अध्यायः 281

भीष्मेण युधिष्ठिरंप्रति भूतोत्पत्तिविनाशादिप्रतिपादकदेवलनारदसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं देवलस्यासितस्य च ॥
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम् ।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥
नारद उवाच ।
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥
असित उवाच ।
येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः ॥
पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।
अष्टौ भूतानि भूतानां शाश्वतानि भवाव्ययौ ॥
अभावभावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।
विनष्टोऽप्यनुतान्येव जन्तुर्भवति पञ्चधा ॥
तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् ।
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम् ॥
चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च प़ञ्चमी ।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु धातुषु ॥
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः ।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥
रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान् ।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः ।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् । विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ।
इन्द्रियैरुपसृष्टार्थान्मत्वा यस्त्वध्यवस्यति ॥
चित्तमिन्द्रियसंघातं मनो बुद्धिस्तथाऽष्टमी ।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥
पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम् ।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥
पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।
विसर्गे च पुरीषस्य विसर्गे चापि कामिके ॥
मनः षष्ठान्यथैतानि वाचा सम्यग्यथागमम् ।
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया ॥
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥
इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि ।
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम् ॥
सात्विकाश्चैव ये भावास्तथा राजसतामसाः ।
कर्मयुक्ताः प्रशंसन्ति सात्विकान्नेतरांस्तथा ॥
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।
सात्विकस्य निमित्तानि भावान्संश्रयसे स्मृतिः ॥
जन्तुष्वेकतमेष्वेवं भावं यो वा समास्थितः ।
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः ॥
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥
अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥
अथवा संविभागेन शरीरं पाञ्चभौतिकम् । एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ।
ऊष्मणा सह विशो वा संघातः पाञ्चभौतिकः ॥
महान्संधारयत्येतच्छरीरं वायुना सह ।
सत्यप्रभावयुक्तस्य निमित्तं देहभेदने ॥
तथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा । पुण्यपापविनाशान्ते पुण्यपापसमीरितः ।
देहं विशति कालेन ततोऽयं कर्मसंभवम् ॥
हित्वाहित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।
कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥
तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।
कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः ॥
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखकृत् ॥
नैव संजायते जन्तुर्न च जातु विपद्यते ।
याति देहमयं मुक्त्वा कदाचित्परमां गतिम् ॥
पुण्यपापमयं देहं क्षपयन्कर्मसंक्षयात् ।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥
पुण्यपापक्षयार्थं हि साङ्ख्यज्ञानं विधीयते ।
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ॥ 281 ॥

12-281-13 पञ्चधेति झ. पाठः ॥ 12-281-37 क्षीणभोगः पुनर्देहीति ध. पाठः ॥