अध्यायः 284

भीष्मेण युधिष्ठिरंप्रति मोक्षसाधनप्रतिपादकहारीतगीतानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥
भीष्म उवाच ।
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः ।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥
`अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर ॥
स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥
न चक्षुषा न मनसा न वाचा दूषयेत्परम् ।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥
अतिवादांस्तितिक्षेत नाभिमन्येत कंचन ।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥
प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् ।
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम् ॥
अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत् ।
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः ॥
प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः ।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥
लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः ।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ॥
न चान्नदोषान्निन्देत न गुणानभिपूजयेत् ।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ॥
शून्यागारं वृक्षमूलमरण्यमथवा गुहाम् ।
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत् ॥
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥
नित्यतृप्तः सुसंतृष्टः प्रसन्नवदनेन्द्रियः ।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥
अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम् । विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन् ।
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥
वाचो वेगं मनसः क्रोधवेगं हिंसावेगमुदरोपस्थवेगम् ।
एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।
एतत्पवित्रं परमं परिव्राजक आश्रयेत् ॥
महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः ।
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः ॥
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत् ॥
विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ॥ 284 ॥

12-284-2 प्राप्नोति ब्रह्मणः स्थानमिति झ. थ. पाठः ॥ 12-284-4 समुषोढेषूपस्थितेष्वपि । संमुखेषु च कामेषु इति ट. ध. पाठः । समो दुःखेषु कामेषु इति थ. पाठः ॥ 12-284-6 मैत्रायणगतो मित्रः सूर्यस्तस्येदं मैत्रं तदयनं गमनं तच्च मैत्रायणं तत्र गतः । सूर्यवत्प्रत्यहं विभिन्नमार्गः । ग्रामैकरात्रविधिना चरेदित्यर्थः मैत्रायणगतिं चरेदिति ट. ड. पाठः ॥ 12-284-7 नातिमन्येत्कथंचनेति ट. ड. पाठः ॥ 12-284-8 ग्राममध्ये जनसमाजे प्रदक्षिणमनुकूलं सव्यं प्रतिकूलं वा नाचरेत् ॥ 12-284-9 अवतीर्णः सुगुप्तश्चेति ट. ध. पाठः । अप्रियं वददिति झ. पाठः । अवकीर्णो मूढैः पांसुभिश्छन्नः । धिक्कृत इत्यर्थः । तथापि सुगुप्तोऽचपलः स्वधर्मे निष्ठावान् ॥ 12-284-11 अनुयात्रिकमर्थी स्यादिति ड. पाठः ॥ 12-284-12 साधारणं सर्वंयोग्यं स्रक्बुन्दनादिलाभम् ॥ 12-284-16 ध्यानजल्पपरो मौनीति ट. ड. पाठः ॥ 12-284-17 सव्यक्तं भौतिकं स्वर्ग्यं इति ड. ध. पाठः । निःस्पृहः समदर्शी चेति झ. पाठः । सुव्रतो दान्त इति ट. ड. पाठः ॥ 12-284-20 अज्ञातनिष्ठां लिप्सेतेति ध. पाठः ॥