अध्यायः 290

वीरभद्रेण दक्षयज्ञभङ्गः ॥ 1 ॥ दक्षकृतस्तुतिप्रसन्नेन रुद्रेण दक्षाय वरदानम् ॥ 2 ॥

जनमेजय उवाच ।
प्राचेतसस्य दक्षस्य कथं वैवस्वतेन्तरे । विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ।
`कथं स चाभवद्ब्रह्मन्हयमेव प्रजापतेः ॥'
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः । प्रसादात्तस्य दक्षेण स यज्ञः संधितः कथम् ।
एतद्वेदितुमिच्छेयं तन्मे ब्रूहि यथातथम् ॥
वैशंपायन उवाच ।
पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥
गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते ।
ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥
पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ।
सर्वे प्राज्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
हाहा हूहूश्च गन्धर्वौ तुम्बुरुर्नारदस्तथा ॥
विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा ।
आदित्या वसवो रद्राः साध्याः सह मरुद्गणैः ॥
इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः ।
ऊष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा ॥
ऋषयः पितरश्चैव आगता ब्रह्मणा सह ।
एते चान्ये च बहवो भूतग्रामाश्चतुर्विधाः ॥
जरायुजाण्डजाश्चैव सहसा स्वेदजोद्भिजैः ।
आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः ॥
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।
तान्दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत् ॥
नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते ।
वधबन्धं प्रपन्ना वै किंनु कालस्य पर्ययः ॥
किंनु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम् ।
उपस्थितं भयं घोरं न बुध्यन्ति यहाध्वरे ॥
इत्युक्त्वा स महायोगी पश्यति ध्यानचक्षुषा ।
स पश्यति महादेवं देवीं च वरदां शुभाम् ॥
नारदं च महात्मानं तस्या देव्याः समीपतः ।
संतोषं परमं लेभे इति निश्चित्य योगवित् ॥
एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः ।
तस्माद्देशादपक्रम्य दधीचिर्वाक्यमब्रवीत् ॥
अपूज्यपूजनाच्चैव पूज्यानां चाप्यपूजनात् ।
नृघातकसमं पापं शश्वत्प्राप्नोति मानवः ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम् ॥
आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् ।
अध्वरे ह्यग्रभोक्तारं ह्यर्वेषां पश्यत प्रभुम् ॥
दक्ष उवाच ।
सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
एकादशस्थानगता नाहं वेद्मि महेश्वरम् ॥
दधीचिरुवाच ।
सर्वेषामेव मन्त्रोऽयं येनासौ न निमन्त्रितः । यथाऽहं शंकरादूर्ध्वं नान्यं पश्यामि दैवतम् ।
तथा दक्षस्य विपुलो यज्ञोऽयं नभविष्यति ॥
दक्ष उवाच ।
एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् ।
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभुर्विभुश्चाहवनीय एषः ॥
देव्युवाच ।
किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्य ।
` लभेत भागं च तथैव सर्वं प्रभुर्विभुश्चाहवनीय एषः ।' लभेत भागं भगवानचिन्त्यो ह्यर्धं तथा भागमथो तृतीयम् ॥
एवं ब्रुवाणां भगवान्स्वपत्नीं प्रहृष्टरूपः क्षुभितामुवाच ।
न वेत्सि मां देवि कृशोदराङ्गि किं नाम युक्तं वचनं मखेशे ॥
अहं विजानामि विशालनेत्रे ध्यानेन हीना न विदन्त्यसन्तः ।
तवाद्य मोहेन च सेन्द्रदेवा लोकास्त्रयः सर्वत एव मूढाः ॥
मामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपगान्ति ।
मां ब्राह्मणा ब्रह्मविदो यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम् ॥
देव्युवाच ।
सुप्राकृतोऽपि पुरुषः सर्वः स्त्रीजनसंसदि ।
स्तौति गर्वायते चापि स्वमात्मानं न संशयः ॥
श्रीभगवानुवाच ।
नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे ।
यं स्रक्ष्यामि वरारोहे यागार्थे वरवर्णिनि ॥
इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् ।
सोऽसृजद्भगवान्वक्राद्भूतं घोरं प्रहर्षणम् ॥
तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः ।
ततो वक्राद्विमुक्तेन सिंहेनैकेन लीलया ॥
देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः ।
