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥
आत्मैवादौ नियन्तव्यो दुष्कृंतं संनियच्छता ।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥
`यो राजा लोभमोहेन किंचित्कुर्यादसांप्रतम् । सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥'
यत्र वै पापकृन्नीचो न महद्दुःखमर्च्छति ।
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्नुवम् ॥
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् । इति चैवानुशिष्टोऽस्मि पूर्वैस्तातपितामहैः ।
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥
एतत्प्रथमकल्पेन राजा कृतयुगे जयेत् । पादोनेनापि धर्मेण गच्छेत्रेतायुगे तथा ।
द्वापरे तु द्विपादेन पादेन त्ववरे युगे ॥
तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह ।
भवेत्कालविशेषेण कला धर्मस्य पोडशी ॥
अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥

12-273-3 अव्याहृतं दण्ड्यानामप्यदण्ड्यत्वं प्राक्केनाप्यनुक्तम् । वधाय वष्येष्विति शेषः ॥ 12-273-4 वधो नाम स च धर्म इति वदतोव्याघात इत्यर्थः ॥ 12-273-8 अपचरेद्ब्राह्मणवचनमतिक्रामेत् । प्रधारयेद्दण्डम् । अधर्मेण शृणोतीति ट. थ. पाठः ॥ 12-273-10 अनपराधिवधात् जन्मन्यस्मिन्नेव पापं फलतीत्याह भार्येति ॥ 12-273-11 साधोः सकाशात् शीलं लभते ॥ 12-273-14 ते दस्यवः ॥ 12-273-15 बिभ्रदिति संन्यासिनोऽपि शास्यां इत्यर्थः ॥ 12-273-16 गरीयांसमपि शास्युरिति शेषः । पुनःपुनरपराधे कृते तदा ते विसर्गं नार्हन्ति । प्रथमापराथे इवेति व्यतिरेकदृष्टान्तः ॥ 12-273-18 धर्मोल्लङ्घनेऽप्यहन्यमानेषु चोरेषु पूर्वे पूर्वकाले ॥ 12-273-19 अद्य कलौ ॥ 12-273-21 नैव दस्युषु दया कार्येत्याह । नैवेति । कः कस्येहेति प्रश्नः । न कश्चन कस्यापीत्युत्तरम् ॥ 12-273-22 चोरेषु मर्यादाकरणमपि न संभवतीत्याह पक्कमिति । तेषु समयं शास्त्रमर्यादां यः कुर्वीत स पक्वं श्मशानादादत्ते पिशाचान् दैवतत्वेन गृह्णाति । पात्रं श्मशानादिति ड. पाठः । पद्मं श्मशानादिति झ. पाठः । तत्र पद्मं शवालंकारमित्यर्थः ॥ 12-273-23 लाभेनाथ तथा कुर्विति ड. पाठः ॥ 12-273-24 ते राजानस्तादृग्भ्यः स्तेनेभ्योऽपत्रपन्ते ममापि राज्ये स्तेन इति लज्जां कुर्वतेऽतस्यथा वृत्ता लोकयात्रार्थं प्रजानां निर्दोषत्वं कामयानाः पितर इव तपस्विनो भवन्ति ॥ 12-273-25 वित्रास्यमाना इति त्रासेनैव प्रजाः साध्व्यो भवन्ति ॥ 12-273-29 दुष्कृतं दुष्टकर्मकारिष्यम् ॥ 12-273-32 आश्वासयद्भिः द्रजा इति शेषः ॥ 12-273-33 एतद्भूमण्डलं प्रथमकल्पने मुख्येवार्हिसाभवेन दण्डेन जयेद्वशीकुर्यात् । धिग्दण्डं वाग्दण्डमादातदण्डं वधृदण्डं च युगक्रमेण प्रजासु प्रवर्णयेदिति तात्पर्यम् ॥ 12-273-35 निर्दिश्य निश्चित्य । तपोदण्डम् । राजभिः कृतदण्डास्तु सुच्द्यन्ति गलिना जाना इति दण्डस्यापि तपोवच्छुद्धिहेतुत्वस्मृतेः ॥ 12-273-36 सत्याय ब्रह्मप्राप्तये । हि प्रतिद्धम् । महद्धमंफलं ज्ञानम् । गया येन प्रकारेणेह न जह्यात्तादृशमहिंसाख्यं धर्मं मनुरब्रवीत् ॥