अध्यायः 279

भीष्मेण युधिष्ठिरंप्रति धर्माचरणस्य श्रेयस्साधनत्वप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं भवति पापात्मा कथं धर्मं करोति वा ।
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥
भीष्म उवाच ।
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि ।
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥
विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते ।
प्राप्यतां वर्तते कामो द्वेषो वा भरतर्षभ ॥
ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च ।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन ॥
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति ।
सुहृद्भिर्वार्यमाणोऽपि पण़्डितैश्चापि भारत ॥
उत्तरं न्यायसंबद्धं ब्रवीति विधिचोदितम् ।
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥
पापं चिन्तयते कर्म प्रब्रवीति करोति च ।
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ।
स नेह सुखमाप्नोति कुत एव परत्र वै ॥
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु ।
यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥
कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते ।
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥
कुशलस्तु सुखार्थाय साधूंश्चाप्युपसेवते ।
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते ॥
प्राज्ञो धर्मे च रमते धर्मं चैवोपजीवति ।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन ॥
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् ॥
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत ॥
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ।
स तु धर्मफलं लब्ध्वा न तृष्यति युधिष्ठिर ॥
धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च । अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ।
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति ॥
शब्दे स्पर्शे तथा रूपे न च भावयते मनः ।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति ॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।
ततो मोक्षाय यतते नानुपायादुपायतः ॥
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च ।
धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत ॥
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर ।
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः ॥ 279 ॥

12-279-7 व्याजेन कपटेन । अर्थमर्थजातम् ॥ 12-279-9 न्यायसंबद्धमाहारे व्यवहारे च त्यक्तलज्जः सुखी भवेदित्यादि । त्रिविधः कायिको वाचिको मानसश्च ॥ 12-279-10 पापं परानिष्टम् ॥ 12-279-12 कुशलं कल्याणं परहितमित्यर्थः ॥ 12-279-19 निर्वेदं वैराग्यम् ॥ 12-279-20 भावयते चिन्तावशं करोति । विरज्यति तदा कामे इति ड. थ. पाठः ॥