मन्युना च महाभीमा महाकाली महेश्वरी ॥
आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ।
देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः ॥
आत्मनः सदृशः शौर्याद्बलरूपसमन्वितः ।
स एव भगवान्क्रोधः प्रतिरूपसमन्वितः ॥
अनन्तबलवीर्यश्च अनन्तबलपौरुषः ।
वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥
सोऽसृजद्रोमकूषेभ्यो रौम्यान्नाम गणेश्वरान् ।
रुद्रतुल्या गणा रौद्रा रुद्रवीर्यपराक्रमाः ॥
ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया ।
भीमरूपा महाकायाः शतशोऽथ सहस्रशः ॥
ततः किलकिलाशब्दैराकाशं पूरयन्ति च ।
तेन शब्देन महता त्रस्तास्तत्र दिवौकसः ॥
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा ।
मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः ॥
अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः ।
ग्रहा चैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः ॥
ऋषयो न प्रकाशन्ते न देवा न च मानुषाः ।
एवं तु तिमिरीभूते निर्दहन्त्यपमानिताः ॥
प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च ।
प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथाऽपरे ॥
आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ।
चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च ॥
विशीर्यरमाणा दृश्यन्ते तारा इव नभस्तले ।
दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ॥
क्षीरनद्योऽथ दृश्यन्ते धृतपायसकर्दमाः ।
दधिमण्डेदका दिव्याः खण्डशर्करवालुकाः ॥
षड्रसा निवहन्त्येता गुडकुल्या मनोरमाः ।
उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥
पानकानि च दिव्यानि लेह्यचोष्याणि यानि च ।
भृञ्जते विविधैर्वक्रैर्विलुम्पन्त्याक्षिपन्ति च ॥
रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः ।
क्षोभयन्सुरसैन्यानि भीक्षयन्तः समन्ततः ॥
क्रीडन्ति विविधाकाराश्चिक्षिषुः सुरयोषितः ।
रुद्रक्रोधात्प्रयत्नेन सर्वदेवैः सुरक्षितम् ॥
तं यज्ञमदहच्छीघ्नं रुद्रकर्मा समन्ततः ।
चकार भैरवं नादं सर्वभूतभयंकरम् ॥
छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च ।
ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः ॥
ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवानिति ।
वीरभद्र उवाच ।
नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः ॥
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः ।
द्रष्टुं वा नैव विप्रेन्द्रान्नैव कौतूहलेन वा ॥
तव यज्ञविघातार्थं संप्राप्तं विद्धि मामिह ।
वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः ॥
भद्रकालीति विख्याता देव्याः कोपाद्विनिः सृता ।
प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ ॥
शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम् ।
वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः ॥
वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः ।
तोषयामास स्तोत्रेण प्रणिपत्यं महेश्वरम् ॥
प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥
दक्षप्रजापतेर्यज्ञेः द्रव्यैस्तैः सुसमाहितैः ।
आहूता देवताः सर्वा ऋषयश्च तपोधनाः ॥
देवो नाहूयते तत्र विश्वकर्मा महेश्वरः ।
तत्र क्रुद्धा महादेवी गणांस्तत्र व्यसर्जयत् ॥
प्रदीप्ते यज्ञवाटे तु विद्गुतेषु द्विजातिषु ।
तारागणमनुप्राप्ते रौद्रे दीप्ते महात्मनि ॥
शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः ।
निखातोत्पाटितैर्यूरपविद्धैरितस्ततः ॥
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृद्धिभिः ।
पक्षवातविनिर्धूतैः शिवाशतनिनादितैः ॥
यक्षगन्धर्वसङ्घैश्च पिशाचोरगराक्षमैः ।
प्राणापानौ संनिरुध्य वक्रस्थानेन यत्नतः ॥
विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ।
सहसा देवदेवेशो ह्यग्निकुण्डात्समुत्थितः ॥
विभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः ।
स्मितं कृत्वाऽव्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥
श्राविते च मखाध्याये देवानां गुरुणा ततः ।
तमुवाचाज्जलिं कृत्वा दक्षो देवं प्रजापतिः ॥
