अध्यायः 274
भीष्मेण युधिष्ठिरंप्रति फलानिच्छया यज्ञादेः
कर्तव्यताप्रतिपादकगोकपिलसंवादानुवादः ॥ 1 ॥
अविरोधेन भूतानां त्यागः षाङ्गुण्यकारकः ।
यः स्यादुमयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥
गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः ।
अदूरसंप्रस्थितयोः किंस्विच्छ्रेयः पितामह ॥
भीष्म उवाच ।
उभौ धर्मौ महाभागावृभौ परमदुश्चरौ ।
उभौ नहाफलौ तौ तु सद्भिराचरितावुभौ ॥
अव ते वर्तयिष्यासि प्रामाण्यमुभयोस्तयोः ।
शुणुष्वैकमताः पार्थ च्छिन्नधर्मार्थसंशयम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् ।
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥
तां नियुक्तामदीनात्मा सत्वस्थः संयमे रतः ।
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा ॥
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् ।
स्वरेण शिथिलां सत्यां वेदा 3 इत्यब्रवीत्सकृत् ॥
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् ।
हंहो वेदा 3 यदि मता धर्माः केनापरे मताः ॥
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः ।
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः ।
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वतः ॥
कपिल उवाच ।
नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित् ।
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति ।
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः ।
नैषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम् ॥
एवं विदित्वा सर्वार्थानारभेतेति वैदिकम् ।
नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥
अनारम्भे ह्यदोषः स्यादारम्भे दोष उत्तमः ।
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥
यदत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम् ।
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥
स्यूमरश्मिरुवाच ।
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः ।
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥
अजश्चाश्वश्च मेषश्च र्गौश्च पक्षिगणाश्च ये ।
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः ॥
तथैवान्नं ह्यहरहः सायंप्रातर्निरूप्यते ।
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥
एतानि सह यज्ञेन प्रजापतिरकल्पयत् ।
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ॥
तदन्योन्यवराः सर्वे प्राणिनः सप्तसप्त च ॥
`गौरजो मनुजः श्वा वा अश्वाश्वतरगर्दभाः ।
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ।
हरिणः शललाश्चैव सप्तारण्यास्तथा स्मृताः ॥'
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् ॥
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा ।
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह ।
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गोस्ति ते मखात् ॥
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि ।
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥
ऋचो यजूंषि सामानि ऋत्विजश्चापि षोडश ।
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ॥
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा ॥
बालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ।
एवं प्रत्यकेशः सर्वं यद्यदस्य विधीयते ॥
यज्ञं वहन्ति संभूय सहत्विंग्भिः सदक्षिणैः ।
संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥
यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः ।
एवं पूर्वतराः पूर्वे प्रवृत्ताश्चैव मानवाः ॥
न हिनस्ति नारभते नाभिद्रुह्यति किंचन ।
यज्ञैर्यष्टव्यमित्येव यो यजत्यफलेप्सया ॥
यज्ञाङ्गान्यपि चैतानि यथोक्तान्यपि सर्वशः ।
विधिना विधियुक्तानि तारयन्ति परस्परम् ॥
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः ।
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च ।
अनुयज्ञं जगत्सर्वं यज्ञश्चानुजगत्सदा ॥
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् ।
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥
न तस्य त्रिषु लोकेषु परलोकभयं विदुः ।
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥
ऋचो यजूंहि सामानि स्तोत्राश्च विधिचोदिताः ।
यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः ॥
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज ।
यच्चेतरैर्महायज्ञैर्वेद तद्भगवांस्तथा ॥
तस्माद्ब्रह्मन्यजेच्चैव याजयेच्चाविचारयन् ।
यजतो यज्ञविधिना प्रेत्य स्वर्गफलं महत् ॥
नायं लोकोस्त्ययज्ञानां परश्चेति विनिश्चयः ।
वेदवादविदश्चैव प्रमाणमुभयं तदा ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥
12-274-1 योगः पाङ्गुण्यकारित इति ड. पाठः ॥ 12-274-3 उभौ
गार्हस्थ्ययोगधर्मौ ॥ 12-274-6 त्वष्टुस्त्वष्ट्रे गृहागताय मधुपर्के गामालेभे ।
यष्टुं गामितीति ट. थ. पाठः ॥ 12-274-7 नियुक्तां हन्तुं पुरस्कृतां दृष्ट्वा
वेदा इत्यव्रवीदिति द्वयोः संबन्धः ॥ 12-274-8 वेदा इति गर्हायां प्लुतिः ॥ 12-274-9 प्रविश्य योगबलेनेत्यर्थः । यतिं कपिलमुनिम् । हंहो इति विस्मये । वेदा
यदि मताः गर्हितत्वेन संमताः । अत्रापि गर्हार्थायाः प्लुतेरनुवादः । अपरे
हिंसाशून्याधर्माः केन मताः । प्रामाण्यमप्रामाण्यं वा
कर्मज्ञानकाण्डयोस्तुल्यमतो नान्यतरन्निन्देत्प्रशंसेद्वेति भावः ॥ 12-274-10
विलक्षणपुरुषस्य भाषितं सत्यमिति जना मन्यन्ते । किं विदितात्मनः नित्यज्ञानवतः
परमेश्वरस्य व्याहृतम् ॥ 12-274-12 विवक्ष्यामि विषमान् वक्ष्यामि ॥ 12-274-13
एकार्थत्वमाह गच्छत्येवेति । परित्यागी संन्यासी । गच्छत्येव परं पदमिति शेषः ॥ 12-274-14 देवयानाः देवमात्मानं यान्त्येभिरिति तथाभूताश्चत्वार आश्रमाः ॥ 12-274-22 तस्माद्यागपराः सर्वे इति ध. पाठः ॥ 12-274-34 नापि दूह्यति किंचनेति
ट. ड. पाठः ॥ 12-274-39 इति लोका वदन्तीहेति ध. पाठः ॥ 12-274-41 यच्च सोमे
स्थितं जगत् । इति ड. पाठः ॥