अध्यायः 023

व्यासेन युधिष्ठिरंप्रति शङ्खलिखितोपाख्यानकथनपूर्वकं क्षात्रधर्मस्वीकरणचोदना ॥ 1 ॥

वैशंपायन उवाच ।
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत ।
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥
व्यास उवाच ।
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर ।
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ॥
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि ।
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा ।
भृत्याश्चैवोपजीवन्ति तान्भरस्व महीपते ॥
वयांसि पशवश्चैव भूतानि च जनाधिप ।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी ॥
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः ।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥
वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत् ।
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि ॥
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः । ध्यानं विद्या समुत्थानं संतोषश्च श्रियं प्रति ।
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ॥
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका ।
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः ॥
यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति ।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा ।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम् ॥
एतानि राज्ञां कर्माणि सुकृतानि विशांपते ।
इमं लोकममुं चैव साधयन्तीति नः श्रुतम् ॥
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते ।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः ।
अपि गाथामिमां चापि बृहस्पतिरगायत ॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् ।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥
युधिष्ठिर उवाच ।
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः ।
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥
तयोरावसथावास्तां रमणीयौ पृथक्पृथक् ।
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः ।
यदृच्छयाऽथ शङ्खोपि निष्क्रान्तोऽभवदाश्रमात् ॥
सोऽभिगम्याश्रमं भ्रातुश्चंक्रमँल्लिखितस्तदा ।
फलानि शातयामास सम्यक्परिणतान्युत ॥
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः ।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् ।
कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥
सोऽब्रवीद्धातरं ज्येष्ठमुपसृत्याभिवाद्य च ।
इत एव गृहीतानि मयेति प्रहसन्निव ॥
तमब्रतीत्तथा शङ्खस्तीव्ररोषसमन्वितः ।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥
गच्छ राजानमासाद्य स्वकर्म कथयस्व वै ।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम ॥
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ।
शीघ्रं धारय चोरस्य मम दण्डं नराधिप ॥
इत्युक्तस्तस्य वचनात्सुद्युम्न स नराधिपम् ।
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् ।
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः ॥
तमब्रवीत्समागम्य स राजा धर्मवित्तमम् ।
किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् ।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ ।
भक्षितानि महाराज तत्र मां शाधि माचिरम् ॥
सुद्युम्न उवाच ।
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे ।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः ।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥
व्यास उवाच ।
संछन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना ।
नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥
ततः स पृथिवीपालो लिखितस्य महात्मनः ।
करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् ।
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हति ॥
शङ्ख उवाच ।
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम । `सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम् ।'
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि ।
देवानृषीन्पितृंश्चैव मा चाधर्मे मनः कृथाः ॥
`ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् ।' महान्ति पातकान्याहुः संयोगं चैव तैः सह ॥
न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि ।
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत् ॥
सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते ।
तस्करस्य विशेषेण नान्यो दण्डो विधीयते ॥
ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽथवा द्विज ।
सर्वे कामकृते पापे हन्तव्या न विचारणा ॥
राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥
उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि ॥'
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ ।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया ।
मा च तेऽव विशङ्का भूद्दैवमत्र विधीयते ॥
लिखित उवाच ।
किंतु नाहं त्वया पूतः पूर्वमेव महाद्युते ।
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥
शङ्ख उवाच ।
एवमेतन्मया कार्यं नाहं दण्डधरस्तव ।
स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥
व्यास उवाच ।
स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा ।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् ।
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः ॥
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम ।
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोविंशोऽध्यायः ॥

12-23-2 गार्हस्थ्यः गृहस्थस्यायं गार्हस्थ्यः ॥ 12-23-15 बिलशयान्मूषिकान् । अप्रवासिनं गृहादिसङ्गिनम् । सर्पो बिलशयाविवेति ड.थ.पाठः ॥ 12-23-19 बाहुदां नदीमनु तत्समीपे ॥ 12-23-21 शङ्खस्य लिखितस्तदेति झ. पाठः ॥ 12-23-24 उपस्पृश्याभिवाद्य चेति ड.थ. पाठः ॥ 12-23-26 हे पार्थिवसत्तम मया अदत्तादानं कृतमित्यस्मै राज्ञे कथयस्वेति संबन्धः ॥ 12-23-29 अन्तपालेभ्यो द्वारपालेभ्यः ॥ 12-23-31 करिष्येतीति संधिरार्षः ॥ 12-23-32 अनिसृष्टान्यदत्तानि । गुरुणा ज्येष्ठभ्रात्रा ॥ 12-23-33 यथा दण्डधारणे राजा प्रमाणं तथाऽनुज्ञायां हेतुः प्रमाणम् ॥ 12-23-34 शुचिकर्मा मदनुज्ञयैव शोधितदोषः ॥ 12-23-38 मम माम् निष्कृतिः प्रायश्चित्तम् ॥ 12-23-46 उदकस्यार्थं प्रयोजनं आचमनादि कर्तुमिति शेषः ॥