भीतशङ्कितवित्रस्तः सवाष्पवदनेक्षणः ।
यदि प्रसन्नो भगवान्यदि चाहं भवत्प्रियः ॥
यदि वाऽहभनुग्राह्यो यदि वा वरदो मम ।
यद्दग्धं भक्षितं पीतमशित्तं यच्च नाशितम् ॥
चूर्णीकृतापविद्धं च यज्ञसंभारमीदृशम् । दीर्घकालेन महता प्रयत्नेन सुसंचितम् ।
तन्न मिथ्या भवेन्मह्यं वरमेतमहं वृणे ॥
तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः ।
धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः ॥
जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् ।
नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥
युधिष्ठिर उवाच ।
यैर्नामघेयैः स्तुतवान्दक्षो देवं प्रजापतिः ।
वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ ॥
भीष्म उवाच ।
श्रूयतां देवदेवस्य नामान्यद्भूतकर्मणः ।
गूढव्रतस्य गुह्यानि प्रकाशानि च भारत ॥
नमस्ते देवदेवेश देवारिबलसूदन ।
देवेन्द्रबलविष्टम्भ देवदानवपूजित ॥
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुखं ॥
सर्वतः श्रुतिमंल्लोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोस्तु ते ।
शतोदर शतावर्त शतजिह्न नमोस्तु ते ॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणं त्वा शतक्रतुमूर्ध्वं खमिव मेनिरे ॥
मूर्तौ हि ते महामूर्ते समुद्राम्बरसन्निभ ।
सर्वा वै देवता ह्यस्मिन्गावो गोष्ठ इवासते ॥
भवच्छरीरे पश्यामि सोममग्निं जलेश्वरम् ।
आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् ॥
भगवान्कारणं कार्यं क्रिया करणमेव च ।
असतश्च सतश्चैव तथैव प्रभवाप्ययौ ॥
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यं नमोस्त्वन्धकघातिने ॥
त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥
नमश्चण्डाय कृण्डाय अण्डायाण्डधराय च ।
दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः ॥
नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च ।
विलोहिताय धूम्राय नीलग्नीवाय वै नमः ॥
नमोस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
सूर्याय सूर्यमालाय सूर्यध्वजपताकिने ॥
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ।
शत्रुंदमाय दण्डाय पर्णचीरपटाय च ॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ।
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥
नमो होत्रेऽथ मन्त्राय शुक्लध्वजपताकिने ।
नमो नाभाय नाभ्याय नमः कटकटाय च ॥
नमोस्तु कृशनासाय कृशाङ्गाय कृशाय च ।
संहृष्टाय विहृष्टाय नमः किलकिलाय च ॥
नमोस्तु शयमानाय शयितायोत्थिताय च ।
स्थिताय धावमानाय मुण्डाय जटिलाय च ॥
नमो नर्तनशीलाय मुखवादित्रवादिने ।
नाद्योपहारलुब्धाय गीतवादित्रशालिने ॥
नमो ज्येष्ठाय श्रेष्ठाय वलप्रमथनाय च ।
कालनाथाय कल्याय क्षयायोपक्षयाय च ॥
भीमदुन्दुभिहासाय भीमव्रतधराय च ।
उग्राय च नमो नित्यं नमोस्तु दशबाहवे ॥
नमः कपालहस्ताय चितिभस्मप्रियाय च ।
विभीषणाय भीष्माय भीमव्रतधराय च ॥
नमो विकृतवक्राय खङ्गजिह्वाय दंष्ट्रिणे ।
पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च ॥
नमो वृषाय वृष्याय गोवृषाय वृषाय च ।
कटंकटाय दण्डाय नमः पचपचाय च ॥
नमः सर्ववरिष्ठाय वराय वरदाय च ।
वरमाल्यगन्धवस्त्राय वरातिवरदे नमः ॥
नमो रक्तविरक्ताय भावनायाक्षमालिने ।
संभिन्नाय विभिन्नाय च्छायायातपनाय च ॥
अघोरघोररूपाय घोरघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततमाय च ॥
एकपाद्वहुनेत्राय एकशीर्ष्णे नमोस्तु ते ।
रुद्राय क्षुद्रलुब्धाय संविभागप्रियाय च ॥
पञ्चालाय सिताङ्गाय नमः शमशमाय च ।
नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने ॥
सहस्राध्मातघण्टाय घण्टामालाप्रियाय च ।
प्राणघण्टाय गन्धाय नमः कलकलाय च ॥
हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च ।
नमः शमशमे नित्यं गिरिवृक्षालयाया च ॥
गर्भमांससृगालाय तारकाय तराय च ।
नमो यज्ञाय यजिने हुताय प्रहुताय च ॥
यज्ञवाहाय दान्ताय तप्यायातपनाय च ।
नमस्तटाय तट्याय तटानां पतये नमः ॥
अन्नदायान्नपतये नमस्त्वन्नभुजे तथा ।
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥
सहस्रोद्यतशूलाय सहस्रनयनाय च ।
