अध्यायः 275
भीष्मेण युधिष्ठिरंप्रति गोकपिलसंवादानुवादः ॥ 1 ॥
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः ।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः ।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः ।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥
येऽशोका नष्टरजसस्तेषां लोकाः सनातनाः ।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥
स्यूमरश्मिरुवाच ।
यद्येषां परमा निष्ठा यद्येषां परमा गतिः ।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेव हि ॥
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेः ।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥
यास्तु स्युर्बहिरोषध्यो बहिरन्यास्तथाऽद्रिजाः ।
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ॥
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ।
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ॥
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ।
शमस्योपरमो दृष्टः प्रव्रज्यायामपण़्डितैः ॥
त्रैलोक्यस्येव हेतुर्हि मर्यादा शाश्वती ध्रुवा ।
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥
प्राग्गर्भाघानमन्त्रा हि प्रवर्तन्ते द्विजातिषु ।
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः ॥
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने ।
दानं गवां पशूनां वा पिण्डानामप्सु मज्जनम् ॥
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा ।
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् ।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥
श्रिया विहीनैरलसैः पण्डितैश्च पलायितम् ।
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥
न वै पापैर्हियते कृष्यते वा
यो ब्राह्मणो यजते वेदशास्त्रैः ।
ऊर्ध्वं यजन्पशुभिः सार्धमेति
ततः पुनस्तर्कयते न कामान् ॥
न वेदानां परिभवान्न शाठ्येन न मायया ।
महत्प्राप्नोति पुरुषो ब्राह्मणो ब्रह्म विन्दति ॥
कपिल उवाच ।
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम् ।
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः ।
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः ॥
चतुर्द्वारं पुरुष चर्तुर्मुखं
चतुर्मुखो नैनमुपैति निन्दा ।
बाहुभ्यां पद्भ्यामुदरादुपस्था
त्तेषां द्वारं द्वारपालो बुभूषेत् ॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं
न वाऽयोनीयस्य शृतं प्रगृह्णात् ।
क्रुद्धो न चैव प्रहरेत धीमां
स्तथास्य तत्पाणिपादं सुगुप्तम् ॥
नाक्रोशमृच्छेन्न वृथा वदेच्च
न पैशुनं जनवादं च कुर्यात् ।
सत्यव्रतो मितभाषोऽप्रमत्त
स्तथाऽस्य वाग्द्वारमथो सुगुप्तम् ॥
नानाशनः स्यान्न महाशनः स्या
न्न लोलुपः साधुभिरागतः स्यात् ।
यात्रार्थमाहारमिहाददीत
तथाऽस्य स्याज्जाठरद्वारगुप्तिः ॥
न वीरपत्नीं विहरेत नारीं
न चापि नारीमनृतावाह्वयीत ।
भार्याव्रतं ह्यात्मनि धारयीत
तथास्योपस्थद्वारगुप्तिर्भवेत् ॥
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः ।
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः ॥
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत ।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः ।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥
नान्तरेणानुजानाति वेदानां यत्क्रियाफलम् ।
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम् ॥
स्वकर्मभिः संश्रितानां तपो घोरत्वमागमत् ।
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥
अशक्नुवन्तश्चरितुं किंचिद्धर्मेषु सूत्रितम् ।
निरापद्धर्म आचारो ह्यप्रमादो पराभवः ॥
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रवाणि च ।
विगुणानि च पश्यन्ति तथा नैकानि केन च ॥
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः ।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥
स्यूमरश्मिरुवाच ।
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा ।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥
कपिल उवाच ।
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः ।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥
स्यूमरश्मिरुवाच ।
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः ।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ॥
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ।
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः ।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ॥
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम् ।
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः ॥
यथाश्रममुपासीत आगमस्तत्र सिध्यति ।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्ययात् ॥
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना ।
ह्रियमाणा कथ विप्र कुबुद्धींस्तारयिष्यति ॥
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो ।
नैव त्यागी न संतुष्टो नाशोको न निरामयः ।
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् ।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।
एकमालम्बमानानां निर्णये किं निरामयम् ।
`एतद्ब्रवीतु भगवानुपपन्नोस्य्यधीहि भो ॥'
कपिल उवाच ।
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु ।
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम् ॥
सर्वं प्रापयति ज्ञानं ये ज्ञानं ह्यनुवर्तते ।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरमयाः ।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः ।
कामद्वेषाभिभूतत्वादहंकारवशं गताः ॥
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।
ब्रह्मस्तेना निरारम्भा अपक्वमनसोऽशिवाः ॥
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते ।
तेषां तमः शरीराणां तम एव परायणम् ॥
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः ।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ।
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसंभवाः ॥
ये तद्बुद्ध्वाऽनुपश्यन्तः संत्यजेयुः शुभाशुभम् ।
परां गतिमभीप्सन्तो यतयः संयमे रताः ॥
स्यूमरश्मिरुवाच ।
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम् ।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः ।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः ।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥
शास्त्रादपेतं पश्यन्ति बहवोऽत्यर्थमानिनः ।
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ।
[इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।
एकमालम्बमानानां निर्णये सर्वतो दिशम् ॥
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना] ।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः ।
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतो दिशम् ॥
`नात्यन्तं वन्दमानेन शक्तेन विजितात्मना ।'
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभापितुम् ।
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा ॥
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् ।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित् ।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया ।
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः ।
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ 275 ॥
12-275-11 श्रमस्योपरमो दृष्ट इति ट.थ. पाठः ॥ 12-275-14 दानं
पुनः संग्रहणं संश्रिता पात्रभोजनम् । इति ट. थ. पाठः । दाहः पुनः संचयनं
संस्थितः पात्रभोजनमिति ध. पाठः ॥ 12-275-19 ब्रह्म ब्रह्मणि विन्दतीति ट. थ.
पाठः ॥ 12-275-20 तेषु धर्मः सनातन इति झ. पाठः ॥ 12-275-22 सर्वज्ञानेन पश्यतः
इति ट. पाठः ॥ 12-275-24 नायोनिजस्येह स्रुवं प्रगृह्णादिति ट.थ. पाठः ।
नायोनिजस्यैव सुतां प्रगृह्णादिति ध. पाठः ॥ 12-275-26 साधुरनागसः स्यादिति ट.
थ. पाठः ॥ 12-275-27 धैर्यव्रतं ह्यात्मनीति ध. पाठः ॥ 12-275-39 यथा च
देवब्राह्मण्यमत्यागश्च कलौ यथेति थ. पाठः ॥ 12-275-44 यथागममुपासीतेति थ. पाठः
यथाकाममुपासीतेति ध.पाठः ॥