अध्यायः 276

भीष्मेण युधिष्ठिरंप्रति गोकपिलसंवादानुवादः ॥ 1 ॥

कपिल उवाच ।
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ॥
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ।
आनन्त्यमनुचिन्त्येदं कर्मणां तद्ब्रबीमि ते ॥
निरागममनैतिह्यमत्यक्षं लोकसाक्षिकम् ।
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ॥
उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः ।
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोगिनः ।
मनः संकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥
आसन्गृहस्था भूयिष्ठा अपक्रान्ताः स्वकर्मसु ।
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥
समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः ।
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः ।
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवापि संहताः ॥
संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत् ।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथंचन ॥
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः ।
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥
य एव प्रथमः कल्पस्तमेवात्र चरन्महान् ॥
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ।
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत् ॥
एत एवंविधाः प्राहुः पुराणा यज्ञवाहनाः ।
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ।
तेषा यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ॥
आगमाश्च यथाकामं संकल्पाश्च यथाव्रतम् ।
अपेतकामक्रोधानां दुश्चराचारकर्मणाम् ॥
स्वकर्मभिः शंसितानां प्रकृत्या शंसितात्मनाम् ।
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम् ॥
सर्वमानन्त्यमेवासीदिति नः शाश्वताश्चुतिः ।
तेषामदीनसत्वानां दुश्चराचारकर्मणाम् ॥
स्वकर्मभिः संसितानां तपो घोरत्वमागतम् ।
सं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥
अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम् ।
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः ॥
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ।
धर्ममेकं चतुष्पादमाश्रितास्ते नरा विभो ॥
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ।
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ॥
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ।
`व्यस्तमेकं चतुर्धा तु ब्राह्मणा आश्रमं विदुः ॥
सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम् । एव एवंविधाः प्राहुः पुराणा ब्रह्मचारिणः ॥'
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः । नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः ।
आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम् ॥
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः ।
न लिप्यन्ते पारकृत्यैः कदाचित्कर्मयोनितः ॥
एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः ।
एवंयुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ॥
कर्मैव पुरुषस्याह शुभं वा यदि वाऽशुभम् ।
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ॥
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ।
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ॥
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ।
संसिद्धैः सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः ॥
संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ।
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः ॥
साधारणः केवलो वा यथाबलमुपास्यते । गच्छन्ते बलिनः क्षेमं दुर्बलोऽत्रावसीदति ।
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥
स्यूमरश्मिरुवाच ।
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये ।
मात्राभिर्धर्मलुब्धाभिर्ये वा त्यागं समाश्रिताः ॥
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः ।
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः ॥
कपिल उवाच ।
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ते ।
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥
स्यूमरश्मिरुवाच ।
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः ।
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥
एकत्वेन पृथक्त्वेन विशेषो नान्य उच्यते ।
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥
कपिल उवाच ।
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
पक्वे कषायविज्ञानं यथा ज्ञानं च तिष्ठति ॥
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥
पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम् ।
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम् ॥
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।
गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् ॥
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम् ।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः ॥
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् ।
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥
एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च ।
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः ॥
समाप्तं त्याग इत्येव शम इत्येव निश्चितम् ।
संतोष इत्यनुगतमपवर्गे प्रतिष्ठितम् ॥
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा स्थावरं जङ्गमं च ।
सर्वं सुखं यच्छिवमुत्तरं च ब्रह्माव्यक्तं प्रभवश्चाव्ययं च ॥
तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् ।
एतैः शब्दैर्गम्यते बुद्धिनेत्रै स्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट््सप्तत्यधिकद्विशततमोऽध्यायः ॥ 276 ॥

12-276-5 धनानामेष वै पन्था इति झ.ट. थ. पाठः ॥ 12-276-14 दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः इति झ. पाठः ॥ 12-276-39 कषायपङ्क्ति कर्माणीति ट. थ. पाठः ॥ 12-276-41 मनसा धर्मनिश्चयमिति ध. पाठः ॥ 12-276-43 रतोन्यो वेदवादक इति ट. थ. पाठः । वेदपातक इति ध. पाठः ॥ 12-276-46 इत्येव सर्ववेदेषु निष्ठितमिति झ. पाठः ॥