नमो बालार्कवर्णाय बालरूपधराय च ॥
बालानुचरगोप्ताय बालक्रीडनकाय च ।
नमोवृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च ॥
तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः ।
नमः षट््कर्मतुष्टाय त्रिकर्मनिरताय च ॥
वर्णाश्रमाणां विधिवत्पृथक्कर्मनिवर्तिने ।
नमो घुष्याय घोषाय नमः कलकलाय च ॥
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च ।
प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च ॥
धर्मकामार्थमोक्षाणां कथनीयकथाय च ।
साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगप्रवर्तिने ॥
नमो रथ्यविरथ्याय चतुष्पथरथाय च ।
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥
ईशानवज्रसंघातहरिकेश नमोस्तु ते ।
त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोस्तु ते ॥
काम कामद कामघ्न तृप्तातृप्तविचारिणे ।
सर्व सर्वद सर्वघ्न संन्ध्याराग नमोस्तु ते ॥
`महाबल महाबाहो महासत्व महाद्युते । महामेघचलप्रख्य महाकाल नमोस्तु ते ।
स्थूलजीर्णाङ्गजटिले वत्कलाजिनधारिणे ॥
दीप्तसूर्याग्निजटिने वत्कलाजिनवाससे ।
रसहस्रसूर्यप्रतिम तपोनित्य तमोस्तु ते ॥
उन्मादनुशतावर्त गङ्गातोयार्द्रमूर्धज ।
चन्द्रवर्त युगावर्त मेघावर्त नमोस्तु ते ॥
त्वमन्नमत्ता भोक्ता च अन्नदोऽन्नभुगेव च ।
अन्नस्रष्टा च पक्ता च पक्कभुक्पवनोऽनलः ॥
जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः ।
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥
चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च ।
त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदांवर ॥
मनसः परमा योनिः खं वायुर्ज्योतिषां निधिः ।
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥
हायिहायि हुवाहायि हावुहायि तथाऽसकृत् ।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥
यजुर्मयो ऋङ्भयश्च त्वमाहुतिमयस्तथा ।
पठ्यसे स्तुतिभिश्चैव वेदोपनिषदां गणैः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वमेव मेघसङ्घाश्च विद्युत्स्तनितगर्जितः ॥
संवत्सरस्त्वामुतवो मासो मासार्धमेव च ।
युगं निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः ॥
वृक्षाणां ककुदोसि त्वं गिरीणां शिखराणि च ।
व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥
क्षीरादो ह्युदधीनां च यन्त्राणां धनुरेव च ।
वज्रः प्रहरणानां च व्रतानां सत्यमेव च ॥
त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥
त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा ।
छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः ॥
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।
गङ्गा समुद्राः सरितः पल्वलानि संरासि च ॥
लता वल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।
द्रव्यकर्मसमारम्भः कालः पुष्पफलप्रदः ॥
आदिश्चान्तश्च देवानां गायत्र्योङ्कार एव च । हरितो रोहितो नीलः कृष्णो रक्तस्तथाऽरुणः ।
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ॥
अवर्णश्च सुवर्णश्च वर्णकारो घनोपमः ।
सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥
त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः ।
उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः ।
त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् ॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च ॥
प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा ।
प्राणोपानः समानश्च उदानो व्यान एव च ॥
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ।
लोहितान्तर्गता दृष्टिर्महावक्रो महोदरः ॥
सूचीरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ।
गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः ॥
मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः ।
अकालश्चातिकालश्च दुष्कालः काल एव च ॥
मृत्युः क्षुरश्च कृत्यश्च पक्षोऽपक्षक्षयंकरः ।
मेघकालो महादंष्ट्रः संवर्तकबलाहकः ॥
घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली ।
ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक् ॥
चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यवेता च चातुर्वर्ण्यकरश्च यः ॥
सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ।
रक्तमाल्याम्बरघरो गिरिशो गिरिकप्रियः ॥
शिल्पिकः शिल्पिनांश्रेष्ठः सर्वशिल्पप्रवर्तकः ।
भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ॥
स्वाहास्वधावषट््कारो नमस्कारो नमो नमः ।
गूढव्रतो गुह्यतपास्तारकस्तारकामयः ॥
धाता विधाता संधाता विधाता धारणो धरः ।
ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम् ॥
भूतात्मा भूतकृद्भूतो भूतभव्यवोद्भवः ।
भूर्भुवः स्वरितश्चैव ध्रुवो दान्तो महेश्वरः ॥
दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः ।
चन्द्रावर्तयुगावर्तः संवर्तः संप्रवर्तकः ॥
कामो विन्दुरणुः स्थूलः कर्णिकारस्रजप्रियः ।
नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः ॥
चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा ।
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥
अधर्महा महापार्श्वश्चण्डधारो गणाधिपः ।
गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥
त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च ।
श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।
दुर्धर्पो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः ॥
शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिकृत् ।
आधयो व्याधयश्चैव व्याधिहा व्याधिरेव च ॥
मम यज्ञमृगव्याधो व्याधीनामागमो गमः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥
दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः ।
विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः ॥
अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः । विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा ।
मधुश्च्युतानामग्रपास्त्वं त्वमेव तुषिताद्यपाः ॥
हिरण्यरेताः पुरुषस्त्वमेव त्वं स्त्री पुमांस्त्वं च नपुंसकं च ।
बालो युवा स्थविरो जीर्णदंष्ट्रस्त्वं नागेन्द्र शक्रस्त्वं विश्वकृद्विश्वकर्ता ॥
विश्वकृद्विश्वकृतां वरेण्यस्त्वं विश्वबाहो विश्वरूपस्तेजस्वी विश्वतोमुखः ।
चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ।
महोदधिः सरस्वती वाग्बलमनलोऽ निलः अहोरात्रं निमेषोन्मेषकर्मा ॥
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥
या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् ।
त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम् ॥
रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते ।
भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥
यः सहस्राण्यनेकापि पुंसामावृत्य दुर्दृशः ।
तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥
यं विनिद्रा जितश्वासाः सत्वस्थाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
जटिले दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥
संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥
प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
ग्रसत्यर्कं च स्वर्भानुर्भूत्वा मां सोऽभिरक्षतु ॥
ये चानुपतिता गर्भा यथा भागानुपासते ।
नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदं तु ते ॥
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु माम् ॥
येन रोदन्ति देहस्था देहिनो रोदयन्ति च ।
हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च ॥
चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥
येषु पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥
रसातलगता ये च ये च तस्मै परं गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योस्तु नित्यशः ॥
येषां न विद्यते सङ्ख्या प्रमाणं रुपमेव च ।
असंख्येयगुणा रुद्रा नमस्तेभ्योस्तु नित्यशः ॥
सर्वभूतकरो यस्मात्सर्वभूतपतिर्हरः ।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥
त्वमेव हीज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः ।
