अध्यायः 293

भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनानां कथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
अतत्त्वज्ञस्य शास्त्राणां संततं संशयात्मनः ।
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥
भीष्म उवाच ।
गुरुपूजा च सततं वृद्धानां पर्युपासनम् ।
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गालवस्य च संवादं देवर्षेर्नारदस्य च ॥
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः ।
श्रेयस्कामो यतान्मानं नारदं गालवोऽब्रवीत् ॥
यैः कैश्चित्संमतो लोके गुणैश्च पुरुषो नृषु ।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति ।
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याणामविशेषतः ।
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः ।
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः ॥
तांस्तु विप्रस्थितानदृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः ।
स्वशास्त्रैः पिरतुष्टाश्च श्रेयो नोपलभामहे ॥
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा ।
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥
एतस्मात्कारणाच्छ्रेयो गहनं प्रतिभाति मे ।
ब्रवीतु भगवांस्तन्मे उपसन्नोस्म्यधीहि भो ॥
नारद उवाच ।
आश्रमास्तात चत्वारो यथा संकल्पिताः पृथक् ।
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥
तेषांतेषां तथाहि त्वमाश्रमाणां ततस्ततः ।
नानारूपं गुणोद्देशं पश्य विप्रस्थितं पृथक् ॥
न यान्ति चैव ते सम्यगभिप्रेतमसंशयम् ।
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ॥
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ।
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ॥
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ।
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥
सद्भिश्च समुदाचारः श्रेय एतदसंशयम् ।
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ॥
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ।
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि ॥
असंत्यागश्च भूत्यानां श्रेय एतदसंशयम् ।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ॥
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ।
अहंकारस्य च त्यागः प्रमादस्य च निग्रहः ॥
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ।
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च ॥
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम् ।
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् ॥
नात्यर्थमुपसेवेत श्रेयसोर्थी कथंचन ॥
नक्तंचर्यां दिवास्वप्नमालस्यं पैशुनं मदम् ।
अतियोगमयोगं च श्रेयसोर्थी परित्यजेत् ॥
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।
स्वगुणैरेव मार्गेति विप्रकर्षं पृथग्जनात् ॥
निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविता नराः ।
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥
अनूच्यमानास्तु पुनस्ते मन्यन्ते महाजनात् ।
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः ॥
अब्रुवन्वाऽतिसुरभिर्गन्धः सुमनसां शुचिः ।
तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥
एव मादीनि चान्यानि परित्यक्तानि मेधया ।
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया ।
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति ।
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥
मूढानामवलिप्तानामसारं भाषितं बहु ।
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान् ॥
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् ।
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे ॥
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः ।
जानन्नपि च मेधावी जडवत्समुपाविशेत् ॥
ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् ।
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन ॥
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः ।
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा ।
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः ॥
अपश्यन्तोऽन्यविषयं भुञ्जते विघसाशिनः ।
भुञ्जानाश्चान्यविषयान्विषयान्विद्धि कर्मणाम् ॥
यत्रागमयमानानामसत्कारेण पृच्छताम् ।
प्रब्रूयाद्ब्रह्माणो धर्मं त्यजेत्तं देशमात्मवान् ॥
शिष्योषाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता ।
यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत् ॥
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् ।
आत्मपूजाभिकामो वै को वसेत्तत्र पण्डितः ॥
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः ।
प्रदीप्तमिव चेलान्तं कस्तं देशं न संत्यजेत् ॥
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः ।
भवेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥
धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः ।
न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥
कर्मणां यत्र पापेन वर्तन्ते जीवितेप्सवः ।
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत् ।
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः ।
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः ।
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥
स्वाहास्वधावषट््कारा यत्र सम्यगनुष्ठिताः ।
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् ।
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः ।
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु ।
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥
उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु ।
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत् ।
अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥
यथाशीला हि राजानः सर्वान्विषयवासिनः ।
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते ॥
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् ।
न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः ॥
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः ।
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिनवत्यधिकद्विशततमोऽध्यायः ॥ 293 ॥

12-293-2 श्रवणं चैव शास्त्राणामिति झ. पाठः ॥ 12-293-4 श्रेयस्कामं जितात्मानमिति थ. पाठः ॥ 12-293-7 प्रवृत्तिः स्यात्कार्याकार्ये विजानत इति ध. पाठः ॥ 12-293-9 नानाविधा गिरस्तास्तु दृष्ट्वा शास्त्राभिनन्दिन इति ध. पाठः ॥ 12-293-11 श्रेयः कलिलं प्रति भाति ये इति झ. पाठः । उपपन्नोस्म्यधीहि भो इति ध. पाठः ॥ 12-293-14 ऋजु पश्यन्ति ये सम्यगिति ध. पाठः ॥ 12-293-19 असंत्यागश्च भूतानामिति ध. पाठः ॥ 12-293-20 प्रणयस्य च निग्रह इति ध. पाठः ॥ 12-293-22 वेद्यार्थानां च जिज्ञासेति ध. पाठः ॥ 12-293-37 कर्मव्यतिकरो भवेदिति ध. पाठः ॥ 12-293-43 आकारं गूहमानाय दोषान्ब्रूयुर्विपश्चिताम् इति ध. पाठः ॥ 12-293-45 धर्मशीलेषु साधुष्विति ध. पाठः ॥ 12-293-48 इच्छता हितमात्मन इति ध. पाठः ॥ 12-293-55 ये दान्तेषु उपसृष्टाः सक्रोधास्तेषु येच साधुषु दुराचारास्तेषु । उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुष्विति ध. पाठः ॥ 12-293-59 वृत्तिं प्रणिहितात्मन इति ध. पाठः ॥