अध्यायः 289

दक्षयज्ञे भागालाभेन रुष्टस्य रुद्रस्य ललाटतटोद्गतस्वेदादग्निरूपज्वरोत्पत्तिः ॥ 1 ॥ ब्रह्मवचनाद्रुद्गेण ज्वरस्य पृथिव्यादिषु विभजनम् ॥ 2 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
अस्मिन्वृत्रवधे तात विवक्षा मम जायते ॥
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप ।
निहतो वासवेनेह वज्रेणेति ममानघ ॥
कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभूव ह ।
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥
भीष्म उवाच ।
शृणु राजञ्ज्वरस्येमं संभवं लोकविश्रुतम् ।
विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत ॥
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् ।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत ।
तत्र देवो गिरितटे हेमधातुविभूषिते ॥
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह । शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ ।
तथा देवा महात्मानो वसवश्चामितौजसः ॥
तथैव च महात्मानावश्विनौ भिषजां वरौ ।
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥
यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः । `शङ्खपद्मनिधिभ्यां च लक्ष्म्या परमया सह ।'
उपासन्त महात्मानमुशना च महाकविः ॥
सनत्कुमारप्रमुखास्तथैव च महर्षयः ।
अङ्गिरः प्रमुखाश्चैव तथा देवर्षयोऽपरे ॥
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ।
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ॥
ववौ सुखः शिवो वायुर्नानागन्धवहः शुचिः ।
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा ॥
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ।
महादेवं पशुपतिं पर्युपासन्त भारत ॥
भूतानि च महाराज नानारूपधराण्यथ ।
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ।
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः ।
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ।
पर्युपासत तं देव रूपिणी कुरुनन्दन ॥
स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः ।
देवैश्च सुमहातेजा महादेवो व्यतिष्ठत ॥
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ।
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः ।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥
ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः ।
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा ।
उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥
भगवन्क्वनु यान्त्येते देवाः शक्रपुरोगमाः ।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥
महेश्वर उवाच ।
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।
हयमेधेन जयते तत्र यान्ति दिवौकसः ॥
उमोवाच ।
यज्ञमेतं महादेव किमर्थं नाधिगच्छति ।
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥
महेश्वर उवाच ।
सुरैरेव महाभागे पूर्वमेतदनुष्ठितम् ।
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ॥
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि ।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥
उमोवाच ।
भगवन्सर्वभूतेषु प्रभावाभ्यधिको गुणैः ।
अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥
अनेन ते महाभाग प्रतिषेधेन भागतः ।
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ॥
भीष्म उवाच ।
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् ।
तुष्णींभूताऽभवद्राजन्दह्यमानेन चेतसा ॥
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् ।
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः ।
तं यज्ञं स महातेजा भीमैरनुचरैस्तदा ॥
सहसा घातयामास देवदेवः पिनाकधृत् ।
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे ॥
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ।
केचिद्यूपान्समुत्पाट्य व्याक्षिपन्विकृताननाः ॥
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ।
ततः स यज्ञो नृपतेर्वध्यमानः समन्ततः ॥
आस्थाय मृगरूपं वै स्वमेवाभ्यगमत्तदा ।
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥
धनुरादाय बाणेन तदान्वसरत प्रभुः ।
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः ॥
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ।
तस्मिन्यतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥
प्रादुर्बभूव सुमहानग्निः कालानलोपमः ।
तत्र चाजायत तदा पुरुषः पुरुषर्षभ ॥
ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः ।
ऊर्ध्वकेशोऽतिरोमाङ्गः श्येनोलूकस्तथैव च ॥
करालकृष्णवर्णश्च रक्तवासास्तथैव च ।
तं यज्ञं सुमहासत्वोऽदहत्कक्षमिवानलः ॥
व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा ।
देवाश्चाप्याद्रवन्सर्वे ततो भीता दिशो दश ॥
तेन तस्मिन्विचरता पुरुषेण विशांपते ।
पृथिवी ह्यचलद्राजन्नतीव भरतर्षभ ॥
हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः ।
पितामहो महादेवं दर्शयन्प्रत्यभाषत ॥
ब्रह्मोवाच ।
भवतोपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ।
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥
इमा हि देवताः सर्वा ऋषयश्च परंतप ।
तव क्रोधान्महादेव न शान्तिमुपलेभिरे ॥
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम ।
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥
एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो ।
समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ॥
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते ।
भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ॥
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृत् ।
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा ।
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥
शीर्षाभितापो नागानां पर्वतानां शिलाजतु ।
अपां तु नीलिकां विद्धि निर्मोकं भुजगेषु च ॥
खोरकः सौरभेयाणामूषरं पृथिवीतले ।
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥
अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥
शार्दूलष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते ।
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ॥
मरणे जन्मनि तथा मध्ये चाविशते नरम् ।
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ॥
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ।
अनेन हि समाविष्टो वृत्रो धर्मभूतां वरः ॥
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ।
प्रविश्य बज्रं वृत्रं च दारयामासं भारत ॥
दारितश्च स वज्रेण महायोगी महासुरः ।
जगाम परमं स्थानं विष्णोरमिततेजसः ॥
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा ।
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया ।
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स सुखी मुदा युतो लभेत कामान्स यथा मनीषितान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोननवत्यधिकद्विशततमोऽध्यायः ॥ 289 ॥

12-289-6 सिद्धं लोकेषु भारतेति ट. थ. पाठः ॥ 12-289-15 तस्थिरे चाचलोपमा इति ध. पाठः ॥ 12-289-21 ज्वलितैर्ज्वलनप्रभैरिति ट. थ. ध. पापः ॥ 12-289-26 सर्वमेतदनुष्ठितमिति ट. ध. पाठः ॥ 12-289-28 प्रभवस्यधिको गुणैरिति ध. पाठः ॥ 12-289-32 सर्वलोकमहेश्वर इति ध. पाठः ॥ 12-289-36 आधाय मृगरूपं इति ध. पाठः ॥ 12-289-40 ऊर्ध्वकेशोतिरिक्ताङ्ग इति थ. पाठः ॥ 12-289-44 हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे इति ट. ध. पाठः ॥ 12-289-52 शिलाजतु धातुविशेषः । नीलिका शैवालम् ॥ 12-289-53 खोरकः पशूनां पादरोगः ॥ 12-289-54 रन्ध्रागतं अश्वगलरन्ध्रगतं मांसखण्डम् । रन्ध्रोद्रमनमश्वानामिति ट. थ. पाठः । रन्ध्रोद्भवश्च मत्स्यानामिति ध. पाठः ॥ 12-289-55 पित्तभेदश्च सर्वेषां प्राणिनामिति नः श्रुतमिति ट. ध. पाठः ॥