त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥
अथवा मायया देव सूक्ष्मया तव मोहितः ।
एतस्मात्कारणाद्वाऽपि तेन त्वं न निमन्त्रितः ॥
प्रसीद मम भद्रं ते भव भावगतस्य मे ।
त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि ॥
स्तुत्वैवं स महादेवं विरराम प्रजापतिः ।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
बहुनात्र किमुक्तेन मत्समीपे भविष्यसि ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥
अथैनमब्रवीद्वाक्यं लोकस्याधिपतिर्भवः ।
आश्वासनकरं वाक्यं वाक्यविद्वाक्यसंमितम् ॥
दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति ।
अहं यज्ञहरस्तुभ्यं दृष्टमेतत्पुरातनम् ॥
भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत ।
प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु ॥
वेदात्षडङ्गादुद्धृत्य साङ्ख्ययोगाच्च युक्तितः ।
तपः सुतप्तं विपुलं दुश्चरं देवदानवैः ॥
अपूर्वं सर्वतोभद्रं सर्वतोमुखमव्ययम् ।
अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम् ॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ।
गतान्तैरध्यवसितमत्याश्रममिदं व्रतम् ॥
मया पाशुपतं दक्ष शुभमुत्पादितं पुरा ।
तस्य चीर्णस्य तत्सम्यक्फलं भवति पुष्कलम् ॥
तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः । एवमुक्त्वा महादेवः सपत्नीकः सहानुगः ।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥
दक्षप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति वा ।
नाशुभं प्राप्नुयात्किंचिद्दीर्घमायुरवाप्नुयात् ॥
यथा सर्वेषु देवेषु वरिष्ठो भगवाञ्छिवः ।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसंमितः ॥
यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः ।
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥
व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः ।
राजकार्याभियुक्तो वा मुच्यते महतो भयात् ॥
अनेनैव तु देहेन गणानां समतां व्रजेत् ।
तेजसा यशसा चैव युक्तो भवति निर्मलः ॥
न राक्षसाः पिशाचा वा न भूता न विनायकाः ।
विघ्नं कुर्युर्गृहे तस्य यत्रायं पठ्यते स्तवः ॥
शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी ।
पितृपक्षे मातृपक्षे पूज्या भवति देववत् ॥
शृणुयाद्यः स्तवं कृत्स्नं कीर्तयेद्वा समाहितः ।
तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्यभीक्ष्णशः ॥
मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम् ।
सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनाम् ॥
देवस्य च गुहस्यापि देव्या नन्दीश्वरस्य च ।
बलिं सुविहितं कृत्वा दमेन नियमेन च ॥
ततस्तु युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् ।
ईप्सिताँल्लभते सोर्थान्भोगान्कामांश्च मानवः ॥
मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते ।
इत्याह भगवान्व्यासः पराशरसुतः प्रभुः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥

12-290-12 वधं च संप्रपन्ना वै किन्तु कालस्येति ध. पाठः ॥ 12-290-24 क्षुभितो ह्युवाचेति ध. पाठः ॥ 12-290-28 यं ददामि वरारोहे योगार्थे इति ध. पाठः ॥ 12-290-41 प्रहरन्त्यध्वरे घोरा इति ध. पाठः ॥ 12-290-47 क्षोभयन्त्यशुभैर्वकैरिति ध. पाठः ॥ 12-290-62 यज्ञघातविनिर्घातैः शिवाशतनिनादितैरिति ध. पाठः ॥ 12-290-63 वकस्थानेन पद्मासनापरपर्यायेण योगासनेन ॥ 12-290-69 तृणीकृतापविद्धं चेति ध. पाठः ॥ 12-290-78 स्वमिव येमिरे इति ध. पाठः ॥ 12-290-84 नमश्चण्डाय मुण़्डायेति ध. पाठः ॥ 12-290-85 शुद्धायात्मकृताय चेति ध. पाठः ॥ 12-290-90 महामात्राय मन्त्रायेति ध. पाठः ॥ 12-290-97 बहुजिह्वाय दंष्ट्रिणि इति ध. पाठः ॥ 12-290-98 क्रिडक्रिडाय चण़्डायेति ध. पाठः ॥ 12-290-103 नमश्चण्डिकदण्डाय चण्डायादन्डदण़्डिने इति ध. पाठः ॥ 12-290-104 सहस्रधातुचण्डाय रुण़्डमालाप्रियाय चेति ध. पाठः ॥ 12-290-109 बालसूर्यधराय चेति ध. पाठः ॥ 12-290-110 बालातुराणां गोपायेति ध. पाठः ॥ 12-290-114 सांख्याय सांख्ययोगायेति ध. पाठः ॥ 12-290-116 ईशानब्रह्मसंभूतेति ध. पाठः ॥